696

मृत्तिकाकल्प.

या चैवं भुवि मृत्तिका प्रतिदिनं संभक्ष्यते पक्षिभि--।
स्तां क्षीरेण घृतेन चेक्षुरससंयुक्तेन संभक्षयेत् ॥
अक्षुण्णं बलमप्यवार्यमधिकं वीर्यं च नीरोगतां ।
वांछन्नब्दसहस्रमायुरनवद्यात्मीयवेषो नरः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

गोश्र्ंग्यादि कल्प.

गोश्रृंगीगिरिश्रृंगजामपि गृहीत्वाशोष्य संचूर्णितां ।
गव्यक्षीरघृतैर्विपाच्य गुडसंमिश्रैः प्रभक्ष्य क्रमात् ॥
पश्चात् क्षीरघृताशनोऽक्षयबलं प्राप्नोति मर्त्यस्स्वयं ।
निर्वीर्योऽप्यतिवीर्यमूर्जितगुणः साक्षाद्भवेन्निश्चयः ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

एरंडादिकल्प.

एरण्डामृतहस्तिकर्णिंविलसद्वीरांघ्रिपैः पाचितं ।
भक्ष्यान् प्रोक्तविधानतः प्रतिदिनं संभक्ष्य मंक्ष्वक्षयं ॥
वीर्यं प्राज्यवलं विलासविलसत् सद्यौवनं प्राप्य तत् ।
षश्चादायुरवाप्यति त्रिशतमब्दानां निरुद्धामयः ॥ ३८ ॥