478

ग्रहामयघ्न घृत, स्नान धूप, लेप.

अभ्यंजनस्यनयनांजनपानकेषु ।
सर्पिः पुराणमपि तत्परिपक्वमाहुः ॥
स्नानं च तत्क्वथितभेषजसिद्धतोयैः ।
धूपं विलेपनमथ कृतचूर्णकल्कैः ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.

उपसंहार

इति कथितविशेषाशेषसद्भेषजैस्तत
सदृशविरसबीभत्सातिदुर्गंधजातैः ॥
विरचितबहुयोगैः धूपनस्यांजनाद्यै--।
र्भिषगखिलविकारान्मानसानाशु जेयात् ॥ १३६ ॥

भावार्थः--The Hindi commentary was not digitized.

अंत मंगल.

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ १३७ ॥