अयोग का लक्षण व उसकी चिकित्सा.
तैलाभ्यक्तशरीरमाशु तमपि प्रस्विद्य यष्टीकषा--।
यैः कल्कैश्च विपक्वतैलमनुवासस्य प्रयुक्तं भिषक् ॥
स्नेहस्वेदविहीनरूक्षिततनो रूक्षौषधं वाल्पवी--।
र्यं वात्यल्पमथापि वाभ्यवहतं नोर्ध्वं तथाधो व्रजेत् ॥ ६२ ॥
तच्च क्लिश्य इहोग्रदोषनिचयांस्तैस्सार्धमापादये--।
दाध्मानं हृदयग्रहं तृषमथो दाहं च सन्मूर्च्छतां ॥
तं संस्नेह्य च वामयेदपि तथाधस्स्नेह्य संशोधयेत् ।
दुर्वांतस्य समुद्धताखिलमहादोषाः शरीरोद्गताः ॥ ६३ ॥
कुर्वंतिं श्वयथुं ज्वरं पिटकिकां कण्डूसकुष्ठाग्निमां--।
द्यं यत्ताडनभेदनानि च ततो निश्शेषतः शोधयेत् ॥
दुश्शुद्धेऽतिविरेचने स्थितिमति प्रागप्रवृत्ते तथा ।
चोष्णं चाशु पिबेज्जलं सुविहितं संशोधनार्थं परम् ॥ ६४ ॥
पीत्वोष्णोदकमाशु पाणितलतापैःपृष्ठपार्श्वोदर--।
स्विन्ने सद्रवतां प्रपद्य नितरां धावन्ति दोषाःक्षणात् ।
याते स्वल्पतरेऽपि दोषनिचये जीर्णे च सद्भेषजे ।
तत्रायोगविशेष१निष्प्रतिपदं ? कुर्याच्च तद्भेषजम् ॥ ६५ ॥
ज्ञात्वाल्पं गतदोषमातुरबलं शेषं तथान्हस्तदा ।
मात्रां तत्र यथाक्रमादवितथां दद्यात्पुनःशोधने ॥
एवं चेन्न च गच्छति प्रतिदिनं संस्कृत्य देहक्रिया--।
मास्थाप्याप्यनुवास्य वाप्यतिहितं कुर्याद्विरेकक्रियाम् ॥ ६६ ॥
भावार्थः--The Hindi commentary was not digitized.
-
वियोग इति पाठांतरं ।
↩