पीडनदोषजन्य व्यापत्ति व उसकी चिकित्सा

तथातिनिष्पीडनतो द्रवद्रुतं । मुखे च नासापुटयोः प्रवर्तते ॥ ९८ ॥
तथा गृहीत्वाशु विधिर्विधीयतां । विरेचयत्तीक्ष्णतरैर्विरेचनैः ।
सुशीतलाम्भः परिषेचयेत्तथा । ततोऽतियत्नाद्द्रवमानयेदधः ॥ ९९ ॥
अथाल्पपीडादपवर्तते द्रवं । पुनः पुनः पीडनतोऽनिलान्वितम् ।
करोति चाध्मानमतीववेदनां । ततोऽनिलघ्नं कुरु बस्तिमुत्तमम् ॥ १०० ॥
चिरेण निष्पीडितमामयोदयं । करोति तत्क्लेशमथातुरं द्रवम् ।
यथोक्तसद्भेषजसिद्धसाधनै--। रुपाचरेदाशु सुशांतये सदा ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.

616