1

१. निग्रहस्थानलक्षणम्

नमो विघ्घ्नप्रमथनाय ॥ 1b


नानासद्गुणरत्नराशिकिरणध्वस्तान्धकारस्सदा ,

यो नानाविधसत्त्ववांछितफलप्राप्त्यर्थमत्त्युद्यतः ।

तन्निःशेषजगद्धितोदयपरन्नत्वार्यमञ्जुश्रियं ।

वादन्यायविभाग एष विमलः सङ्क्षिप्त आरभ्यते ॥

यत्प्रयोजनरहितं तत्प्रेक्षापूर्व्वकारिभिर्न्नारभ्यते । यथा बलित्वग्दर्शन
विनिश्चयादिकं । अप्रयोजनञ्चेदं प्रकरण
मित्याशंकावतस्तदाशंकापरिजिहीर्षया
प्रयोजनप्रदर्शनाय न्यायवादिन 1b1 मित्यादिवाक्यमुपन्यस्तवान् । कथम्पु
नरनेन वाक्येनास्य प्रयोजनमुपदर्श्यत इत्यास्तां
तावदेतद् । अर्थस्तु
व्याख्यायते ॥ न्यायस्त्रिरूपलिङ्गलक्षणा युक्तिः । नीयते प्राप्यते विवक्षितार्थ
सिद्धिरनेनेति कृत्त्वा अत एव त्रिविधं लिङ्गमि1b2 त्यादिना त्रि
रूपमेव
लिङ्गमनन्तरम्वक्ष्यति । तदभिधायि वचनमित्यपरे । तम्वदितुं शीलं यस्य स
तथोक्तः । तमपि निगृह्णन्ति पराजयन्त इत्यर्थः । निगृह्णन्तु नामान्याय

वादिनम्पराजयाधिकरणत्त्वादेव । न्यायवादिनन्त्वनिग्रहार्हमपि यन्निगृह्णन्त्ये
तन्न सम्भाव्यते । परोत्कर्षव्यारोपधियस्तु तमपि पराजयन्त इति सम्भावना

यामपि शब्दः समुच्चयार्थोऽतिशयद्योतनार्थो वा केषु निगृह्णन्तीत्याह ।
वादेषु 1b1 साधनदूषणसंशब्दितेषु विचारेष्विति यावत् । विवादेष्विति
क्वचित्पाठः ।
तत्र विरुद्धा वादा विवादा स्तेष्विति व्याख्येयं ।
विरुद्वाश्च कथं साधनदूषणसंशब्दितानाम्विचाराणान्तद्विरुद्धार्थसाधन
प्रवृत्तत्त्वात् ॥ कथम्पुनर्न्यायवादिनमसत्स्वसि
द्ध्यादिषु हेतुदोषेषु निगृह्णन्ती
त्याह ॥ असद्व्ययवस्थोपन्यासैः1b1 असतामसाधूनाम्व्यवस्थाः । असत्यो
2 वा व्यवस्थाः सद्भिः कुत्सितत्त्वात् । ताश्च फलजात्यसन्निग्रहस्थान
लक्ष
2a णास्तासामुपन्यासाः । प्रयोगस्तैरिति विग्रहः । के पुनरह्रीकास्त एवं
विधा इत्याह ॥ शठा धूर्ता मायाविनः परसम्पत्तावीर्ष्यालव इति यावत् ।
यस्मात्तं तथा निगृह्णन्ति
इति तस्मात्तन्निषेधार्थं तेषां शठानान्तेषाम्वा
ऽसद्व्यवस्थोपन्यासानान्तस्य वा निग्रहस्य त्रयाणां वा निषेधो निरासस्तदर्थन्तन्नि
मित्तमिदम्प्रकरणमारभ्यते ॥ स ए वार्थोऽस्ये
ति विग्रहीतव्यं । तन्निषेधे च
कृते सम्यग्विचारः प्रवर्तते तत्पूर्वकश्च सर्वः पुरुषार्थ इत्यभिप्रायः । आसन्न
विषयिणा त्वन्तर्विपरिवर्त्ति प्रकरणमिदमापरा
मृषति । अन्तस्तन्त्वात्मना
परिनिष्पन्नत्वात् । अन्यथाऽपरिनिष्पन्नात्मतयाऽसन्नत्वाभावादिदम् शब्द
प्रयोगो न स्यात् । आरभ्यत 1b1 इति वर्तमानकालनिर्देशः

थमिति चेत् । वर्तमानसामीप्ये वर्तमानवद्वे पाणिनिः ३।३।३१ ति वचनात्
सम्बन्धोऽप्यभिधानीय एवान्यथा बालोन्मत्तप्रलापवदग्राह्यमिदं प्रेक्षापूर्वकारिणा
म्भवेदिति चेत्
सत्त्यमेतत् । प्रयोजनान्तर्गतत्त्वात् पृथ सौ नाभिहितः । तथाहि
तन्निषेधार्थमिदमारभ्यते 1b1 ततश्चैतत्प्रयोजनमनेन प्रकरणेन साध्यते ।
तथा च प्रयोजनप्रकरण
योः साध्यसाधनलक्षणः सम्बन्ध इति सूचितं । ये त्वन्ये
क्रियानन्तर्यादिलक्षणाः सम्बन्धास्ते न वाच्या एव प्रकरणक्रियायामनङ्गभू
तत्त्वात् । तथाहि तेषु सत्स्वपि प्रयो
जनाभावे नारभ्यत एव प्रकरणं ।
असत्स्वपि च तेषु सति प्रयोजने प्रारभ्यत एव । तस्मात्प्रकरणारम्भस्य
प्रयोजनान्वयव्यतिरेकानुविधानात्प्रयोजनमेवाभिधानी
यम्प्रेक्षापूर्वकारिणा । तस्मिं
श्चाभिहिते सम्बन्धोप्युक्त एव भवतीति मन्यते । नानवधारितप्रकरण
शरीराः प्रवर्तन्ते प्रेक्षावन्तस्तस्मात्प्रयोजनवत्प्रवृत्त्यङ्गत्वात्प्रकरण
2b शरीरमपि
वक्त्व्यमेवेति चेत् । एवमेतत्प्रयोजनवाक्येन त्वभिहितत्वान्नैव तदपि सम्बन्धव
त्पृथगभिधानमर्हति । यतस्तन्निषेधार्थमिदमारभ्यत इत्युक्तमतश्च तत्
निषे
धोऽस्य शरीरमित्युक्तम्भवति । यदा चैतन्निषेधार्थमिदमारभ्यते तदा पूर्वको हेतु
रसिद्धः । प्रतिप्रमाणद्वयञ्चानेन सूचितं प्रारब्धव्यमिदम्प्रकरणम्प्रेक्षावता
सति
सामर्थ्ये । ग्राह्यम्वा प्रयोजनवत्वात् । सम्बन्धवत्वाच्च तदन्यशास्त्रवदिति
स्वभावहेतुः ।


3

एवमभिधाय प्रयोजनं सकलप्रकरणार्थसंग्राहकं श्लोकमाह
असाधनाङ्वचन
1b1 मित्यादिना । असाधनाङ्गवचनमदोषोद्भावनञ्च द्वयोर्वादिप्रतिवादि
नोर्यथाक्रमं निग्रहस्थानं पराजयाधिकरणं । अन्यत्त्वित्येत
द्धेयव्यतिरिक्तम
क्षपादप रिकल्पितं प्रतिज्ञासंन्यासादिकं वक्ष्यमाणं निग्रहस्थानं न युक्तमिति
कृत्वा नेष्यते निग्रहस्थानमिति वर्त्तते । अयं तावत् स
मासेन श्लोकार्थः ।
इष्टस्ये 1b1 त्यादिना विभागमारभते । इष्टोऽर्थोऽनित्त्यः शब्द इत्यादि
साध्यत्त्वेनेप्सितः । तस्य सिद्धिः प्रतिपत्तिः साधनं । तदनेन भावस्य

साधनोयं साधनशब्दस्तावदस्मिन्व्याख्यानेऽभिप्रेतो न तु करणसाधन इति
दर्शयति ॥ तस्य साधनस्येष्टार्थसिद्धिलक्षणमस्याङ्गं किन्तदित्याह । निर्वर्त्तकं
जनकं । अने
नाङ्गशब्दं व्याचष्टे । कारणपर्यायोयमत्राङ्गशब्दो नावयवपर्याय
इत्यर्थः । तच्च साधनाङ्गमिह निश्चितत्रैरूप्यं लिङ्गमुच्यते । अस्य साधनाङ्गस्य
वचनं त्रिरूपलिङ्गा
ख्यानं । तस्य साधनाङ्गस्यावचनमनुच्चारणम 1b2
नभिधानं यत्तदसाधनाङ्गवचनं । अनेनैतत्कथयति असाधनाङ्गस्य पक्षोपनयना
देर्वचनमसाधनाङ्गवचनमिति नै
3a व प्रतिपत्तव्यमस्मिन्व्याख्याने । किन्तु साधनाङ्ग
स्यैवावचनमसाधनाङ्गवचनमिति । तदसाधनाङ्गवचनं वादिनो निग्रहस्थानं ।
तदेतेन श्लोकस्य पूर्व्वभागम्विवृणोति । कथम्पुनः साधनाङ्गस्यानुच्चारणम्भवति
निग्रहस्थानं चेत्याह । तदभ्युपगम्येति 1b2 तदितीष्टं साध्यमभ्युपगम्याह
मेतत्साधयामीति प्रतिज्ञयाप्रतिभया करण
भूतया तूष्णीम्भावात् । अप्रतिभाऽत्र
पूर्व्वाधिगतार्थविस्मरणं स्तम्भितत्त्वञ्च गृह्यते ।


अनेन सर्व्वथा साधनाङ्गस्यावचनमाह अभिधाने वा यदि न समर्थितं तदोक्त
मप्यऽ
नूक्तमेव स्वकार्याकरणात् । इत्यभिप्रायवानाह साधनाङ्गस्या
समर्थनाद्वेति
1b2 । तदभ्युपगम्येतिवर्तते । वा शब्दः पुर्व्वापेक्षया
विकल्पार्थः । साधना
ङ्गस्यासमर्थनं त्रिष्वपि रूपेषु निश्चयाप्रदर्शनं । तस्मात्तू
ष्णीम्भावादसमर्थनाच्च साधनाङ्गस्यानुच्चारणं । ततश्च प्रतिज्ञातार्थाकारणात्
वादिनो
निग्रहाधिकरण मिति 1b2 प्रकृतेन सम्बन्धः । क्वचित्तु वादिन
इति पाठः । तत्र तच्छब्देन प्रकृतमनुच्चारणं संबध्यते ।


कथम्पुनः साधनाङ्गासमर्थनम्भ
वति । येन तद्विपर्ययेनासमर्थनात्प्रति
ज्ञातार्थाकारणाद्वादिनो निग्रहाधिकरणत्त्वमिति कदाचित्कश्चिद् ब्रूयादित्येतत्परि
जिहीर्षुरादिप्रस्थानमारचयति
त्रिविधमेवे 1b2 त्यादिना त्रिप्रकारमेव लिङ्ग
4 मङ्गङ्करणं कस्यासिद्धेः प्रतिपत्तिरूपायाः । कस्य सिद्धेरित्याह । अप्रत्य
क्षस्या
परोक्षस्यानुमेयभूतस्य वस्तुन इति
यावत् । अवधारणञ्चतुरादि
व्यवच्छेदमाचष्टे । त्रिविधमेवेति नियमः कथमयमिति चेत् । यस्माद्विधि
प्रतिषेधरूपतया द्विधा साध्यं व्यवस्थितं । विधिरूपञ्च सद्भा
3b वरूपङ्कारणरू
पम्वा भवद् भवेत् । नान्यत् । तत्र हेतोः प्रतिबन्धायोगात् । नह्यर्थान्तरस्याका
र्यस्य सद्भावेऽपरस्य सद्भावो युक्तः । पटसद्भाव इवोष्ट्रस्य । नाप्यर्थां

