707

भावार्थः--The Hindi commentary was not digitized.

अष्टमासिकमरणलक्षण.

अकारणात्स्थूलतरो नरोऽचिरादकारणादेव कृशः स्वयं भवेत् ।
अकारणाद्वा प्रकृतिर्विकारिणी स जीवतीहाष्टविशिष्टमासकान् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

सप्तमासिक मरण लक्षण.

यदग्रतो वाप्यथवापि पृष्टतः पदं सखण्डत्वमुपौति कर्दमे ।
सपांशुलेपः स्वयमाद्र एव वा स सप्तमासान्नपरं स जीवति ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

षाण्मासिकमरणलक्षण.

उलूककाकोद्धतगृध्द्रकौशिकाविशिष्टकंगोग्रसुपिंगलादयः ।
शिरस्यतिक्राम्य वसंति चेद्बलात् स षट्सु मासेषु विनश्यति ध्रुवम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

पंचमासिक मरणलक्षण.

स पांशुतोयेन सुपांशुनाप्यरं शिरस्यसाक्षादवमृद्यते स्वयं ।
सधूमनीद्दारमिहाभिवीक्ष्यते नरो विनश्यत्यथ पंचमासतः ॥ १६ ॥