7

वैद्यशद्वकी व्युत्पत्ति

विद्येति सत्प्रकटकेवललोचनाख्या
तस्यां यदेतदुपपन्नमुदारशास्त्रम्
वैद्यं वदंति पदशास्त्रविशेषणज्ञा
एतद्विचिन्त्य च पठंति च तेऽपि वैद्याः ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

आयुर्वेदशद्वका अर्थ

वेदोऽयमित्यपि च बोधविचारलाभा--
त्तत्वार्थसूचकवचः खलु धातुभेदात्
आयुश्च तेन सह पूर्वनिवद्धमुद्य--
च्छास्त्राभिधानमपरं प्रवदंति तज्ज्ञाः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

शिष्यगुणलक्षणकथनप्रतिज्ञा

एवंविधस्य भुवनैकहिताधिकोद्य--
द्वैद्यस्य भाजनतया प्रविकाल्पिता ये
तानत्र साधुगुणलक्षणसाम्यरूपा--
न्वक्ष्यामहे जिनपतिप्रतिपन्नमार्गात् ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.