दुर्जननिंदा ।

अत्रापि संति बहवः कुटिलस्वभावा
दुर्दृष्टयो द्विरसनाः कुमतिप्रयुक्ताः
छिद्राभिलाषनिरताः परवाधकाश्च
घोरोरगैरुपमिताः पुरुषाधमास्ते ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

6
केचित्पुनः स्वगृहमान्यगुणाः परेषां
दुष्यंत्यशेषविदुषां न हि तत्र दोषः
पापात्मनां प्रकृतिरेव परेष्वसूया--
पैशुन्यवाक्परुषलक्षणलक्षितानाम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

केचिद्विचाररहिताः प्रथितप्रतापाः
साक्षात्पिशाचसदृशाः प्रचरंति लोके
तैः किं यथाप्रकृतमेव मया प्रयोज्यं
मात्सर्यमार्यगुणवर्यमिति प्रसिद्धम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.