636
अथ त्रयोविंशः परिच्छेदः
मंगलाचरण व प्रतिज्ञा.
श्रीमज्जिनेंद्रमभिवंद्य सुरेंद्रवंद्यं वक्ष्यामहे कथितमुत्तरबस्तिमुद्यत् ।
तल्लक्षणप्रतिविधानविशेषमानाच्छुक्रार्तवं प्रकटदोषनिबर्हणार्थम् ॥ १ ॥
भावार्थः--The Hindi commentary was not digitized.
नेत्रबस्ति का स्वरूप.
यन्मालतीकुसुमवृंतनिदर्शनेन प्रोक्तं सुनेत्रमथ बस्तिरपि प्रणीतः ॥
संक्षेपतः पुरुषयोषिदशेषदोषशुक्रार्तवप्रतिविधानविधिं प्रवक्ष्ये ॥ २ ॥
भावार्थः--The Hindi commentary was not digitized.
उत्तरबस्तिप्रयोगविधि
सुस्निग्धमातुरमिहोष्णजलाभिषिक्त--।
मुत्सृष्टमूत्रमलमुत्कटिकासनस्थम् ॥
स्वाजानुदघ्नफलकोपरि सोपधाने ।
पीत्वा घृतेन पयसा सहितां यवागूम् ॥ ३ ॥
कृत्वोष्णतैलपरिलिप्तसुबस्तिदेश--।
माकृष्य मेहनमपीह समं च तस्य ॥
नेत्रं प्रवेश्य शनकैर्घृतलिप्तमुद्य--।
द्बस्तिं प्रपीडय सुखं क्रमतो विदित्वा ॥ ४ ॥