कुकुंदर, नितम्ब, पाश्वर्सांधिमर्मलक्षण.

पृष्ठस्योभयपार्श्वयोर्घनबहिर्भागे तथा मर्मणि ।
वंशस्योभयतः कुकुंदर इति प्रख्यातसन्नामनि ॥
तत्र स्यात्सततं नृणां क्षतमधः काये च शोफावहम् ।
चेष्टाध्वंसपरे स्वकाशयनिजप्रच्छादने मर्मणी ॥ ६२ ॥
श्रोणीकांडयुगोपरीह नियतं बद्धौ नितंबौ ततः ।
शोषःकार्श्यमधःशरीरनिहितावन्ये च मर्माण्यतः ॥
श्रोणी पार्श्वयुगस्य मध्यनिलयौ संधी च पार्श्वादिका--।
वस्रापूर्णमहोदरेण मरणं प्राप्नोति मर्त्यः क्षते ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.