413

कृमिघ्न योग.

त्रपुषघृष्टमिहाष्टदिनांतरम् । दधिरसेन पिबेत्क्रिमिनाशनम् ॥
अथ कुलत्थरसं सतिलोद्भवं । त्रिकटुहिंगुविडंगविमिश्रितम् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

पिप्पलीमूल कल्क.

सुरसजातिरसेन च पेशितं । प्रवरपिप्पलिमूलमजांबुना ॥
प्रतिदिनं प्रपिबेत्परिसर्पवान् । कटुकतिक्तगणैरशनं हितम् ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तज कृमिरोग चिकित्सा.

कफपुरीषकृतानखिलान् जये--। द्बहुविधैः प्रकटीकृतभेषजैः ॥
रुधिरसंजनितान्क्रिमिसंचयान् । कथितकुष्ठचिकित्सितमार्गतः ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

कृमिरोग में अपथ्य.

दधिगुडेक्षुरसाम्रफलान्यलं । पिशितदुग्धगणान्मधुरान्रसान् ।
सकलशाकयुताशनपानकान् । परिहरेत्क्रिमिभिः परिपीडितः ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ अजीर्णरोगाधिकारः ।

आम, विदग्ध, विष्टब्धाजीर्ण लक्षण.

पुनरजीर्णविकल्पमपीष्यते । मधुरमन्नमिहाममथाम्लताम् ॥
उपगतं तु विदग्धमतीव रुग् । मलनिरोधनमन्यदुदीरितम् ॥ २३ ॥