520

भावार्थः--The Hindi commentary was not digitized.

मूषिकविषघ्नघृत.

प्रत्येकं प्रस्थभागैःदधिघृतपयसां क्वाथभागैश्चतुर्भिः ।
वज्रार्कालर्कगोजीनृपतरुकुटजव्याघ्रिकानक्तमालैः ॥
कल्कैः कापित्थनीलीत्रिकटुकरजनीरोहिणीनां समांशैः ।
पक्वं सर्पिर्विषघ्नं शमयति सहसा मूषकाणां विषं च ॥ १३७ ॥

भावार्थः--The Hindi commentary was not digitized.

कीटविषवर्णन.

सर्पाणां मूत्ररेतः शवमलरुधिरांडास्रवोत्यंतकीटा--।
श्चान्ये संमूर्छिताद्या अनलपवनतोयोद्भवास्ते त्रिधोक्ता ॥
तेषां दोषानुरूपैरुपशमनविधिः प्रोच्यतेऽसाध्यसाध्य ।
व्याधीन्प्रत्यौषधाद्यैरखिलविषहरैरद्वितीयैरमोघैः ॥ १३८ ॥

भावार्थः--The Hindi commentary was not digitized.