तरस्याकारणस्य निवृत्तावकार्यस्यान्यस्य च निवृत्तिर्युक्तिमती । उष्ट्रे निवृत्ताविव
पटस्य । न चान्वयव्यतिरेकविकलस्यागमकत्त्वं युक्तं । पटस्याप्युष्ट्रगमकत्त्व

प्रसङ्गात् । स्वभावभूतधर्मसद्भावे तु स्वभावभूतस्यान्यस्य सद्भावो युक्तो नहि
स्वभावः स्वम्भावम्परित्यज्य वर्त्ते । तत्स्वभावत्त्वाभावप्रसङ्गात् । तन्निवृत्तौ
च निवृ
त्तिः ॥ कार्यस्यापि भावे कारणस्य भावो युक्तः । तन्निवृत्तौ च
निवृत्तिरन्यथा तेन विनापि भावात्कार्यमेव तत्तस्य न स्यात्तदन्यवत् ।
तस्मात्स्वभाव
कारणभूतसाध्यभेदात् । द्विधैव विधिरूपं साध्यं तत्रैव हेतोः
प्रतिबन्धात् । स्वभावभूतञ्च साध्यं स्वभावहेतुः साधयति । कारणभूतञ्च
कार्यहेतु
रित्यभ्युपेयं । प्रतिषेधमप्युपलब्धिलक्षणप्राप्तानुपलब्धिरेव साधयति ।
नान्या यथा तथा विस्तरेण प्रतिपादयिष्यति । तदिदमिह संक्षिप्तमर्थ
तत्त्वं
विषयव्यपेक्षया विषयिणो लिंगस्य व्यवस्था । विषयश्च विधिः प्रतिषेधो वा
भवेत् । विधावप्यर्थान्तरम्वा विधीये तानर्थान्तरं वा अर्थान्तरविधावपि का

र्यकारणमनुभयम्वा साध्यते । कार्यप्रतिपादनेपि कारणसामान्यम्वाऽमेघादि
व्यावृत्तं वस्तुमात्रं लिङ्गत्वेनोच्यते । कारणविशेषो वा योऽप्रति
बद्धसामर्थ्ये मे
घादिः । प्रतिषेधोपि निषेध्याभिमतस्यानुपलम्भेनोपलम्भेन
वा प्रतिपाद्येत । अनुपलम्भेपि उपलम्भनिवृत्तिमात्रलक्षणो वा भवेत् ।
तत्तुल्ययोगावस्थ केवला
4a परपदार्थोपलम्भरूपो वेति विकल्पाः । तत्र
नावश्यं गम्भीरध्वानादियुक्तमपि मेघादिकारणमात्रं वृष्ट्यादिकार्याविर्भावक
मन्तरा प्रतिबन्धसम्भवेन व्य
भिचारात् । अतो न कारणमात्रं गमकं । कारण
विशेषादप्यप्रतिहतशक्तेरनन्तरं सम्बन्धस्मृतिव्यवहितादनुमेयविज्ञानात्प्राक्
कार्यमेवोद्भूतमक्षज्ञानग्राह्यं
भवतीति न तस्यापि लिङ्गत्वं । कार्यन्तु कारण
लिङ्गं युक्तं । तदविनाभावात् । तदतिक्रमे वा हेतुमत्ताम्विलंघयेत् । अनुभयमप्य
सम्बन्धानुगमकमतिप्रसङ्गो
वा । अनर्थान्तरमप्यव्यभिचाराङ्गम्यत इति युक्ति
मत् । निषेधोप्युपलम्भेन न युज्यते विरोधात् । कथं हि नामोपलभ्यते च नास्ति
5 चेत्युपपद्यते । तज्ज्ञान
निवृत्तिमात्रमपि व्यभिचारि । एकज्ञानसंसर्गिणस्तु कैवल्य
दृष्टेरसत्ताव्यवहारो युक्तो यदि हि स्यादुपलभ्य सत्त्व एव भवेत् । प्रमाणञ्च यद
नुपपद्य
मानविषयं न तद्विषयि युक्तं । यथा वाजिविषाणं । अनुपपद्यमानविषय
ञ्चोक्तप्रकारेण स्वभावादि स्यादन्यसंयोग्यादिपरपरिकल्पितं लिं
गमिति व्याप
कानुपलम्भः । वैधर्म्येण नीलादिज्ञानं । तदेव वा कार्यादिलिङ्गं । नैमित्तिकशब्दा
र्थानुपपत्तिर्बाधिका । किमेवं सिद्धमगमकत्त्वमन्येषां । तथाहि विष
यित्वङ्ग
मकत्त्वं प्रकाशकत्त्वमित्यादयः पर्यायाः । तस्मात्साध्यस्य त्रिविधत्त्वात्तङ्गमको
हेतुरपि त्रिविध एवेति स्थितमेतत् ।


कथन्त्रिविधमित्याह । स्वभाव 1b2 इत्यादि
च शब्दः
स्वभावकार्यापेक्षया समुच्चयार्थः । एतच्चाभिमतहेतुप्रदर्शनं स्वभावकार्यानुप
लम्भभेदात्त्रिविधमप्रत्यक्षस्य सिद्धेरङ्गं । नतु कारणैकार्थसमवायिविरो
4b ध्यादि
भदादिति दर्शनार्थं । ननु चोपलब्धिलक्षणप्राप्तानुपलम्भश्चेति वक्तव्यं । तस्यैवा
प्रत्यक्षस्य सिद्धेर्वक्ष्यमाणेन न्यायेनाङ्गत्त्वान्नानुपलम्भमात्रस्य तत्कथं सामान्ये
तो
क्तमिति चेत् । एवमेतत्समर्थितसाधनाङ्गाधिकारात्तु सामान्यशब्दोप्यय
मनुपलम्भशब्दौपलब्धिलक्षणप्राप्तानुपलम्भ एव वर्त्तते । तथाहि सामान्यशब्दा
अपि शब्दा
न्तरसन्निधानात्प्रकरणसामर्थ्याच्च विशेषेष्ववतिष्ठन्ते । यदाह । नहि
विशेषशब्दसन्निधेरेव शब्दानां विशेषावस्थितिहेतुरपि तु प्रकरणसामर्थ्यादि
कमपीति

यथा चानुपलम्भमात्रस्य समर्थितसाधनाङ्गत्त्वं न सम्भवति तथोत्तरत्र
प्रतिपादयिष्यति । अप्रत्यक्षसिद्धिहेतुलिङ्गाधिकाराद्वाऽचोद्यमेवैतत् ।
किम्पुन
रस्य त्रिविधस्य साधनाङ्गस्य समर्थनं । यद्विपर्ययादसमर्थनम्भविष्यतीत्याह ।
तस्ये 1b3 त्यादि । साध्यशब्दोत्रानित्यत्त्वादिधर्ममात्रस्य वाचकः ।
अवयव
समुदायोपचारात् न तु साध्यधर्मिधर्मसमुदायस्य व्याप्तेरेवाभावप्रसङ्गात ।
शब्दादिधर्म्मिविशिष्टस्यानित्त्यत्त्वादेर्दृष्टान्तधर्मिण्यभावात् ।
व्याप्तिं प्रसाध्या
न्वयव्यतिरेकसाधकेन प्रमाणेन अनेनान्वयव्यतिरेकनिश्चयावुक्तौ । धर्मिणि
1b3 जिज्ञासितविशेषे शब्दादौ भावसाधनं 1b2 । पक्षधर्मत्त्वसाधकेन
प्रमा
णेन सत्त्वकथनमित्यर्थः । अनेनापि पक्षधर्मत्त्वनिश्चय उक्तः । कथम्पुनः
सर्व्वोपसंहारेण व्याप्तिं प्रसाध्य धर्मिणि भावः कथ्यत इत्यत्रोदाहरणमाह ।
यथेत्या 1b3
दि । तत्सर्व्वमि त्यनेन सर्व्वोपसंहारेण व्याप्तिप्रदर्शनङ्क
थयति । किमर्थं विप्रतिपत्तिनिरासार्थं तथाहि पक्षसपक्षा
6 पेक्षयान्तर्व्याप्तिर्ब्बहिर्व्याप्तिश्च प्रदर्श्य
5a त इत्येके विप्रतिपन्नाः । तच्च
न युक्तं वस्तुबलायातत्त्वाद्व्याप्तेः । पूर्व्व साध्येन व्यार्प्तिं प्रसाध्य पश्चा
द् धर्म्मिणि सत्त्वं कथयितव्यमित्ययमीदृशः क्रमनियमः किमत्रास्ति न वेत्या
ह ।
अत्रापी 1b3 त्यादि । अत्रेति मन्मते साधनाङ्गसमर्थने वा ऽपिशब्दोऽवधारणे
प्रतिषेधे न च सम्बन्धनीयः । नैव कश्चिदयमीदृशः क्रमनियमः 1b3 परिपाटि
नियम इति या
वत् । किंकारणमित्याह । इष्टार्थसिद्धेरुभयत्राविशेषा 1b3
दिति । व्याप्तिसाधनाभिधानपूर्व्वकधर्मिभावसाधनाभिधाने धर्मिभावसाधनाभिधाने
धर्मिभावसाधनाभिधानपूर्व्वके वा व्याप्तिसा
धनाभिधाने साध्यार्थसिद्धेर्विशेषाभावा
दित्यर्थः । एवम कूतं क्रमनियमो हि किमर्थमाश्रीयते साध्यसिध्यर्थं ।
यथा साधर्म1वति दृष्टान्तप्रयोगे सा
ध्येनैव हेतोरविनाभावः प्रदर्श्यते ।
न हेतुना साध्यस्य । तथा वैधर्म्यवति साध्याभाव एव हेतोरभावः कथ्यते । न तु
हेत्वभावे साध्यस्य । किमर्थं । माभूद्धेतोः
साध्येनाविनाभावित्त्वाप्रदर्शनेनेष्टार्थ
सिद्धेरसिद्धिर्विपर्ययसिद्धिश्चेति । यदाह । एवं हि हेतोः सपक्ष एव सत्त्वं । साध्या
भावे चासत्त्वमेव शक्यं द
र्शयितुं । न विपर्ययादिति । यथा नित्यताऽकृतकत्त्वेन
नाशित्त्वाद्वाऽत्र कार्यता । स्यादनुक्ता कृता व्यापित्त्वनिष्ठश्च समन्वय इति ।
तदत्र युक्तं क्रमसमाश्रयणं
इह तु विनाप्यनेनाभिमतार्थसिद्धिः सम्पद्यत इति
सूवतन्न कश्चित्क्रमनियम इति । इष्टार्थसिद्धेरुभत्राविशेषादित्येतदेवात्र कुत
इति चेदाह । यस्माद् धर्मिणी
त्यादि । साध्येन व्याप्तिं प्रसाध्येत्युक्तं प्राक् । किम्पु
नस्तद्व्याप्तिसाधनमित्याह । अत्रेत्यादि 1b3 । अत्रेति स्यभावहेतौ । कार्या
नुपलम्भयोस्तु पश्चाद्व्याप्तिसाधनमभिधा
5b स्यात् । विपर्यये साध्यस्य हेतोर्व
र्त्तमानस्य सत इति शेषः । बाधकं प्रमाणं येन साध्यविपर्यये वर्त्तमानो हेतुर्बाध्यते
तस्य कथनं यत्तद्व्याप्तिसाधनमित्यर्थः ।


