497

स्थावरविष के सप्तवेग.

प्रथमवेग लक्षण.

स्थावरोग्रविषवेग इदानीमुच्यते प्रथमवेगविशेषे ।
स्तब्धकृष्णरसना सभयं मूर्च्छा भवेध्दृदयरुग्भ्रमणं च ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

द्वितीयवेगलक्षण.

वेपथुर्गलरुजातिविदाहस्वेदजृंभणतृषोदरशूलाः ।
ते द्वितीयविषवेगकृतास्स्युः सांत्रकूजनमपि प्रबलं च ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

तृतीयवेगलक्षण.

आमशूलगलतालुविशोषोच्छूनपीततिमिराक्षियुगं च ।
ते तृतीयविषवेगविशेषात् संभवंत्यखिलकंदविषेषु ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

चतुर्थवेगलक्षण.

सांत्रकूजनमथोदरशूला हिक्कया च शिरसोऽतिगुरुत्वम् ।
तच्चतुर्थविषवेगविकाराः प्राणिनामतिविषप्रभवास्ते ॥ ५६ ॥