624

भावार्थः--The Hindi commentary was not digitized.

अनुवासनवस्ति की विधि.

स्वभ्यक्तं सुखसलिलैरिहाभिषिक्तं ।
शास्त्रोक्तक्रमविहितं तु भोजयित्वा ॥
सिंधूत्थोज्वलशतपुष्पचूर्णयुक्तम् ।
संयुक्त्या विधिविहितानुवासनं तत् ॥ १३२ ॥
स्नेहोद्यत्प्रणिहितबस्तियुक्तमर्त्यं ।
ह्युत्तानोच्चलितसुखप्रसारितांगम् ॥
वीर्यातिप्रसरणकारणं करांघ्रि--
स्फिग्देशान्करतलताडनानि युक्तान् ॥ १३३ ॥
त्रीन्वारं शयनमिहोत्क्षिपेत्क्षिपेच्च ।
स्नेहस्य प्रसरणसंचलार्थमित्थम् ॥
ब्रूयात्तं क्षणशतमात्रकं तु पश्चात् ।
तिष्ठेति त्वमिह सुदक्षिणोरुपार्श्वे ॥ १३४ ॥
इत्येवं सुविहितसत्क्रियानियुक्तः ।
न्यस्तांगस्त्वमिह सुखं मलप्रवृत्यै ॥
तिष्ठेति प्रतिपदमातुरं यथावत् ।
तं ब्रूयान्मलगमने यथा कथंचित् ॥ १३५ ॥

भावार्थः--The Hindi commentary was not digitized.