क्षारगुण व क्षारवर्ज्यरोगी.

श्लक्ष्णः शुक्लतरातिपिच्छिलसुखग्राह्योऽल्परुग्व्यापकः ।
क्षारस्स्यादगुणवाननेन सततं क्षारेण वर्ज्या इमे ॥
क्षीणोरः क्षतरक्तपित्तबहुमूर्च्छासक्ततीव्रज्वरा--।
न्तश्शल्योष्मनिपीडिता शिशुमदक्लांतातिवृद्धा अपि ॥ १२ ॥
गर्भिण्योप्यतिभिन्नकोष्टविकटक्लीबस्तृषादुर्भया--।
क्रांतोप्युद्धतसाश्मरीपदगणश्वासातिशोषः पुमान् ॥
मर्मस्नायुसिरातिकोमलनखास्थ्यक्ष्याल्पमांसप्रंदः ।
तस्त्रोतस्वपि मर्मरोगसहितेष्वाहारविद्वेषिषु ॥ १३ ॥
564
सीवन्यामुदरेषु संधिषु गले नाभौ तथा मेहने ।
हृच्छूले च विवर्जयेन्निशितसक्षारं महाक्षारवित् ॥
क्षारोऽयं विषशस्त्रसर्पदहनज्वालाशनिप्रख्यया ।
स्यादज्ञानिनियोजितः सुभिषजा हन्यान्नियुक्तो गदान् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.