656

शिरोविरेचन के सम्यग्योग का लक्षण.

श्रोत्रौ गलोष्ठनयनाननतालुनासा--।
शुद्धिर्विशुद्धिरपि तद्वलवत्कफस्य ।
सम्यक्कृते शिरसि चापि विरेचनेऽस्मिन् ।
योगस्य योगविधितत्प्रतिषेधविद्भिः ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रधमन नस्य का यंत्र.

छागस्तनद्वयनिभायतनास्य नाडी ।
युग्मान्वितांगुलचतुष्कमितां च धूम--।
साम्याकृतिं विधिवरं सुषिरद्वयात्तं ।
यंत्रं विधाय विधिवद्द्वरपीननस्यः ? ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

योगातियोगादि विचार.

योगत्रयं विधिवदत्र यथैव धूमे ।
प्रोक्तं तथैव रसनस्य विधौ च सर्वं ।
धूमातियोगदुरुपद्रवसच्चिकित्सां ।
नस्यातियोगविषयेऽपि च तां प्रकुर्यात् ॥ ७६ ॥