563
क्षारस्यापि विनष्टवीर्यसमये क्षारोदकैरप्यति--।
क्षारद्रव्यगणैश्च तद्दहनतः शक्तिः समाप्याययेत् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

क्षारका सम्यग्दग्धलक्षण व पश्चात्क्रिया.

व्याधौ क्षारनिपातने क्षणमतः कृष्णत्वमालोक्य तत् ।
क्षारं क्षीरघृताम्लयष्टिमधुकैः सौवीरकैः क्षालयेत् ॥
पश्चात्क्षारनिवर्तनादनुदिनं शीतान्नपानादिभिः ।
शीतैरप्यनुलेपनैः प्रशमयेत्तं क्षारसाध्यातुरम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षारगुण व क्षारवर्ज्यरोगी.

श्लक्ष्णः शुक्लतरातिपिच्छिलसुखग्राह्योऽल्परुग्व्यापकः ।
क्षारस्स्यादगुणवाननेन सततं क्षारेण वर्ज्या इमे ॥
क्षीणोरः क्षतरक्तपित्तबहुमूर्च्छासक्ततीव्रज्वरा--।
न्तश्शल्योष्मनिपीडिता शिशुमदक्लांतातिवृद्धा अपि ॥ १२ ॥
गर्भिण्योप्यतिभिन्नकोष्टविकटक्लीबस्तृषादुर्भया--।
क्रांतोप्युद्धतसाश्मरीपदगणश्वासातिशोषः पुमान् ॥
मर्मस्नायुसिरातिकोमलनखास्थ्यक्ष्याल्पमांसप्रंदः ।
तस्त्रोतस्वपि मर्मरोगसहितेष्वाहारविद्वेषिषु ॥ १३ ॥