591

बंधन, द्रव, स्वेदलक्षण.

उष्णौषधैरपि विपाचितपायसाद्यैः पत्रांबरावरणकैरिह बंधनाख्यः ।
सौवीरकांबुघृततैलपयोभिरुष्णैः स्वेदो भवेदतितरां द्रवनामधेयः ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

चतुर्विधस्वेद का उपयोग.

आद्यौ कफप्रशमनावनिलप्रणाशौ बंधद्रवप्रतपनं बहुरक्तपित्त--।
व्यामिश्रिते मरुति चापि कफे हितं तत् सस्नेहदेहहितकृद्दहतीह रूक्षम् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेदका गुण व सुस्वेदका लक्षण.

वातादयस्सततमेव हि धातुसंस्थाः स्नेहप्रयोगवशतः स्वत एव लीनाः ।
स्वेदैर्द्रवत्वमुपगम्य यथाक्रमेण स्वस्था भवंत्युदरगास्स्वनिवासनिष्ठाः ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेद गुण.

स्वेदैरिहाग्निरभिवृद्धिमुपैति नित्यं स्वेदः कफानिलमहामयनाशहेतुः ।
प्रस्वेवदमाशु जनयत्यतिरूक्षदेहे शीतार्थितामपि च साधुनियोजितोऽसौ ॥