690

शिलाजतुकल्प.

इति यथोपलबल्कलकल्कसंविहितकल्पमनल्पमुदाहृतम् ।
विदितचारुशिलाजतुकल्पमप्यधिकमल्पविकल्पयुतं ब्रुवे ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

शिलाजीतकी उत्पत्ति.

अथ वक्ष्याम्यद्रिजातप्रवरजतुविधिः संभवादिस्वभावै--।
रिह शैला ग्रीष्मकाले जलदनलसमर्कांशुसंतप्तदेहाः ॥
निजश्रृंगैस्तुगकूटैः कठिनतरसमुद्भिन्नसन्नद्धगण्डैः ।
मदधारामुत्सृजंति त्रिजगदतिशयं सज्जते प्राज्यवीर्यम् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

शिलाजतुयोग.

त्रपुसीसायस्सुताम्रप्रवररजतसत्कांचनानां च योनिं ।
नियतासंख्याक्रमेणोत्तरमधिकतरं सेव्यमेतद्यथावत् ॥
त्रिफलांबुक्षीरसर्पिस्सहितमिह महाश्लेष्मपित्तानिलोत्थैः ।
गिरिनिर्यासो रसेंद्रः कनककृदखिलव्याधिहृद्भेषजं च ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.