रिष्ट सूचकदूतलक्षण ।

हीनाधिकातिकृशकृष्णविरूक्षितांगः
सव्याधितः स्वयमथायुधदण्डहस्तः
संध्यासु साश्रुनयनो भयवेपमानो
दूतो भवेदतितरां यमदूतकल्पः ॥ ३३ ॥
अश्वैः खरै रथवरैः करभैः रथाम्यैः
प्राप्तः सदा भवति दूतगणोऽतिनिंद्यः
यो वा छिनत्ति तृणमग्रगतो भिनत्ति
काष्ठानि लोष्ठमथवेष्ठकमिष्टकं वा ॥ ३४ ॥
एवंविधं सपदि दूतगतं च रिष्टं
दृष्टवातुरस्य मरणैकनिमित्तहेतुम्
तं वर्जयेदिह भिषग्विदितार्थसूत्रः