रस प्रयोग विधि.
हेमाभ्रकं पटलिकं पटुवज्रकाख्यं ।
संपेषयेल्लवणटङ्कणकोषणेन ॥
सार्धं पुनर्नवरसेन निबंधवेणी--।
नाद्यान्निधाय विपचेद्वरकांजिकायाम् ॥ २२ ॥
सौवर्णचूर्णसहितां परिमर्द्य सम्य--।
क्संयोजयेद्रसवरेण सहैकवारम् ॥ २३ ॥
द्वंद्वोरुमेढकविधानत एव सम्य--।
क्संमर्द्य सोष्णवरकांजिकया सुधौतं ॥
सूक्ष्मांबरद्विगुणितावयवसृतं तं--।
संस्वेदयेत्कथितचारुबिडैश्च सार्धम् ॥ २४ ॥
भावार्थः--The Hindi commentary was not digitized.
तीक्ष्णं निचूर्ण्य वरमाक्षिकधातुचूर्ण--।
व्यामिश्रमुष्णवरकांजिकया सुधौतं ॥
उत्क्वाथ्य साधु बहुशः परिशोधयेच्च ।
गोमूत्रतक्रतिलजंद्विर२जेंद्रतोयैः ॥ २५ ॥
एतत्कनत्कनकचूर्णयुतं सुतीक्ष्णं ।
माक्षीकचूर्णमपि षड्गुणमत्र दद्यात् ॥
भास्वद्रसेंद्रवरभोजनमल्पमल्पं ।
गर्भद्रु३तिक्रमत एव सुजीर्णयेच्च ॥ २६ ॥
मध्ये सुवर्णवरमाक्षिकधातुचूर्णं ।
दद्यात्समं रसवरस्य सुवर्णमेव ॥
पश्चान्महाग्निपरिविद्ध१मतीव शुद्धं ।
बीजोत्तरं तदपि जीर्णय पादमर्धम् ॥ २७ ॥
तं स्वच्छपिच्छिलरसं पटुशुद्धमुद्य--।
न्मूषागतं सुविहितान्यसुभाजनस्थम् ॥
भूमौ निधाय पिहितं तु वितस्तिमात्रं ।
तस्योपरि प्रतिदिनं विदधीत चाग्निम् ॥ २८ ॥
मासं निरंतरमिहाग्निनिभावितं तं ।
चोध्दृत्य पूजितमशेषसुपूजनाग्रैः ॥
संशुद्धताम्रवरतारदलं प्रलिंपे--।
न्मेघेरुनादरसमर्दितसद्रसेंद्रम् ॥ २९ ॥
भावार्थः--The Hindi commentary was not digitized.
108 678