669

अथ चतुर्विंशः परिच्छेदः

मंगलाचरण

प्रणम्य जिनवल्लभं त्रिभुवनेश्वरं विश्रुतं ।
प्रधानधनहीनतोद्धतसुदर्पदर्पापहम् ॥
चिकित्सितमुदाहृतं निरवशेषमीशं नृणां ।
शरीरपरिरक्षणार्थमधिकार्थसार्थावहम् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

रसवर्णन प्रतिज्ञा.

शरीरपरिरक्षणादिह नृणां भवत्यायुषः ।
प्रवृद्धिरधिकोद्धतेंद्रियबलं नृणां वर्द्धते ॥
निरथर्कमथेतरस्याखिलमर्थहीनस्य चे--।
त्यतः परमलं रसस्य परिकर्म वक्ष्यामहे ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

रसके त्रिविध संस्कार

रसो हि रसराज इत्यभिहितः स्वयं लोहसं--।
क्रमक्रमविशेषतोऽर्थनिवहमावहत्यप्यलम् ॥
रसस्य परिमूर्च्छनं मरणमुध्दृतोद्बंधनं ।
त्रिधेति विधिरुच्यते त्रिविधमेव वै तत्फलम् ॥ ३ ॥