गर्भाधानक्रम ।

विवर्जयेत्तां च दिनत्रयं पतिः । ततश्चतुर्थेऽहनि तोयगाहनैः ॥
शुभाभिषिक्तां कृतमंगलोज्वलां । सतैलमुष्णां कृशरान्नभोजनीम् ॥ ४३ ॥
स्वयं घृतक्षीरगुडप्रमेलितं--प्रभूतवृष्याधिकभक्ष्यभोजनः ।
स्वलंकृतः साधुमना मनस्विनीं । मनोहरस्तां वनितां मनोहरीम् ॥ ४४ ॥
निशि प्रयायात्कुशलस्तदंगनां । सुतेऽभिलाषो यदि विद्यते तयो
प्रपीड्य पार्श्वं वनिता स्वदक्षिणं । शयीत पुत्र्यामितरं मुहूर्तकम् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.