10
तेषां क्रिया प्रतिदिनं क्रियते भिषग्भि--
रायुर्वयोऽग्निबलसत्वसुदेशसात्म्यम्
विख्यातसत्प्रकृतिभेषजदेहरोगान्
कालक्रमानपि यथक्रमतो विदित्वा ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा के चार पाद

तत्र क्रियेति कथिता मुनिभिश्चिकित्सा
सेयं चतुर्विधपदार्थगुणप्रधाना
वैद्यातुरौषधसुभृत्यगणाः पदार्था--
स्तेष्वप्यशेषधिषणो भिषगेव मुख्यः ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

वैद्यलक्षण

ग्रंथार्थविन्मतियुतोऽन्यमतप्रवीणः
सम्यक्प्रयोगनिपुणः कुशलोऽतिधीरः
धर्माधिकः सुचरितो बहुतीर्थशुद्धो
वैद्यो भवेन्मतिमतां महतां च योग्यः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.