8

आयुर्वेदाध्ययनयोग्य शिष्य ।

राजन्यविप्रवरवैश्यकुलेषु कश्चि--
द्धीमाननिंद्यचरितः कुशलो विनीतः
प्रातर्गुरुं समुपसृत्य यथानुपृच्छेत्
सोऽयं भवेदमलसंयमशास्त्रभागी ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

वैद्यविद्यादानक्रम ।

ज्ञातस्य तस्य गुणतः सुपरीक्षितस्या-
प्यर्हत्समक्षमुपरोपितसद्ब्रतस्य
देयं सदा भवति शास्त्रमिदं प्रधानं
नान्यस्य देयमिति वैद्यविदो वदंति ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

विद्याप्राप्तिके साधन ।

आचार्यसाधनसहायनिवासवल्भा
आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः
बाह्यांतरंगनिजसद्गुणसा धनानि
शास्त्रार्थिनां सततमेवमुदाहृतानि ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.