किं
पुनस्तद्वाधकप्रमाणोपदर्शनमित्याह यदि न सर्व्वं वस्तु सत्कृतकं
7 चेति 1b5 पूर्व्वोक्तिहेतुद्वयं परामृषति । प्रतिक्षणविनाशि 1b5 स्यात्तदा
ऽसदेव स्यादिति सम्बन्धः । कुतः
अक्षणिकस्य पदार्थस्य क्रमयौगपद्याभ्यामर्थ
क्रिया 1b5 ऽयोगात् । तथाह क्षणिकत्त्वेनाभिमतस्य भावस्य क्रमेण
तावदर्थक्रिया न युज्यते । कार्यनिर्वर्त्तनयोग्यस्य
स्वभावस्य सदा सत्त्वात् । अन्यथा
पश्चादपि न कुर्यात् । पूर्व्वस्वभावाप्रच्युतः पुरावत् । सहकारिणमासाद्य करोतीति
चेत् । न अनाधेयात्माति
शयस्य पूर्व्वस्वभावापरित्यागिनः सहकारिष्वपेक्षायो
गात् । आदधत्त्येव सहकारिणस्तस्यात्मातिशयमिति चेत् । न सहकारिभिराहि
तस्यातिश
यस्य तत्त्वान्यत्त्वायोगात् । तथाहि न तावदयमात्मातिशयस्तस्यात्म
भूतः । तस्यैव तदव्यतिरेकादात्मातिशयवत्सहकारिबलादुत्पत्तिप्रसङ्गात्

एवञ्चाभ्युपेतमस्याक्षणिकत्त्वमवहीयते व्यतिरिक्त एव स तस्मादिति चेत् ।
भवतु किन्तु तस्मादेवात्मातिशयात्कार्योत्पत्तेस्तदवस्थमस्यार्थक्रियास्वसामर्थ2मि
ति दुर्न्निवारः प्रसङ्गः समापतति । सम्बन्धोप्यनेन कथमिति वश्चिन्ता
विषयमवतरत्येव । अतिशयबलात्करोतीत्यत्रापि सहकार्यपेक्षापक्षोदितो दोषः ॥

समर्थस्वभावत्त्वादनाधेयातिशयत्त्वेपि कुविन्दादिवत् किञ्चिदपेक्ष्य कार्य
जनक इति चेत् । न तत् सारं । नहि सहकारिणः प्रत्ययास्तस्य तावदतिशयमा
धातुं
6a क्षमाः । न चाप्यनुपकारके भावेऽपेक्षा युक्तिमनुपतत्यतिप्रसा3ङ्गात् ।
एवञ्च सर्व्वकालमस्याकार्यजनकत्त्वप्रसङ्गः । कुविन्दादीनामपि तत्स्वभावस्य
करणादका
रकस्य वा तत्स्वभावत्त्वादित्यादि हेतुविन्दा4
वुक्तमिति
नेहोच्यते । एवन्तावत्क्रमेणास्यार्थक्रिया न युज्यते नापि युगपत् । तथाहि
अर्थक्रियानिवर्त्तनयोग्यस्व
भावाध्यासितमूर्तिः सहैवासावतश्च पश्चादपि तद्रूप
वियोगात्कार्यमुत्पादयेदन्यथोदयानन्तरमेवास्य क्षयः स्यात् । न चाप्यक्षणि
कत्त्वेनोपगतस्य सकृ
त् कार्यमुत्पद्यमानमुपलभ्यते क्रमसम्भवदर्शनात् । तदे
वमयमक्षणिकः पदार्थः क्रमेण युगपद्वा न काञ्चिदप्यदर्थक्रियामात्रामंशतोपि क्ष
मो
निर्वर्तयितुमित्त्यसत्त्वमेवास्य । यदि नामार्थक्रिया सा न युक्ता तक्तिमित्यसत्त्वमे
वास्य स्यादित्याह । अर्थक्रियेत्यादि 1b5 । अर्थक्रियायाः साम
र्थ्यन्तदेव लक्षणं
यस्य सत्त्वस्येति विग्रहः । अतोऽर्थक्रियासामर्थ्यलक्षणात्सत्त्वाद्व्यावृत्तम्व्यवच्छिन्नं ।
8 इति श्रुतेर्हेतौ । तस्मादर्थे वा कथम्पुनरि
दमवसीयते अर्थक्रियासामर्थं5सत्त्वलक्षणमित्यत आह । सर्व्वे 1b5 त्यादि । सर्व्वेषां सामर्थ्याना
मुपाख्या श्रुतिः । उपाख्यायते अनयेति कृत्वा तस्याविरहोऽभावः ।
स एव लक्षणं
यस्य निरुपाख्यस्य स तथा ख्यायते । अत्रापीति श्रुतिहेतौ । सर्व्वग्रहणं घटादीना
मपि क्षणिकत्त्वेनाभिमतानाम्विषयभेदेनार्थक्रियासामर्थ्य
निर्वृत्तेरस्तीति तेषामसत्त्व
व्यवच्छेदाय । नैवार्थक्रियासामर्थ्यं सत्त्वलक्षणमपि तु सत्तायोग इति चेत् । न ।
सत्ताया अभा
6b वात् । तदभावश्चान्यत्र प्रतिपादित इति नेहोच्यते । सत्तायाश्च
नैव सत्त्वं प्राप्नोति सत्तायोगाभावात् । निःसामान्या
नि सामान्यानीति समयात् ।
न च स्वयमतद्रूपाः पदार्थात्मानः स्वभावान्तरसम्पर्क्कमासादयन्तोपि ताद्रूप्यम्प्रति
पद्यन्ते । स्फटिकाभ्रपटलादय इव
जवाकुसुमादिरूपमिति यक्तिञ्चिदेतत् ।
तत्वेतावदेवाभिधानीयं । सर्व्वसामर्थ्यविरहलक्षणं निरुपाख्यमि 1b6 ति
तक्तिमनेनोपाख्याग्रहणेनेति चेत् । सूक्त
मेतत्सर्व्वसामर्थ्यरहितस्य तु सामर्थ्य
निबन्धनस्य कस्यचिदपि शब्दस्यावृत्तेरसद्व्यवहारविषयत्त्वख्यापनाय । संज्ञा
याश्चानुगतार्थत्त्वसिद्ध्यर्थ
मिदमुक्तमिति गम्यते । यदि त्वेवं साध्यविपर्यये हेतो
त्बाधकप्रमाणोपदर्शनं न क्रियते ततः किं स्यादितिचेदाह । एवं साधनस्य साध्य
विप
र्यये बाधकप्रमाणानुपदर्शने
1b6 सत्यनिवृत्तिरेवाशंकाया इति सम्बन्धः ।
का पुनः सा शंका । स कृतको वा स्यान्नित्यश्चैवं प्रकारा ।


ननु विप
क्षहेतोर्वृत्तिर्नोपलभ्यते तत्कथमनिवृत्तिरित्याह । अदर्शने 1b6 पि
वृत्तेरस्य साधनस्याक्षविपर्यये साध्यस्य हयुपस्कारः । किमित्येवमप्यनिवृत्तिरित्याह ।
वि
रोधाभावादि
1b6 ति । साधनसाध्यविपक्षयोरिति शेषः । अयमस्याभिप्रायो यदि
साधनस्य साध्यविपर्यस्य च परस्परम्विरोधः सिद्धः स्यात् । भवेददर्शनमात्रे
7a ते अन्यथा
बाधकासिद्धौ संशयो दुर्न्निवारः स्यादित्याशङ्क्याह । न च नैव सर्व्वानुपलब्धिर्बा
धिका प्रतिषेधिका युक्तेत्युपस्कारः । कस्य भावस्य सत्त्वस्य साध्यविपर्यये
हेतोरिति
शेषः । प्रकरणाद्वैतद् गम्यत एव । इदमुक्तम्भवति । व्यापकानुपलब्धिरेव सहभाव
9 बाधते हेतोः साध्याभावेन । यथा प्रतिपादितम्प्राक् । नाप्यदर्श
नमात्राद्व्यावृत्तिर्वि
प्रकृष्टसर्व्वदर्शिनोऽदर्शनस्याभावासाधनादि
1b7 त्यादिना । तस्मात्सूक्तमन्यथा
बाधकासिद्धौ संशयो दुर्न्निवारः स्यादिति । अनेन पूर्व्वोक्त
मेव स्मारयति । एवञ्चै
तदर्थवत् । अभावसाधनस्यादर्शनस्याप्रतिषेधादित्युक्तं । तत्र भवेत्कस्यचिदाशंका
किमनेनाभावसाधनस्येति विशे
षणेन यावता सर्व्वमेवादर्शनमभावसाधनमित्य
तस्तदाशङ्काविनिवृत्त्यर्थमिदमाह । न चेत्यादि 1b11 । अत्र च शब्दो हि
शब्दार्थे प्रतिपत्तव्यः । तस्मिं
नैव वाऽवधारणे व्याख्यानन्तु पूर्व्ववत् ।


ननु च बाधकस्यैव प्रमाणस्य क्रमाक्रमायोगस्यासामर्थ्येन व्याप्तिर्न सिद्धा तत्कथं
तत्स्वयं असिद्धव्याप्तिकं स
दपरस्य सत्त्वादेर्हेतोर्व्याप्तिसाधने पर्याप्तं । प्रमा
णान्तरेण तत्र व्याप्तिः साध्यत इति चेत् । सैव तर्हीयमनवस्थादोषादिवानुबध्ना
तीति कदाचित्परो ब्रूयादित्या
शङ्क्य सर्व्वमिदमाह । तत्रेत्यादि 1b11 । तत्र
शब्दो वाक्योपन्यासार्थः । सामर्थ्यं यद्वस्तुलक्षणं तत्क्रमाक्रमयोगेन व्याप्तं सिद्धं
यत्र सामर्थ्यं तत्र क्रमाक्रमाभ्यामर्थक्रियया
भवितव्यमित्यनेनाकारेण तदेव कुत
इति चेदाह । प्रकारान्तरासग्भवात् 1b11 । यस्मादन्यत् क्रमाक्रमव्यतिरिक्तं
प्रकारान्तरं नास्ति । तस्माद्यत्रेदं सत्त्वलक्षणमर्थक्रिया
7b सामर्थ्यं तत्रावश्यं च
क्रमाक्रमाभ्यामर्थक्रियया भवितव्यं ननु च क्रमाक्रमाभ्यामन्यो रासि
10 6र्नास्तीत्येतदेव कथं सिद्धं । क्रमाक्रमयोरन्योन्यपरिहारस्थितलक्षणत्त्वेन
तृती
यप्रकारव्यतिरेकत्वात् । भावाभाववदिति ब्रूमः । भवत्वेवं स तु क्रमयौगपद्य
रूप एवेति कुत इति चेत् । कस्तहर्यन्यो भवतु । कश्चिद् भवेदिति चेत् । किमर्थ
न्तर्हि मह
त्यनर्थसङ्कटे पतितोसि यदिदन्तया तद्रूपाभिधानेप्यसमर्थोसि । यदि
नाम सामर्थ्यं क्रमाक्रमयोगेन व्याप्तं सिद्धं तथापिकिं सिद्धमिति चेदाह । तेन
सामर्थ्य
स्य क्रमाक्रमयोगेन व्याप्तत्वेन व्यापकस्य धर्मस्य क्रमाक्रमयोगस्यानुप
लब्धिः 2a1अक्षणिके पदार्थेऽभ्युपगते सामर्थ्यं बाधते निराकरोतीत्यर्थः ॥

