695

वज्रकल्प.

वज्राण्यप्यथ वज्रलोहमखिलं वज्रोरुबंधीफलं ।
प्रोद्यद्वज्रकपालमप्यतितरं वज्राख्यपाषाणकम् ॥
यद्यल्लब्धमतः प्रगृह्य विधिना दग्ध्वा तु भस्त्राग्निना ।
सम्यक्पाटलवीरवृक्षकृतसद्भस्माम्भसि प्रक्षिपेत् ॥ ३३ ॥
तान्यत्युष्णकुलत्थपक्वसलिले सप्ताभिवेकान्क्रमात् ।
कृत्वैवं पुनराधिके पयसि च प्रक्षिप्य यत्नाद्बुधः ॥
चूर्णीकृत्य सिताज्यमिश्रममलं ज्ञात्वात्र मात्रां स्वयं ।
लीढ्वाहारनिवासबित्स जयति प्रख्यातरोगान्नरः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

वज्रकल्प का विशेषगुण.

षण्मासानुपयुज्य वज्रमयसद्भैषज्यमाज्यान्वितं ।
जीर्णेस्मिन्वरभैषजैर्घृतपयोमिश्रान्नमप्याहृतम् ॥
जीवेद्वर्षसहस्रमंबरचरैः भूत्वातिगर्वः सदा ।
प्रोद्यद्यौवनदर्पदर्पितबलः सद्वज्रकायो नरः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.