418
मूत्राष्ठीलिका लक्षण.
कुपितवातविघातविशोषितः पृथुरिहोपलवद्घनतां गतः ।
भवति मूत्रकृताश्ममहामयो । मलजलानिलरोधकृदुद्धतः ॥ ४१ ॥
भावार्थः--The Hindi commentary was not digitized.
वातबस्ति लक्षण.
जलगतेरिह वेगविधाततः प्रतिवृणोत्यथ बस्तिमुखं मरुत् ।
प्रचुरमूत्रविसंगतयातिरुक्पवनबस्तिरिति प्रतिपाद्यते ॥ ४२ ॥
भावार्थः--The Hindi commentary was not digitized.
मूत्रातीत लक्षण.
अवधृतं स्वजलं मनुजो यदा । गमयितुं यदि वांछति चेत्पुनः ।
व्रजति नैव तदाल्पतरं च वा । तदिह मूत्रमतीतमुदाहृतम् ॥ ४३ ॥
भावार्थः--The Hindi commentary was not digitized.
मूत्रजठर लक्षण.
उदकवेगविघातत एव तत् । प्रकुरुते मरुदुत्परिवर्तते ।
उदरपूरणमुद्धतवेदनं । प्रकटमूत्रकृतं जठरं सदा ॥ ४४ ॥
भावार्थः--The Hindi commentary was not digitized.