प्रवाहिका, हृदयोपसरण, व विबंध की चिकित्सा.

तामास्रावविकारभेषजगणैरास्थाप्य संशोध्य त--।
त्पश्चादग्निकरौषधैरहिमपानीयं तु संपाययेत् ॥
ऊर्ध्वाधश्च प्रवृत्तभेषजगतिं यो वात्र संस्तंभये--।
दज्ञानाधृदयोपसंसरणतां कृत्वात्र दोषास्तथा ॥ ८२ ॥
हृत्पीडां जनयन्त्यतश्च मनुजो जिह्वां सदंतामरं ।
खादंस्ताम्यति चोर्ध्वदृष्टिरथवा मूर्च्छत्यतिक्षामतः ॥
तं चाभ्यज्य सुखोष्णधान्यशयने संस्वेद्य यष्ठीकषा--।
यैः संसिद्धतिलोभ्दवेन नितरामत्रानुसंवासयेत् ॥ ८३ ॥
तं तीक्ष्णातिशिरोविरेचनगणैस्संशोध्य यष्ठीकषा--।
योन्मिश्रैरपि तण्डुलांबुभिररं तं छर्दयेदातुरम् ॥
ज्ञात्वा दोषसमुच्छ्रयं तदनु तं सद्बस्तिभिः साधये--।
द्यः संशुद्धतनुः सुशीतलतरं पानादिकं सेवते ॥ ८४ ॥
स्रोतस्वस्य विलीनदोषनिकरः संघातमापद्यते ।
वर्चो मूत्रमरुन्निरोधनकरो बध्नात्यथाग्निस्वयं ॥
आटोपज्वरदाहशूलबहुमूर्च्छाद्यामयास्स्युस्तत--।
स्तं छर्द्या सनिरूहयेदपि तथा तं चानुसंवासयेत् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

612