610

भावार्थः--The Hindi commentary was not digitized.

परिस्रावव्यापत्तिचिकित्सा.

तं च स्रावविकारमत्र शमयेत्सांग्राहिकेर्भेषजैः ।
प्रोक्तैरप्यथ वक्ष्यमाणविषयैस्संस्थापनास्थापनैः ॥
क्षीरेण प्रचुराजमोदशतपुष्पाचूर्णितेनाज्यसं--।
मिश्रेणोष्णविशेषशाल्यशनमत्यल्पं समास्वादयेत् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

प्रवाहिका लक्षण.

स्निग्धो वातिनिरूक्षितश्च पुरुषः पीत्वात्र संशोधनं ।
योऽप्राप्तं तु मलं बलाद्गमयति प्राप्तं च संधारयेत् ॥
तस्यांतस्सुविदाहशूलबहुलश्वेतातिरक्तासिता ।
श्लेष्मा गच्छति सा प्रकारसहिता साक्षाद्भवेद्वाहिका ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.