627

अन्नाभिभूतस्नेह के उपद्रव.

संपूर्णाहारयुक्ते सुविहितहितकृत् स्नेहबस्तिप्रयुक्तो ।
प्रत्येत्यन्नातिमिश्रस्तत इह हृदयोत्पीडनं श्वासकासौ ॥
वैस्वर्यारोचकावप्यनिलगतिनिरोधो गुरुत्वं च कुक्षौ ।
भूयात् कृत्वोपवासं तदनुविधियुतं दीपनं च प्रकुर्यात् ॥ १४१ ॥

भावार्थः--The Hindi commentary was not digitized.

अशुद्धकोष्ठके मलमिश्रितस्नेह के उपद्रव.

अत्यंताशुद्धकोष्ठे विधिविहितकृतः स्नेहःबस्तिः पुरीषो--।
न्मिश्रो नैवागामिष्यन्मलनिलयगुरुत्वातिशूलांगसादा--॥
ध्मानं कृत्वातिदुःखं जनयति नितरां तत्र तिक्ष्णौषधैर्वा--।
स्थाप्युग्रं चानुवासं वितरतु विधिवत्तत्सुखार्थं हितार्थम् ॥ १४२ ॥

भावार्थः--The Hindi commentary was not digitized.

ऊर्ध्वगतस्नेह के उपद्रव.

वेगेनोत्पीडितासावधिकतरमिह स्नेह उत्पद्यतोर्ध्वं ।
व्याप्तं श्वासोरुकासारुचिवमंथुशिरोगौरवात्यंतनिद्राः ॥