अयोग, आध्मानलक्षण व चिकित्सा.

सुशीतलो वाल्पतरौषधोपि वा तथाल्पमात्रापि करोत्ययोगताम् ।
तथा नभो गच्छति बस्तिरुद्धतं भवत्यथाध्मानमतीववेदना ॥ १०९ ॥
618
सुतीक्ष्णबस्तिं वितरेद्यथोचितं विरेचनं चात्र विधीयते बुद्धैः ।
अजीर्णकालेऽत्यशने मलाधिके प्रभूतबस्तिर्हिमशीतलोपि वा ॥ ११० ॥
अथेह दत्तं च करोति वेदनामतीव चाध्मानमतोऽत्र दीयते ।
तथानिलघ्नोऽग्निकरोतिऽतिशोधनो । प्रधानबस्तिर्वरबस्तिशास्त्रतः ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.