607
पश्चात्तद्गुदसर्पणांगचलनप्रच्छर्दनोपद्रवा--।
स्तेषां चाभिहितक्रमात्प्रतिविधिं कुर्याद्भिषग्भेषजैः ॥
तन्निस्सर्पितमुष्णतैलपरिषिक्तं तद्गुदं पीडयेत् ।
वातव्याधिचिकित्सिंतं च सततं कृत्वाचरेद्भेषजम् ॥ ७४ ॥

जीवशोणित लक्षण.

जिह्वालंबनिकामुपद्रवगणे सम्यक्चिकित्सा मया ।
संप्रोक्ता खलु जीवशोणितमतः संलक्ष्यतां लक्षणैः ॥
यच्चोष्णोदकधौतमप्यतितरां नैवापसंसज्यते ।
स्वापभ्दक्षयतीह शोणितमिदं चान्यत्र पित्तान्वितं ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.