505

सर्पांगाभिहतलक्षण.

भीरुकस्य मनुजस्य कदाचिज्जायते श्वयथुरप्यहिदेह--।
स्पर्शनात्तदभिघातनिमित्तात् क्षोभितानिलकृतो विविषोऽयम् ॥ ८६ ॥

भावार्थः--The Hindi commentary was not digitized.

दर्वींकरसर्पलक्षण.

छत्रलांगलशशांकसुचक्रस्वस्तिकांकुशधराः फणिनस्ते ।
यांति शीघ्रमचिरात्कुपिता दर्वीकराः सपवनाः प्रभवंति ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

मंडलीसर्पलक्षण.

मण्डलैर्बहुविधैर्बहुवर्णैश्चित्रिता इव विभांत्यतिदीर्घाः ।
मंदगामिन इहाग्निबिषाढ्याः संभवंति भुवि मण्डलिनस्ते ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

राजीमंतसर्पलक्षण.

चित्रिता इव सुचित्रविराजीराजिता निजरुचे स्फुरिताभा ।
वारुणाः कफकृता वरराजीमंत इत्यभिहिताः भुवि सर्पाः ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.