तथा ह्ययं क्रमाक्रमयोगस्तस्य सामर्थ्यस्य व्यापकः । ततश्चास्य निवृत्तावश्य
मेव सामर्थ्यस्यापि निवृत्तिरन्यथाऽयमस्य व्यापक एव न प्राप्नोति । यस्मा
त्तद्वा
धते इति तस्मा त्क्रमयौगपद्यायोगस्य व्यापकाभावस्य कर्मभूतस्य सामर्थ्याभावेन
व्याप्याभावेन कर्त्तृभूतेन व्याप्तिसिद्धेः कारणान्नानवस्थाप्र
सङ्गः ।


एवं स्वभावहेतोः साधनाङ्गसमर्थनमभिधायाधुना निगमयति । एवमि 2a1
त्यादिना । एवञ्च यदि न समर्थनं क्रियते तदेव तद्वादिनः पराजयमावहती
ति प्राक्
प्रतिज्ञातमेवायोजयति । तस्यासमर्थन 2a2 मित्यादिना । कस्मादेवं प्रारब्धार्था
साधनादिति । न ह्यसमर्थितं साधनमारब्धमर्थं साधयितुं समर्थं । विवादाभा
8a
प्रसङ्गात् । तथाहि सार्व्वज्ञज्ञानसाधने संस्कारोत्कर्षभेदेन सम्भवे प्रकर्षपर्यन्तवृ
त्तयः प्रज्ञादयो गुणाः स्थिराश्रयवर्त्ति सकृद्यथाकथंचिदाहितविशेषं विना
हेतु
रात्मनीति । यदि तर्हि बाधकप्रमाणोपदर्शनेन हेतोर्व्याप्तिः प्रसाध्यते । तथा सत्त्य
नवस्था भवतः प्राप्नोतीत्याशंकापनोदनाय पूर्व्वपक्षमारचन्नाह । अत्रापी
1b9
त्यादि । अत्रेति बाधके प्रमाणे । अदर्शनमप्रमाणयतस्तव नादर्शनमात्राद्धेतोर्व्यति
रेकनिश्चय इत्यनेनाकारेण न केवलं मौले हेतावित्यपि शब्दः किं पूर्व्व
स्यापि
मौलस्य हेतोरव्याप्तिः प्राप्नोतीति क्रियापदं । किङ्कारणं । क्रमयौगपद्यायोगस्य वा
सामर्थ्येन व्याप्त्यसिद्धः । तथाहि यद्यदर्शनमात्रेण न व्यतिरेकनिश्चय
स्तथा सति
क्रमयौगपद्यायोगश्च भविष्यति सल्लक्षणं सामर्थ्यञ्च भविष्यति । कोऽनयोर्वि
रोध इत्यत्रैव बाधके प्रमाणे व्याप्तिर्न सिद्धा । यदि नामात्र
न सिद्धा मौलहेता
वेतद्वलेन व्याप्तिः सेत्स्यतीति चेदाह । पूर्व्वस्यापि मौलस्यापि हेतोरव्याप्तिः प्राप्नो
तीत्यध्याहारः । तथाहि न स्वयमप्रमाणकं बा
धकं प्रमाणमन्यस्य प्रमाणमुपकल्पयि
11 तुमलं प्रामाण्यप्रसङ्गात् ।


यद्येवमत्रापि तर्हि व्यापके प्रमाणेऽन्येन व्यापकेन प्रमाणेन व्याप्तिर्निश्ची
यत
इत्याह । इहापि 1b9 न केवलं मौलहेतावित्यपिनाह । पुनः साधनोपक्रमे
सत्यनवस्था भवेत् । तथाहि यत्तद्वाधके प्रमाणे व्याप्तिप्रसाधनार्थं बाधकं प्रमा

मुच्यते । तत्रापि व्याप्तिरन्येन बाधकेन प्रमाणेन साध्या । यस्मान्न तदपि स्वयम
प्रमाणमितरस्य प्रामाण्यं कर्त्तु समर्थमित्येतत्तत्रापि शक्यम्वक्तुं । तस्याप्यन्येन

व्याप्तिः साध्यत इति चेत् । यद्येवं तत्रापीयमेव वार्त्तेंत्यनवस्था भवतस्तथा
सति प्रसजति । एवं समारचितपूर्व्वपक्षः साम्प्रतमत्र प्रतिविधानमाह । नाभा
वसा
8b धनस्ये
1b10 त्यादि । व्यतिरेकसाधनत्त्वेनेत्युपस्कारः । इदमुक्तम्भवति ।
न सर्व्वमत्रादर्शनं प्रतिक्षिप्यते । व्यतिरेकनिश्चायकस्य व्यापकानुपलब्धिसंज्ञ
कस्यानिषेधात् । किन्त्व
दर्शनमात्रमिति । यदाह । यददर्शनम्विपर्ययमभावं साध
यती
1b10 ति । कस्य हेतोः कुत्र साध्यविपर्यये तददर्शनमस्य हेतोर्बाधकम्प्रमाण
मुच्यते । कस्माद्विरुद्धप्रत्यु
पस्थापनात् अस्येति वर्त्तते । तथाहि यस्य क्रमयौगपद्या
भ्यामर्थक्रियायोगस्तस्य सामर्थ्यलक्षणं सत्त्वं नास्ति । यथा बन्ध्यातनयादीनान्तथा
वा क्षणिकानामपि क्रमयौ
गपद्याभ्यामर्थक्रियाऽयोग इति । क्रमाक्रमाभ्यामर्थ
क्रियाऽयोगादित्ययं व्यापकानुपलम्भः सत्त्वादित्यस्य हेतोर्विरुद्धमसत्त्वं साध्यवि
पर्यये प्रत्यु
पस्थापयद्वाधकं प्रमाणमुच्यते । एवञ्च कृतकत्वादावपि यथायोग्य
म्वाच्यं ।


कस्माद्विरुद्धप्रत्युपस्थापनादस्य तद्वाधकम्प्रमाणमुच्यत इत्याह । एवं
हि
हेतुः सत्त्वादिलक्षणः साध्याभावे तस्मिन्नसन्निति सिध्येत् यदि तत्र साध्याभावे
बाध्यते निराक्रियता केन स्वविरुद्धेन स्वरूपविरुद्धेनासत्त्वादि
नेति यावत् ।
किम्भूतेन प्रमाणवता प्रमाणयुक्तेन । कस्मादेवमसौ तत्रासस्तिध्यतीत्याह । अन्यथा
तत्र 1b11 साध्यविपर्ययेऽस्य हेतोर्बाधकस्यासिद्धौ सत्त्यां संशयः
। सं
श्च
स्यान्नित्यश्चेत्यादि दुर्निवारः स्यादिति शेषः । दुःखेन निवार्यत इति दुर्निवारो
दुर्न्निषेध इत्यर्थः । बाधकग्रहणेनात्र विरुद्धस्य प्रत्युपस्थापकम्प्रमाणं
गृह्यते ।
वाधकप्रमाणप्रत्युपस्थापितम्वा हेतुविरुद्धं । ननु चानुपलब्धिमात्रादेव साध्यविपर्यये
हेतोर्व्यावृत्तिनिश्चयादसन्दिग्धो व्यतिरेको भविष्यति । तक्तिमुच्य
9a से शङ्काया
व्यावृत्तिः । बाधकप्रमाणानुपदर्शने तु स एव न सिध्यति तत्कथमियं निवर्त्ते
तेति । यदि नामेयमाशङ्का न व्यावर्त्तते । ततः किमित्याह । ततः आशंकाया

12 अनिवृत्ते रनेकान्तिकः स्याद्धेत्त्वाभासः 1b7 । कस्माद्व्यतिरेकस्यस्या7
ध्याभावे हेतोरभावलक्षणस्य सन्देहात्कारणात्सन्दिग्धविपक्षव्यावृत्तिकः स्याद्धे
त्वाभास इत्यर्थः ।


किम्पुन
रदर्शनेप्यनिवृत्तिराशंकाया यावता तददर्शनमभावं साधयतीत्याह ।
नाप्यदर्शनमात्राद्व्यावृत्तिः 1b7 साध्याभावे हेतोः सिध्यतीति वाक्याध्याहारः ।
अपिशब्दो य
स्मादर्थे । मात्रग्रहणमुपलब्धिलक्षणप्राप्तादर्शनस्य व्यवच्छेदार्थं ।
कुत एतत् । विप्रकृष्टेषु देशकालस्वभावविप्रकर्षैः पदार्थेषु चीनदा
शरथिपिशाच
प्रभृतिषु यददर्शनं तस्याभावासाधनात् । कस्याभावं साधयतीति चेत् । प्रकृतत्त्वा
द्विप्रकृष्टानामिति गम्यते ।


ननु समासादि
तसकलपदार्थव्यापि जानाति स यस्यादर्शनमभावम्विप्रकृष्टाना
मपि साधयति तत्कथमिदमुक्तमित्याह । असर्व्वदर्शिन 1b7 इति । सर्व्वन्द्रष्टुं
शी
लमस्य ततो नञा समासः । कस्मात्तस्याप्यदर्शनमभावन्न साधयतीति । अर्व्वा
ग्दर्शनेन पुंसा सतामपि केषाञ्चिदर्थानाम्विप्रकृष्टानामदर्शनात् । इदमागूरितं ।
नेह
सर्व्वदर्शिदर्शनं समस्तवस्तुसत्तां प्राप्नोति । येन तन्निवर्त्तमानमर्थसत्ताम्वृक्षवच्छिं
सपां निवर्त्तयेद् भेदात् । नापि तत्तस्याः कारणं येन वह्निवद्धूमं निवर्त्तमानं नि

र्त्तयेत् । तदभावेपि भावादिति । बाधकं पुनः प्रमाणमित्यादि । अत्र केचिदेवं
पूर्व्वपक्षयन्ति । किम्पुनर्बाधकं प्रमाणं यस्योपदर्शनेन मौलस्य हेतोर्व्याप्तिप्र
9b ती
तिर्भवतीत्याह । बाधक म्पुन 1b7 रित्यादि । तेषाङ्कथमत्र व्याप्तिसाधनम्विपर्यये
बाधकप्रमाणोपदर्शनं यदि न सर्व्वं सत्कृतकं वा प्रतिक्षणम्विनाशि स्यादित्यादि
नाऽत्रैव
प्रागर्थस्याभिहितत्त्वात्पुनरुक्तदोषप्रसक्तिर्न भवतीति चिन्त्यमेतत्
तैरेवेत्यलं परदोषसंकीर्त्तनेन । तस्मादन्यथा पूर्व्वपक्ष्यते । यस्यापि तर्हि बाधकम्प्र
माणमस्ति त
स्य कथमयमदोष इत्यत आह । बाधकं पुनः प्रमाणं 1b7 प्रवर्त्त
मानमसामर्थ्यमाकर्षतीति क्रियापदं । कीदृशमसल्लक्षणं । कथं प्रमाणं यस्य पदार्थस्य
क्रमयौग
पद्यायोगः । अर्थक्रियाया इत्यध्याहार्यं । न तस्य क्वचित्कार्ये सामर्थ्यं
यथा नभस्तलारविन्दस्येत्यध्याहार्यो दृष्टान्तः । अस्ति चाक्षणिके भावे स क्र

