411
भावार्थः--The Hindi commentary was not digitized.
अथ क्रिमिरोगाधिकारः ।
कृमिरोग लक्षण.
शिरसि चापि रुजो हृदये भृशं । वमथुसक्षवथुज्वरसंभवैः ॥
क्रिमिकृताश्च मुहुर्मुहुरामयाः । प्रतिदिनं प्रभवंति तदुद्गमे ॥ १० ॥
भावार्थः--The Hindi commentary was not digitized.
कफपुरीषरक्तज कृमियां.
असितरक्तसिताः क्रिमयस्सदा । कफपुरीषकृता बहुधा नृणां ॥
नखशिरोंगरुहक्षतदंतभ--। क्षकगणाः रुधिरप्रभवाः स्मृताः ॥ ११ ॥
भावार्थः--The Hindi commentary was not digitized.
कृमिरोग चिकित्सा.
क्रिमिगणप्रशमाय चिकीर्षुणा । विविधभेषजचारुचिकित्सितं ॥
सुरसयुग्मवरार्जफणिज्जक । स्वरससिद्धघृतं प्रतिपाययेत् ॥ १२ ॥
भावार्थः--The Hindi commentary was not digitized.
कृमिरोग शमनार्थ शुद्धिविधान.
कटुकतिक्तकषायगणौषधै--। रुभयतश्च विशुद्धिमुशंत्यलम् ॥
लवणतीक्ष्णतरैश्च निरूहणं । क्रिमिकुलप्रशमार्थमुदाहृतम् ॥ १३ ॥
भावार्थः--The Hindi commentary was not digitized.