670

भावार्थः--The Hindi commentary was not digitized.

त्रिविध संस्कार के भिन्न २ फल

रसस्तु खलु मूर्च्छितो हरति दुष्टरोगान्स्वयं ।
मृतस्तु धनधान्यभोगकर इष्यतेऽवश्यतः ॥
यथोक्तपरिमार्गवंधमिह सिद्ध इत्युच्यते ।
ततस्त्वतुलखेचरत्वमजरामरत्वं भवेत् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

मूर्च्छन व मारण.

पुराणगुडमर्दितो रसवरं स्वयं मूर्च्छये--।
त्कपित्थफलसद्रसैर्म्रियत एव गोबंधनैः ॥
पलाशनिजवीज तद्रससुचिक्कणैर्जीरकैः ।
रसस्य सहसा वधो भवति वा कुचीबीजकैः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

मृतरससेवनविधि.

पिवेन्मृतरसं तु दोषपरिमाणमेवातुरो ।
विपक्वपयसा गुडेन सहितेन नित्यं नरः ॥
कनत्कनकघृष्टमिष्टवनितापयो नस्यम--।
प्यनंतरमथांगनाकरविनर्दनं योजयेत् ॥ ६ ॥