514

संजीवन अगद.

मंजिष्ठामधुशिग्रुशिग्रुरजनीलाक्षाशिलालेंगुदी ।
पृथ्वीकांसहरेणुकां समधृतां सचूर्ण्य सम्मिश्रितम् ॥
सर्वैर्मूत्रगणैस्समस्तलवणैरालोड्य संस्थापितं ।
श्रृंगे तन्मृतमप्यलं नरवरं संजीवनो जीवयेत् ॥ १२१ ॥

भावार्थः--The Hindi commentary was not digitized.

श्वेतादि अगद.

श्वेतां बूधरकर्णिकां सकिणिहीं श्लेष्मातकं कट्फलं ।
व्याघ्रीमेघनिनादिकां बृहतिकामंकोलनीलीमपि ॥
तिक्तालाबुसचालिनीफलरसेनालोड्य श्रृंगे स्थितं ।
यस्मिन्वेश्मनि तत्र नैव फणिनः कीटाः कुतो वा ग्रहाः ॥ १२२ ॥

भावार्थः--The Hindi commentary was not digitized.

मंडलिविषनाशक अगद.

प्रोक्ता वातकफोत्थिताखिलविषप्रध्वंसिनः सर्वथा ।
योगाः पित्तसमुद्भवेष्वपि विषेष्वत्यंतशीतान्विताः ॥
वक्ष्यंतेऽपि सुगंधिकायवफलद्राक्षालवंगत्वचः ।
श्यामासोमरसादवाकुरवका बिल्वाम्लिका दाडिमाः ॥ १२३ ॥
श्वेताश्मंतकतालपत्रमधुकं सत्कुंडलीचंदनं ।
कुंदेंदीवरसिंधुवारककपित्थेंद्राह्वपुर्ष्पीयुतां ॥
76
  1. क. पुस्तके प ठोऽयं नोपलभ्यते ।