पित्तप्रकृतिके मनुष्यका लक्षण

पित्तोद्भवाया प्रकृतेः सकाशात् । क्रोधाधिकस्तीक्ष्णतरः प्रगल्भः ।
सस्वेदनः पीतसिरावितानः । यतः प्रियस्ताम्रतरोष्ठतालुः ॥ २१ ॥
मेधान्वितः शूरतरोऽप्रधृष्यो । वाग्मी कविर्वाचकपाठकः स्यात् ।
शिल्पप्रवीणः कुशलोऽतिधीमान् । तेजोऽधिकः सत्यपरोऽतिसत्वः ॥ २२ ॥
पीतोऽतिरक्तः शिथिलोष्णकायो । रक्तांबुजौपम्यकरांघ्रियुग्मः ।
क्षिप्रं जरार्तः खलताप्रसृष्टः सौभाग्यवान् संततभोजनार्थी ॥ २३ ॥
स्वप्ने सुवर्णाभरणानि पश्ये । द्गुजास्रजोऽलक्तकमांसवर्णाम् ।
उल्काशनिप्रस्फुरदग्निराशीन् । पुष्पोत्करान् किंशुककर्णिकासन् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.