602
तत्रानिष्टफलप्रसिद्धमधिकं दोषोल्वणं तं पुनः ।
सुस्नेहोग्रतरौषधैरतितरां भूयस्तथा वामयेत् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

आमदोषसे अर्धपीत औषधपर योजना.

आमांशस्य तथामवद्विरसबीभत्सप्रभूते तथा ।
कृत्वा तत्प्रतिपक्षभेषजमलं संशोधयेदादरात् ॥
एवं चार्धमुपैति चेदतितरां मृष्टेष्टसद्भेषजै--।
रिष्टैरिक्षुरसान्वितैः सुरभिभिः भक्ष्यैस्तु संयोजयेत् ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

विषम+औषध प्रतीकार.

ऊर्ध्वाधो विषमौषधं परिगतं किंचिद्व्यवस्थापयन् ।
शेषान्दोषगणान्विनेतुमसमर्थस्सन्महादोषकृत् ॥
मूर्च्छं छर्दिमरोचकं तृषमथोद्गाराविशुद्धिं रुजां ।
हृल्लासं कुरुते ततोऽहिमजलैरुग्रान्वितैर्वामयेत् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.