568

भावार्थः--The Hindi commentary was not digitized.

स्पृष्ट, सम्यग्दग्ध, दुर्दग्ध, अतिदग्धका लक्षण.

यच्चात्यंतविवर्णमूष्मबहुलं तच्चाग्निसंस्पृष्टमि--।
त्यन्यद्यत्तिलवर्णमुष्णमधिकं नैवातिगाढं स्थितं ॥
तत्सम्यक्समदग्धमप्यभिहितं स्फोटोभ्दवस्तीव्रसं--।
तापाद्दुःखतरं चिरप्रशमनं दुर्दग्धतालक्षणम् ॥ २५ ॥
मूर्च्छा वातितृषा च संधिविगुरुत्वं चांगसंशोषणं ।
मांसानामवलंबनं निजसिरास्नाय्वस्थिसंपीडनं ॥
कालात्सक्रिमिरेव रोहति चिरारूढोऽतिदुर्वर्णता ।
स्यादत्यंतविदग्वलक्षणमिदं वक्ष्ये चिकित्सामपि ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

दग्धव्रणचिकित्सा

स्निग्धं रूक्षमपि प्रपद्य दहनश्शीघ्रं दहत्यद्भुतं ।
तत्रैवाधिकवेदनाविविधविस्फोटादयः स्युस्सदा ॥
ज्ञात्वा स्पृष्टमिहाग्निना तु सहसा तेनैव संतापनं ।
सोष्णैरुष्णगुणौषधैरिह मुहुः सम्यक्प्रदेहः शुभः ॥ २७ ॥
81
  1. इसे ग्रंथांतर में प्लुष्ट शब्द से उल्लेख किया है ।