यौगपद्याभ्यामर्थक्रियाया अयोग इत्येवम्प्रवर्त्तमानं । ततः किञ्जातमिति चेदाह ।
तेन 1b8 कारणेन येन तत्प्रवर्त्तमानमसल्लक्षणमसाम
र्थ्यमाकर्षयति । यत्स
त्कृतकम्वा तदनित्यमेवेति सिध्यति ।


एवमपि किं सिद्धम्भवतीत्याह । तावता च वाधकप्रमाणोपदर्शनमात्रेण
साधन-
13 धर्ममात्रान्वयः 1b8 सिध्यतीति वर्त्तते । केनेत्याह । साध्यधर्मस्य कर्त्तरि चेयं
षष्ठी प्रतिपत्तव्या । तेन साध्यधर्मेण साधनधर्ममात्रस्यानपेक्षितहेत्वन्तरव्यापा
रस्या
न्वयः सिध्यतीति वाक्यार्थः सन्तिष्ठते नत्वेवङ्करणीयं साधनधर्ममात्रेणान्वयः
साध्यधर्मेति । एवं हि साध्यमेव हेतुना ऽविनाभूतं जातं न हेतुरिति हेतो
रगम
कत्त्वम्भवेत् । ततश्च को गुणो लभ्यत इत्याह । स्वभावहेतुलक्षणञ्च सिद्धम्भ
वति
1b9 तावता चेति वर्त्तते । स्वभावहेतुलक्षणञ्च तद्भावमात्राद्धर्मिनिस्वभा
वो
10a पि प्रत्ययाभावेऽपुनर्यत्नापेक्षितत्त्वात् । कलधौतमलविशुद्धिवदित्येवमादयो हेतवः
प्रतिलब्धसामर्थ्यातिशयाः सन्त्येव ते च यद्यसमर्थिता एव ज्ञाप्यसमर्थं ज्ञाप
येयुस्तदा
जैमिनिप्रभृतीनां विवादाभाव एव भवेत् । नन्वेतदेव न सम्भाव्यते । यत्परमार्थतः
समर्थस्यापि हेतोरभिधाने निग्रहार्होऽसावित्याशङ्कायां स्वाभिप्रा
यं प्रकटयति ।
वस्तुतः समर्थस्य हेतोरुपादानेपि सामर्थ्यप्रतिपादनादिति । अयमस्य भावो यदि
नामानेन परमार्थतः समर्थो हेतुरुपात्तस्तथापि तस्य सा
मर्थ्यं साधनाङ्गासमर्थनान्न
प्रतिपादितमनेनेति असमर्थकल्प एवासौ । न ह्यर्थस्य परार्थानुमाने गुणदोषा
वधिक्रियेते । किन्तर्हि वचनस्य वक्तुरय
थार्थाभिधानेनोपालम्भात् । अत एव
यत्राप्यर्थस्य गुणदोषावधिक्रियेते तत्रापि वचनद्वारेणैव । एवमेतदभ्युपगन्तव्य
मन्यथा क्षणिकः शब्द इ
त्येतावन्मात्रमेव प्रतिज्ञावचनमभिधाय स्थातव्यं । तथा
भिधानादेवाभिमतार्थसिद्धेरिति ॥ ० ॥


एवं स्वभावहेतावुपदर्श्य साधनाङ्गसमर्थनमिदा
नीङ्कार्यहेतावाह
कार्यहेतावपी 2a2 त्यादिना । किम्पुनस्तदित्याह यत्कार्यं लिङ्गं धूमादि
संज्ञकं कारणस्य दहनादेः साधनायोपादीयते 2a3 । तस्य धूमादेस्तेन दहना
दिना
सह कार्यकारणभावप्रसाधनलिङ्गिलिङ्गयोर्हेतुफलभावसाधनमेव यत्तदेव
कार्यहेतौ साधनाङ्गसमर्थनमित्यर्थः । केन पुनस्तयोः कार्यकारणभावः प्रसा

ध्यत इत्याह । भावाभावसाधनप्रमाणाभ्या 2a3 मिति । भावाभावौ कार्य
कारणयोः सदसत्ते तयोः साधने ते च ते प्रमाणे चेति व्यु
10b त्पत्तिक्रमः साधन-
शब्दश्च करणसाधनः भावाभावसाधनप्रमाणे च प्रत्यक्षानुपलम्भो यथाक्रमं
कथम्पुनः प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावः प्रसाध्यत इत्याह
यथे
14 2a3 त्यादि । इदन्धूमादिसंज्ञकं कार्यमस्मिन्दहने सति भवति । उपलब्धिलक्षण
प्राप्तं सदनुपलब्धं प्रागिति वाक्यशेषः कार्यः । अन्यथा दहनस्य तत्र धूमे व्यापार
एव
न कथितः स्यात् दहनसन्निधानात्प्रागप्येतदासीदित्याशङ्कासम्भवात् । यथो
क्तानुपलम्भग्रहणे तु नैवेयमवतरति । अत एव च प्रमाणविनिश्चि8या दा
वप्येवमेवा
भिहितमिति । अनेन च प्रत्यक्षप्रमाणव्यापार उक्तः । तथाहि अस्मि
न्सतीदं भवतीति प्रत्यक्षेणैतद् गम्यते । सम्प्रत्यनुपलम्भस्य व्यापारं निर्दिदिक्षु

राह । सत्स्वपी 2a3 त्यादि । तस्माद्दहनादन्येषु विद्यमानेष्वपि । तथा तस्य
धूमस्य हेतुष्विन्धनानिलादिषु समर्थेषु सत्स्वपीति वर्त्तते । चकारश्चात्र लुप्त

निर्दिष्टः प्रतिपत्तव्यः समर्थेषु चेति । तस्य दहनस्याभावे न भवति । इदमित्यधि
कृतं । इति एवमित्यस्यार्थे वर्त्तते व्यवच्छेदे वा । तदनेन गवाश्वादी
नां
तद्देशकालसन्निहितानामपि धूमजननं प्रति कारणत्त्वन्निसि9द्धं । यतो
यदि ते गवाश्वादयस्तस्य कारणम्भवेयुस्तदा व्यतीतेप्यग्नौ तेषां सन्निहितत्त्वाद्
धूमो
त्पत्तिप्रसङ्गः । इन्धनादिकारणान्तरापेक्षास्ते तस्य जनका भवन्ति ततोयम
प्रसङ्ग इति चेत् । यद्येवं तेपि तत्र सन्निहिता एवेति न व्यावर्त्तते प्रसङ्ग इति

हनमपि सहकारिणमपेक्ष्य तं जनयन्ति ततो न युक्तमिदमिति चेत् । नन्वेवं
सत्यायातन्दहनस्य धूमोर्त्पत्तिं प्रति कारणत्त्वं । तक्तिमिदमुच्यते पूर्व्वापरव्याह
तङ्ग
11a वाश्वादय एव तस्य कारणन्न दहन इति । अस्तु तर्हि तस्यापि दहनस्य
कारणत्त्वङ्गवाश्वादीनामपीति चेत् । न युक्तमेतत् । तत्र व्यतिरेकगतेर्दुर्घटत्वात् ।
तथा ह्यप
गतेष्वपि गवादिषु सति च दहने तत्रेन्धनादिकलापे भवत्येव हुतभुग्धे
तोरुत्पत्तिः । यतः कारणप्रबन्धङ्कार्यप्रबन्धञ्चाश्रित्य हेतुफलभावश्चिन्त्यते
भावानाङ्का
रणप्रबन्धपूर्व्वः कार्यप्रबन्ध इति । तत्तु क्षणभेदं । नहि समासादित
ज्ञानातिशयानामयं पूर्व्वः क्षणोऽयमुत्तर इति विशेषावलम्बि ज्ञानमुदेति
अर्व्वाग्दर्शि
भिश्चाधिकृत्य प्रमाणलक्षणं प्रणयितं कृपावद्भिः । यथोक्तं
सांव्यवहारिकस्यैतत् प्रमाणस्य रूपमुक्तमत्रापि परे विमूढा विसम्वादयन्ति लो

मिति । वासगृहादिषु तर्हि दहनाभावेपि धूमसद्भावाद्व्यभिचार इति चेत् ।
भूतस्यापि दहनप्रबन्धपूर्व्वकत्त्वमस्त्येव । साक्षात्पारम्प
र्यकृतस्तु विशेषः ।
अवयन्ति च विच्छिन्नाविच्छिन्नदर्शनप्रबन्धयोर्द्धूमप्रबन्धयोर्वासगृहादिरसवतीप्रदे
शादिभाविनोः स्फुटमेव भेदम्विचित्र
भावस्वभावविवेकाभ्यासबलोपजातविदग्ध
15 बुद्धय इति भेदेनाप्यनुमानमविरुद्धमत एव देशकालाद्यपेक्षमनुमानं कार्यहेतौ
विरुद्धकार्योपलम्भे चोक्तं ।

इष्टम्विरुद्धकार्येपि देशकालाद्यपेक्षणं ।

अन्यथा व्यभिचारि स्याद् गत्येवासीत 10 साधनं ॥ २
इति ।


अथापि कश्चिद्विविधभावभेदप्रविचयचातुर्यातिशयशलाकोन्मी
लितप्रज्ञाचक्षु
ष्ट्वादयं ज्वलनजनितो धूमोऽयं धूमजनित इति विवेचयति । तथापि न सुतरां
व्यभिचारः । तथाहि नाग्निजन्यो धूमो धूमाद् भवति निर्हेतुकत्त्वप्रसङ्गात् ।
11b
तथा च यदुक्तं

अतश्चानग्नितो धूमो यदि धूमस्य सम्भवः ।

शक्रमूर्ध्नस्तथास्त11स्य केन वार्येत सम्भवः ॥ ३
इत्यादि


तदसारमित्यप्युपेक्षते तस्मान्न तेषां गवाश्वादीनां तत्र
कारणत्त्वमस्तीति
निश्चयः समाधीयतां । अतश्च दहन एव तस्य कारणं नाश्वादय इति स्थितमेतत् ।
तथा च दहनस्य कारणत्त्वं योजितमन्वयव्यतिरेकाभ्यां यथो
क्तप्रकाराभ्यामेव
मिंधनादिसामग्र्याः सर्वस्याः कारणं योजयितव्यं । यदि वैकवाक्यतयैव व्याख्या
यते । सत्स्वपि तस्माद्दहनादन्येषु समर्थेषु तद्धेतुष्विं
धनादिष्वस्याभावे न भव
तीति । गवाश्वादीनां त्वहेतुत्त्वम्व्यतिरेकाभावतया यथोक्तेन विधिना बोद्धव्यं ।


