626
कामस्साक्षादपूर्वः सकलतनुभृतां हृन्मनोनेत्रहारी ।
जीवेद्दिव्यात्मदेहः प्रबलबलयुतो वत्सराणां सहस्रम् ॥ १३८ ॥

भावार्थः--The Hindi commentary was not digitized.

सम्यगनुवासित के लक्षण व स्नेहबस्ति के उपद्रव.

स्नेहं प्रत्येति यश्च प्रबलमरुदुपेतः पुरीषान्वितः सन् ।
सोऽयं सम्यग्विशेषाद्विधिविहितमहास्नेहबस्तिप्रयुक्तः ॥
स्नेहः स्वल्पः स्वयं हि प्रकटबलमहादोषवर्गाभिभूतो ।
नैवागच्छन्स्थितोऽसौ भवति विविधदोषावहद्दोषभेदात् ॥ १३९ ॥

भावार्थः--The Hindi commentary was not digitized.

वातादिदोषों से अभिभूत स्नेहं के उपद्रव.

वाते वक्त्रं कषायं भवति विषमरूक्षज्वरो वेदनाढ्यः ।
पित्तेनास्यं कटुः स्यात्तदपि च बुहुपित्तज्वरः पीतभावः ॥
श्लेष्मण्येवं मुखं संभवति मधुरमुत्क्लेदशीतज्वरोऽपि ।
श्लेष्मःछर्दिप्रसेकस्तत इह हितकृद्दोषभेदान्निरूहः ॥ १४० ॥

भावार्थः--The Hindi commentary was not digitized.