ननु चैतदेव युक्तम्वक्तुं तदभावेन भवती
त्यथ किमर्थं सत्स्वपि तदन्येषु
समर्थेषु तद्धेतुष्वित्युच्यत इति चेदाह । एवं ही 2a4 त्यादि । यस्मादेवं सत्स्व
पीत्यादिनाऽभिधीयमानोऽस्य धूमस्य तत्कार्य
त्वमग्निकार्यत्त्वं समर्थितं निश्चि
तमसन्दिग्धम्भवति । अन्यथा यद्येवं नोपदर्श्यते । केवलं तदभावेन भवतीत्युप
दर्श्यते तदा तदभावेन भवतीत्युप
दर्शने क्रियमाणेन्यस्यापि तु गवाश्वादेरिन्ध
नादेश्च तत्राग्निशून्यभूभागेऽभावे सति सन्दिग्धमस्याग्नेः सामर्थ्यम्भवतीति कुतः
कारणभावनिश्चय इति समुदाया
र्थः । तत एवाह सत्सु हि समर्थेषु तद्धे
तुषु 2a3 कार्यानुत्पत्तिः कारणान्तरविकल्पं सूचयती
ति सन्दिग्धमस्यान्यथा
सामर्थ्यमित्येतदेवान्य त्तत्रेत्या 2a4 दिना सूचयति । तत्र धू
माश्वकार्येऽन्य
देवाश्वादि । यदिन्धनादिसमर्थन्तदभावात्तन्न भूतन्दहनशून्यदेशे । अस्य स्वभावा
त्तन्न जातमिति कुतोयं निश्चय इत्यर्थः ।


16


12a यद्यन्यत्तत्र समर्थन्तद भावात्तन्न जातमेतन्निवृत्तौ निवृत्तिस्तर्ह्यस्य कथमिति
चेदाह एतन्निवृत्तावित्या 2a5 दि । एतस्याग्नेर्न्निवृत्तौ धूमनिवृत्तिर्येयं
धूमस्य सा यदृच्छासम्वादः । काकता
ली
यन्यायेनेत्यर्थः । यदा तु सत्स्वपीति क्रियते
तदा सर्व्वेषां तत्र सन्निपातादेतस्यैव निवृत्तावस्य निवृत्तिरिति निश्चयान्न यदृच्छा
सम्वाद इत्यभिप्रायः ।


किम्वदे
तन्निवृत्तौ निवृत्तिर्यदृच्छासम्वाद इत्याह मातृविवाह 2a5
इत्यादि । मातुर्विवाह उचित आचरितो यस्मिन्देशे स तथा । ततो देश
शब्देन सह विशेषणसमास
ः । तत्र स च जन्माश्रयत्त्वादुपचारात् । जन्म
उत्पत्तिर्यस्य तस्य पारसीक देशभावि न यावत् । देशान्तरे मालवका दिदेशे यथा
ऽभावो मातृविवा
हाभावे यदृच्छासम्वादस्तद्वदत्रापि । तथाहि मृद्विशेषाभावा
द्देशान्तरे तस्याभावो न तु मातृविवाहाभावादिति काकतालीयस्तदभावे तस्या
भा
व इति । एवञ्चैतत् ।


अथवा अन्यथा व्याख्यायते । यथेदं धूमादिकार्यमस्मिन्नग्नीन्धनादिकारण
कलापे सति भवति । वाक्याध्याहारस्तु पूर्व्व
वत्कार्यः । तस्य प्रयोजनं तदेवाव
गन्तव्यं । इदम्प्रत्यक्षव्यापारसङ्कीर्त्तनं । सत्स्वपीत्यादिनाऽनुपलम्भस्य तदन्येषु
पुनस्तस्मादग्न्यादिकारणकलापात् । अन्ये
षु गवाश्वादिषु समर्थेषु तद्धेतुष्वस्या
ग्न्यादिकारणकलापस्याभावे न भवति । एतच्च परमतापेक्षमुक्तं । न तु तेषान्तद्धे
तुत्त्वमस्ति । यदि पुनस्ते तस्य हेतवः स्यु
स्तदा तत्कलापसन्निधेः प्रागपि पश्चा
दिव धूमोत्पादप्रसङ्गः । तत्सापेक्षतया तत्कृतकत्त्वं तेषामिति चेत् । आयातं तर्हि
तस्य कलापस्य कारणत्त्वं ।


भवतु
12b तर्ह्युभयोरपि न नः काचित् क्षतिरिति चेत् । न । व्यतिरेकगतस्तत्र
दुर्घटत्वादित्युक्तं । यथाऽपगतेष्वपि सर्व्वेषु तेषु तस्मिं कलापे सति भवत्येव तस्य
सम्भव इति तद
भावे न भवतीति वाच्यं । तत्किमर्थं सत्स्वपीत्याद्युक्तमिति
चेदाह । एवं ही 2a4 त्यादि । अन्यथा तस्य कलापस्याभावे न भवतीत्युपदर्शने
तस्यापि गवाश्वादेस्तत्राभावे सति
सन्दिग्धमस्य कलापस्य सामर्थ्यम्भवेत् ।
यतोऽन्यद् गवाश्वादि तत्र शक्तं तदभावात्तन्न भूतमेतस्य कलापस्य निवृत्तौ निवृ
त्तिर्यदृच्छासम्वादः शेषं पूर्व्वयत् ।


17

एवाङ्कार्य
कारणभावनिश्चयोपायविधिमुक्त्वा प्रकृतमुपसंहरति । एव
मि
2a5 त्यादिना । एवं यथोक्तेन विधिना तद्धूमादि तस्य वह्न्यादेः कार्यं
समर्थितं
निश्चितं
सिध्यति भवति । यदेवासमर्थितमसन्दिग्धं सिध्यति निश्ची
यते । अथवा एवं प्रत्यक्षानुपलम्भाभ्यां सम र्थित12सत्तत्तस्य कार्यं सिध्यति ।


यदि नाम सिध्यति त
त् किभित्याह । सिद्धं सत् स्वसम्भवेन आत्मसन्निधानेन
तत्सम्भवं तस्य कारणस्य सन्निधानं साधयति 2a6 । देशकालाद्यपेक्षयेत्या
ध्याहर्त्तव्यं । एतदुक्तम्भ
वति कार्यकारणभावनिश्चयास्तिद्धं तदुत्पत्तिलक्षण
प्रतिवस्तु यत्रैवमतादृश उपलभ्यते तत्रैव स्वसत्तामात्रेण देशकालाद्यपेक्षया
तत् स्वकारणङ्गमयतीति । किं
कारणमित्याह कार्यस्य कारणाव्यभि
चारादि
2a6 ति । अन्यथा हि तत्तस्य कार्यमेव न स्यात् । तद्व्यभिचारात् ।
नहि यद्व्यतिरेकेन13यद् भवति तत्तस्य कार्यं युक्तं । कुण्डलमिव केयूर
स्येत्यभि
सन्धिः ।


ननु यदि नाम धूमोऽग्निकार्यत्त्वन्न व्यभिचरति । अन्यस्य त्वङ्कुरादेः
स्वकारणैरेव बीजादिभिरव्यभिचार इति कुत एतदित्याह । अव्यभिचारे चे
2a6 त्यादि । इ
13a दमुक्तम्भवति । यदा धूमस्य स्वकारणाव्यभिचारस्त-
दुत्पत्तेः सिद्धस्तदा बीजादिभिरात्मीयैः कारणैः सहाङ्कुरादीनां सर्व्वकार्याणां
सदृशोऽव्यभिचारन्यायः । तथाहि
तेपि यथोक्तप्रकाराभ्यां प्रत्यक्षानुपलम्भाभ्यां
तत्कार्यतया सिद्धाः सन्तस्तदव्यभिचारिणः सिद्ध्यन्ति । एतत्साधनाङ्गस
मर्थनं कार्यहेतौ । एतद्विपरीतञ्चासमर्थ
नं । तद्वादिनः पराजयाधिकरणमिति दर्श
यन्नाह । एवमि 2a6 त्यादि । एवमिति प्रत्यक्षानुपलम्भाभ्यां यथोक्तप्रकारा
भ्याङ्कार्यहेतावपि न केवलं पूर्व्वोक्तेन प्रकारे
ण स्वभावहेतावसमर्थनम्वादिनः
पराजयस्थानमित्यपि शब्दः । कस्मादेवमित्याह । असमर्थित 2a7 मित्यादि ।
असमर्थिते तस्मिन्कार्यकारणभावे
लिङ्गलिङ्गिनोर्लिङ्गस्य वा तत्का
र्यत्त्वे आरब्धार्थासिद्धेरिति क्रियापदं ॥ आरब्धोऽर्थः कारणस्य सत्तासाधनं ।
तस्यासिद्धेस्तत्पराजयस्थानमिति
प्रकृतेन सम्बन्धः ।


एतदेव कुत इत्याह । अर्थान्तरस्य 2a7 धूमादेर्भावे सत्त्वे तस्या
18 न्यादेर्भावनियमाभावात् । नियमग्रहणं यदृच्छासम्वादनिरा
सार्थं । अर्थान्तर
स्यापि तद्भावे प्रतिबद्धस्वभावस्य भावे भवत्येव तद्भावनियम इत्यत आह ।
तद्भावाप्रतिबद्धस्वभावस्ये 2a7 ति । तद्भावेऽग्न्यादिभावेऽप्रतिबद्धोऽना

त्तः स्वभावोऽस्येति विग्रहः । एतच्चार्थान्तरस्य भावे तद्भावनियमाभावादि
त्येतस्य कारणमवगन्तव्यं । प्रयोगः पुनर्योऽर्थान्तरभूतो यस्मिन्न प्रतिबद्धस्वभाव

स्तस्य भावे न तद्भावनियमः । तद्यथा नूपुरस्य भावे मुकुटस्य । अर्थान्तरभूत
श्चायं धूमादिरप्रतिबद्धस्वभावस्तस्मिन्नग्न्यादाविति व्यापकानुपलब्धिः । व्यापक
विरु
13b द्धोपलब्धिविधिना वा हेत्वर्थकल्पनातद्भावाप्रतिबद्धस्वभावत्त्वमेव कुत
इत्याह कार्यत्त्वासिद्धे 2a7 रिति । एतत्पुनरसमर्थिते तस्मि
नि14ति बोद्धव्यं । तत् च परमार्थतस्ते
न कार्यहेतुरेवोपात्तस्त्तद्यदि नाम त
त्कार्यन्तेन न समर्थितं तथाहि कथमसौ निगृहीत इत्याह । वस्तुतः कार्यस्याप्युपादान
प्रतिपादनादि
2a8 ति तत्कार्यत्वस्येति वि
शेषः ॥ ० ॥


एवं कार्यहेतावपि साधनाङ्गसमर्थनमभिधायानुपलब्धावाह । अनुपलब्धा
वपि समर्थन
2a8 मिति सम्बन्धः । साधनाङ्स्येत्यध्याहार्य । किं पुनस्त
दित्या
ह । अनुपलब्धिसाधनं । किं यस्य कस्यचिन्नेत्याह । उपलब्धिलक्षणप्रा
प्तस्येति
2a8 । दृश्यस्वभावस्य नान्यस्येति यावत् । उपलब्धिर्ज्ञानं । उपल
ब्धिशब्दस्य भा
वकरणसाधनतया ज्ञानपर्यायत्त्वात्तस्या लक्षणङ्कारणं । लक्षण
शब्दस्य करणसाधनत्वेन कृतकाभिधायित्त्वात् । तच्च प्रत्ययान्तरसाकल्यं स्वभाव
वि
शेषश्च । तद्व्याप्तस्यानुपलब्धिः । तस्याः साधनं प्रतिपादनमिति व्युत्पत्ति
क्रमः ।


कथमेवंविधस्यानुपलब्धिरिति चेत् । नोद्यते तस्य तत्रैवेत् यपित्वन्य
त्र
तज्जातीयस्य । कस्य पुनरेवं विधस्यानुपलब्धिः प्रसाध्यत इत्याह । प्रतिपत्तुः
2a9 प्रतिवादिनः । यदि चोपलब्धिलक्षणप्राप्ताः पिशाचादयोपि भवन्ति
19 तज्जातीयानां
अन्येषाम्प्रभाववता वा । तक्तिन्तेषामप्यनुपलब्धिसाधनं साध
नाङ्गसमर्थनम्भवति । नेत्याह । प्रतिपत्तुः । एतदुक्तम्भवति य एवासौ प्रति
पाद्यस्तस्यैव यदुपलब्धिलक्षणञ्चा
याति तस्यैवानुपलब्धिसाधनं नान्यस्येति । किं
पुनः कारणमेवम्प्रकारस्यैवानुपलब्धिसाधनं । नान्यस्येत्याह । तादृश्या एवा-
नुपलब्धेरसद्व्यवहारसिद्धेरिति
2a8 । अ
14a नुपलब्धिलक्षणप्राप्तानुपलब्धेः
संशयहेतुतया अगमकत्त्वादिति भावः । असद्व्यवहारसिद्धेरिति वचनमसद्व्यव
हार एव तया साध्यते न त्वभावः स्वभावानु
पलब्धेः स्वयमभावरूपत्वादिति
प्रदर्शनार्थं । असद्व्यवहारग्रहणञ्चोपलक्षणार्थं । तेनासज्ज्ञानशब्दावपि ग्राह्यौ ।
एतत्पुनः कुतोऽवसीयते इति चेदाह ॥
अनुपलब्धिलक्षणप्राप्तस्यार्थस्य
प्रतिपत्तुः प्रत्यक्षं तदेवोपलब्धिस्तस्यानिवृत्तावपि सत्यामभावासिद्धेः
2a9
अभावग्रहणमभावव्यवहारशब्दज्ञानोपलक्ष
णं । उपलब्धिलक्षणञ्च ज्ञानपरिग्रहेण
तत्प्रमितवस्तुव्युदासाय । का पुनरियमुपलब्धिलक्षणप्राप्तिर्यद्योगादुपलब्धि
लक्षणप्राप्त इत्युच्यत इ
त्याह । तत्रेत्यादि 2a9 । तत्र श्रुतिवचनोपन्या
सार्था । स्वभावविशेषः । किमियदेव । नेत्याह । कारणान्तरसाकल्यञ्च । तस्मा
त्स्वभावविशेषाद्यान्यन्यानि
कारणानीन्द्रियमनस्कारादीनि तानि कारणान्त
राणि तेषां । साकल्यं सामग्र्यं । स्वभावविशेषापेक्षया समुच्चयार्थश्चकारः ।
कः पुनरयं स्वभाव
विशेष इत्याह । स्वभाव इत्यादि 2a9 । यद्ययं त्रिविधेन
विप्रकर्षेण व्यवधानेन देशकालस्वभावलक्षणेन न विप्रकृष्टं मेरुरामसुरादिरूपवत्
स्वभाववि
शेष उच्यते । तमेव स्पष्टयति । यदि 2a10 त्यादिना । न आत्म
रूपोऽनात्मरूपः पररूप इत्यर्थः । स चासौ प्रतिभासश्च तस्य विवेकोऽभावस्तेना
कारेण यत्प्रतिप
त्तुः प्रत्यक्षन्तत्राप्रतिभासितुं शीलं यस्य रूपस्य स्वभावस्य
तद्रूपन्तथोक्तं । अथवा रूपशब्देण15सह विशेषणसमासः कार्यः । सत्युप
लम्भप्रत्ययान्तरसा
14b कल्य इत्युपस्क्रियते । यः सजातीयविजातीयरहितेनात्मना
प्रतिभासते स्वज्ञाने तदन्यकारणसमवधाने सति स स्वभाव इति यावत् । तादृश
इति त्रिविध
विप्रकर्षाविप्रकृष्टरूपः पदार्थस्तथाऽनात्मरूपप्रतिभासविवेकेन प्रति
पत्तृप्रत्यक्षप्रतिभासेनाशयेनानुपलब्धः स न असद्व्यवहारस्य विषयो भवति ।

असद्व्यवहारप्रतिपत्तियोग्यो भवतीत्यर्थः । विद्यमानोपीन्द्रियस्यालोकस्य मनस्का
20 रस्य वाऽभावान्नोपलभ्यते तादृशस्तत्कथमसद्व्यवहारविषयो भवतीति
चेदाह ।
सत्स्वन्येषूपलम्भ 2a10 कारणेष्विति ।


नन्वविप्रकृष्टोपि घटादिरुपलम्भकारणान्तरसमवधानेपि च सन्तानविप
रिणामापेक्षत्वान्नोपलभ्यते ।
नहि हेत्वन्तरसन्निधानमिति स्वफलोत्पादनानु
गुणः परिणामो भवति कारणस्य तथाहि सत्यामपि पृथिवीबीजजलादि
सामग्र्यामतिबहुनैव
कालेन तालबीजस्य स्वकार्योदयानुकूला परिणतिर्भवति ।
शणादिबीजस्य त्वनन्तरमेव तथात्रापि भविष्यतीति । किञ्चान्यत्प्रभाववता
योगे पि
शाचमायाकारादिनाऽधिष्ठितो भवति यदायं भावस्तदा विद्यमानोपि नोप
लभ्यते तत्कथमुक्तं तादृशः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धोऽसद्व्यवहारविष

इति । नूनम्भवा न्न्यायविन्दा 16
प्यकृतपरिश्रमः । तथाहि अत्रोक्तं स्वभावो यः
सत्स्वन्येषूपलम्भकारणेषु सन्प्रत्यक्ष एव भवती
ति । यश्चायं सन्तानपरिणामम
पेक्षते
यश्च प्रभाववताधिष्ठितः स स्वभावविशेष एव न भवति । सकलतदन्योपलम्भ
प्रत्ययसमवधानेपि स्वरूपविषयोपलम्भजनकत्वात्तथैवंविधस्य पि
15a शाचादि
स्वभावाविशिष्टरूपस्याभावव्यवहारविषयता साध्यते । किन्तर्हीन्द्रियाण्युपलम्भ
प्रत्ययान्तरसन्निधाने यः सन्प्रत्यक्ष एव भवति तस्य । नैवन्तर्हि सर्वथाऽ
भावः
साधितो भवतीति चेत् सुष्ट्वनुकूलमाचरसि । यतोऽनन्तरमेवोक्तं । य एवायमनु
पहतेन्द्रियादिसाकल्ये दर्शनपथमुपयाति । तस्य
च तत्साकल्येऽनुप
लम्भेस्य च
व्यवहारविषयता साध्यते न तु पिशाचादिस्वभावाविशिष्टरूपस्येति । न च तथा
विधस्यापि सकलतदन्योपलम्भप्रत्ययसमवधानेऽनुपलब्धस्या
स्तित्वं युक्त
मनुपलब्धेरेवायोगात् । उपलम्भजनने कस्यचिदपेक्षणीयस्याभावात् । प्रमाण
विनिश्चये
तु स्पष्टीकृतमेवेदं । न कार्यकालेऽभावप्रति
पत्ते
रित्यादिना । एतेनैव
यदेकेनावश्यं सामग्रिसाकल्येपि परिणामस्तालगणबीजवदित्यादिना स तमति
शयवत् मतिमतो मनागप्यनव
गच्छन्तश्चोद्यचुञ्चवश्चोचुदुस्तत्र सर्वंमयं
दुःस्थितं वेदितव्यमित्यलमप्रतिष्ठितबालप्रलापैरिति विरम्यते । तस्मादुपलब्धि
लक्षणप्राप्तानुपल
ब्धिरेवाभावव्यवहारसाधनीति स्थितमेतत् । यतश्चैतदेवं
ततस्तस्मात्कारणादन्यथा सति लिङ्गे समवाय उपलब्धिलक्षणप्राप्तानुपलब्धि
21 मुक्त्वा यदन्यदसद्व्य
वहारसाधनमनुपलब्धिमात्रं लिङ्गमुपादीयते । तदा
तस्मिन्सति संशयो भवति नास्त्यसद्व्यवहारनिश्चयः उपलब्धिनिवृत्तावप्यर्था
भावासिद्धेरिति समुदायार्थ
ः । यदि वा ततो दृश्यानुपलम्भाल्लिङ्गात्
सकाशादन्यथा सति लिङ्गे संशय इति व्याख्यातव्यं । तस्माच्छब्दस्तु पूर्वमध्या
हर्त्तव्यं । अथवा तत उपलब्धिलक्षणप्राप्ताद
15b न्यथा तद्विहीने संशये सति तल्लिङ्ग
इति व्याख्येयं । का पुनरत्रानुपलब्धौ व्याप्तिरित्याह । अत्रापीत्यादि 2b11
एवं विधमिति दृश्यं सदनुपलब्धं सर्व्वग्रहणं सर्व्वोपसं
हारेण व्याप्तिप्रदर्शनार्थं ॥


ननु यदि नाम कस्यचिद्विषाणादेः शशमस्तकादावुपलब्धिलक्षणप्राप्तानु
पलब्धस्यासद्व्यवहारविषयता । अन्येनापि सामान्ये वि
शेष्येवयविद्रव्यसंयोग
विभागादिना तथाविधेन तथा भवितव्यमिति कुतोऽयं नियम इत्यत आह । कस्य
चिदि 2b1 त्यादि । कस्यचिदुपलब्धिलक्षणप्राप्तस्या
नुपलब्धस्य शशविषा
णादेरसतोऽसद्व्यवहारविषयेस्त्यभ्युपगमेऽसद्व्यवहारादिविषयोऽसन्नित्युक्तः ।
तल्लक्षणाविशेषादि 2b1 ति । तस्या
सतो लक्षणं निमित्तं यथोक्तानुपलब्धि
र्लक्षणशब्दश्च करणसाधनस्तस्याविशिष्टत्वात् सामान्यविशेषावयविद्रव्यादा
विति वाक्यशेषः । एत
दुक्तम्भवति शशविषाणादेरप्यसद्व्यवहारविष
त्त्वं कस्मादिष्यते । यथोक्तानुपलम्भस्य तन्निमित्तस्य सद्भावादिति चेत् । यद्येवं
सामान्यविशे
षता तस्यास्तीति कस्मात्तथा सद्व्यवहारविषयत्वन्नाभ्युपगम्यते
अन्यथा तत्रापि तत्स्याच्चेत् । नहि पुरुषेच्छावशाद्धेतौ विषयप्रविभागो युक्त
इति । नही 2b1 त्या
दिनैतदेव व्यनक्ति । एवंविधस्य दृश्यस्य सत्त्वेऽनुपलब्धस्या
सत्वानभ्युपगम 2b1 इति । असद्व्यवहारादिविषयत्वान्नाभ्युपगम इत्यर्थः
असत्वशब्देना
सद्व्यवहारो विनिश्चयस्तस्योपलक्षणम् । युक्तोपलम्भस्य तस्यैवा
नुपलम्भनं प्रतिषेधहेतुरित्यादि चेत् । अन्यत्र शशशृङ्गाभावे दण्डेन पुरुषस्य 17
योगः स
16a एव इत्यर्थः नह्येवंविधस्य दृश्यस्य चक्षुरादिशून्येषूपलम्भकारणेषु
स अनुपलब्धिर्भवति


किन्तर्ह्युपलब्धिरेव भवतीति प्रतिषेधद्वयेनाह । अन्यस्योपलब्धिप्रत्ययस्य
कस्यचिवपेक्षणीयस्याभावादिति भावः । तदनेन प्रकृतमेव स्पष्टयति । अनुपल

भ्यमानं त्वीदृशमित्युपलब्धिलक्षणप्राप्तन्नास्ति तस्मादेतावत्सात्र उपलब्धिलक्षण
प्राप्तानुपलब्धिमात्रन्निमित्तं यस्यासद्व्यवहारस्य स तथा ख्यातः तदनेनासत्

22 व्यवहारस्यानन्यनिमित्ततामाह । एतदेव कुत इत्याह । अन्यस्ये 2b2 त्यादि ।
यथोक्तानुपलब्धिमपास्यान्यस्य नास्तित्वव्यवहारनिमित्तस्याभावादिति स
18
च्चयार्थः ।


ननु च यस्य यत्र न किञ्चित्सामर्थ्यमस्ति तदसद्व्यवहारविषयो यथा नभस्तले
कमलं । तथाभिमतेपि देशादावभिमतस्य भावस्य
न किञ्चित्सामर्थ्यमस्तीति
सर्व्वसामर्थ्यविवेक एव नास्तित्वव्यवहारस्य निमित्तं भविष्यति । एतक्तिमसं
बद्धमेवोद्घाटितशिरोभिरभिधीयते । अ
न्यस्य तन्निमित्तस्याभावादिति कदाचित्
कश्चित् ब्रूयादिति तन्मतमाशंकते । सर्व्वसामर्थ्यविवेको निमित्तमिति 2b2 चेदि
ति । अत्र समाधिमाह । एवमि 2b2 त्यादिना । एवं
मन्यते सूक्तमेतत् सर्व्व
सामर्थ्यविवेको निमित्तमिति किन्तु स एव सर्व्वसामर्थ्यविवेकोयं पदार्थः कथमव
गतो यथोक्तामनुपलब्धिमपास्य येन सर्व्वसामर्थ्यवि
वेकोऽस्यासद्व्यवहारस्य
निमित्तम्भविष्यति । न चासावज्ञात एव तस्य निमित्तम्भवितुमर्हति । ज्ञापकहेत्व
धिकारात् । कस्मात्सर्व्वसामर्थ्यविवेकिनो यथोक्तानु
16b पलम्भेने19व प्रतीति
रित्याह । अन्यस्य तत्प्रतिपत्युपायस्याभावा 2b3 दिति । यदा तु यथोक्तानुप
लब्ध्या तस्य सर्व्वसामर्थ्यविवेकिनः प्रतीतिर्भवति । तदा तत्प्रतिपत्तौ
सत्याम
सद्व्यवहारो भवति । इति तस्मादिदं यथोक्तानुपलम्भनं तस्यासद्व्यवहारस्या
निमित्तमुच्यते ।


पुनरपि परोन्यस्य तन्निमित्तस्याभावादित्यस्य कदाचि
दयुक्तताम्ब्रूयादि
त्याशङ्कते बुद्धिव्यपदेश 2b3 इत्यादिना । अयमस्याभिसन्धिर्बुद्धिव्यपदे
शार्थक्रियाभ्यः सकासा20त्तद्व्यवहारो भवति । तथा हि ताः प्रवर्त्तमाना

वस्तुसत्तां साधयन्ति । तद्भेदाभेदौ च वस्तुभेदाभेदावित्याशयः ।
ताश्च निवर्त्तमानाः स्वनिमित्तं सद्व्यवहारं निवर्तयन्त्यग्निरिव धूमं । तन्निवृत्तौ

चासद्व्यवहारः । सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेदस्थितरूपत्वेन
एकत्यागस्यापरोपादानेनान्तरीयकत्वात् । ततश्च बुद्ध्यादिनिवृत्तौ
चासद्व्यव
हारनिमित्तमिति नेदं युक्तं वक्तुमन्यस्येत्यादि । अत्रापि प्रतिविधानमाह । भव
23 ती 2b4 त्यादि । यथोक्तप्रतिभाषा21बुद्धिः प्रतिपत्तृप्रत्यक्षप्र
तिभासि
रूपनिर्भासा यथोक्तः प्रतिभासो यस्या इति विग्रहः । उक्तञ्च यदनात्मेत्यादिना ।
तस्याः सकासा22त्सद्व्यवहारो भवति साक्षाद् वस्तुग्रहणात् । तस्या
ञ्च
विपर्ययोऽभावस्तस्मिन् सत्यसद्व्यवहारो भवति । सत्स्वन्येषूपलम्भकारणेष्विति
वाक्यपरिसमाप्तिः कार्याः23। अन्यथा संस24योत्पत्तेः । नहि वस्तु
सत्व उपलं
भप्रत्ययान्तरसाकल्ये च सा निवर्त्तत इति
17a निवेदितमेतत् पुरोऽस्मा-
भिरितिभावः । तवनेन यद्येवंविधा बुद्धिरभिमता त्वया तदावयोरैकमत्यमेव
तथापि न नः किञ्चिदनिष्टमुक्तं स्यात । अथान्या25तदा व्य
भिचार
इति दर्शयति । तमेव व्यभिचारन्दर्शयन्नाह । प्रत्यक्षाविषये 2b4 त्यादिना ।
लिङ्गाज्जाता लिङ्गजाः । अनुमानमित्यर्थः । तस्याः सकासा26त्सद्व्यवहारः
स्यात्परो
क्षेऽर्थेन केवलमनन्तरोदितरूपायाः स्वग्राह्य इत्यपिनाह । किं
लिङ्गजायाः सर्व्वस्याः सम्भवति नेत्याह । कुतश्चिदि 2b4 ति स्वभाव
कार्यलिङ्गद्वयबलोपजाता
या इत्यर्थः । अनुपलम्भस्यासत्ताऽसद्व्यवहार
साधकत्वादिति भावः । यदि नामे27वं ततः कथम्व्यभिचार इति चेदाह ।
असद्व्यवहारस्त्वि 2b4 त्या
दि । तद्विपर्य इति तस्या यथोक्तलिङ्गजाया
बुद्धेर्विनिवृत्तावनैकान्तिकः सन्दिग्ध इत्यर्थः । किं कारणं विप्रकृष्टेर्थे देशादि
विप्रकर्षैः
प्रतिपत्तृप्रत्यक्षस्य प्रमाणस्य निवृत्तावपि संशयात्कारणात् । अर्था
भाव इति शेषः प्रतिपत्तुः प्रत्यक्षमिति षष्ठीसमासः । इदञ्च प्रही
णसकलज्ञे
यावरणस्य प्रत्यक्षनिवृत्तौ त्वसंदेह एवेति कथनायोपात्तं । अन्यस्य चेत्यनुमानस्या
गमस्य च । एतच्चागमस्य प्रामाण्यमभ्युपगम्याभिधीय
ते । न तु तस्य प्रामाण्य
मस्ति


नान्तरीयकताभावाच्छब्दानाम्वस्तुभिः सह

नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचका ः ॥ ४

इत्यादिवचनात् ।


अयमस्याभिप्रायो यदि
नाम प्रमाणत्रयन्निवृत्तमप्रत्यक्षवस्तुनि तथापि
तन्नास्तीति कुतोयन्निश्चयः । तथाहि मलयनगनिकुञ्जवर्त्तिदूर्व्वाप्रवालपत्र
प्रभृतयः प्रमाणत्रयगोच
17b रभावातिक्रान्तां मूर्तिमुद्वहन्तस्तिष्ठन्ति । न च ते न
24 सन्तीति शक्यमभिधातुं । प्रमाणभावस्य सकलविषयसत्वव्यापकत्वकारणत्वा
भावात् । न च तद्रूपविकलपदार्थनि
वृत्तावन्यनिवृत्तिनियमेनातिप्रसङ्गदोषो
पनिपातादित्यावेदितमेतः28पुरस्तात् । यदाह ।

शास्त्राधिकारासम्बद्धा बहवोऽर्थाकृतेन्द्रियाः ।

अलिङ्गाश्च कथन्तेषामभावोऽनुपलम्भता ॥ ५
इति ।


ननु चात्र लिङ्गजाया मतेरसद्व्यवहारहेतुत्त्वं निषेद्धुमारब्धन्तद्विपर्य्यय
इत्याद्यभिधानात् । तत्कस्मादप्रस्तुतस्यैव प्रत्यक्षस्य चागम
स्य चोपक्षेपः कृत इति
चेत् । युक्तमेतत् । सर्वप्रमाणनिवृत्तेस्त्वगमकत्वप्रदर्शनेनैतदेकान्तासम्भवदर्श
नायोक्तमिति लक्ष्यतेऽस्य सुधियोऽ
भिसन्धिः ।


नन्विदमुक्तं सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेद स्थितलक्षणत्वे
नैकाभावस्यापरभावनान्तरीयकत्वात् विप्रकृष्टे तन्निमित्ता
भावात् सद्व्यव
हारनिवृत्त्याऽसद्व्यवहार इति सत्यमुक्तमेवैतन्न पुनर्युक्तं । तथाहि परोक्षेऽर्थे
सद्व्यवहारनिवृत्तिः कथन्तन्निमित्ताभावेपि
द्वयोरप्यनयोरनुपलब्ध्योः स्वविपर्यय
हेत्वभावभावाभ्यां सद्व्यवहारप्रतिषेधफलत्वन्तुल्यमेकत्र संशयादपरत्र विप
र्ययादिति वचनात् संशयेनेति चेत् ।
यद्येवं कथन्तर्ह्यसद्व्यवहारनिश्चयस्तत्र
युक्तिमनुपतति । यत्र तु निश्चयेन सद्व्यवहारनिवृत्तिस्तत्रासद्व्यवहारोपि
पुक्त एवान्यः प्रवर्तनफलोसीत्युक्तेः
न चाभावरूपव्यवच्छेदे भावानुषङ्गोस्ति
नियमेन । नहि बन्ध्यातनयनभःपङ्कजादिष्वसदवस्थता भवति प्रतिषेधात्
सदवस्थता भवति प्रतिषेधमात्रन्तु स्यात् । तयो
18a रन्योन्यव्यवच्छेदेनावस्थानात् ।
तथात्राप्यप्रत्यक्षे सद्व्यवहारप्रतिषेधान्न विधिभूता सद्व्यवहारानुस29ङ्ग
स्तद्व्यवच्छेदमात्रन्तु स्यात् । तद्भावस्य तद्भावस्यान्योन्यपरिहारेण
अवस्थि
तत्वात् । उक्तञ्चैतदमलन्यायतत्वप्रबोधोद्गतप्रज्ञालोकतिरस्कृताशेषपरतीर्थ्य
प्रवादध्वान्तेन धर्मकीर्तिनैवानित्यनिरात्मतादिव्यवच्छेदेपि तच्च स्यादित्यादि -

नेत्यास्तान्तावत् ।


अधुना सामान्यभूतानां बुद्धिव्यपदेशानां सद्व्यवहारहेतुत्वमपि नास्तीति
कथयन्नाह । न चे 2b5 त्यादि । तत्र च यथाक्रममभिसम्बन्धः । ते सर्व्वे बुद्धि
व्यपदे
शा न वस्तुसत्तां साधयन्ति । तेषाम्वा भेदाभेदौ न वस्तुभेदाभेदयोः सत्ता
25 सद्भावमिति । सर्व्वग्रहणं केचित्तु साधयन्त्येवेति प्रदर्शनाय । कुत एतदित्याह ।
अस
त्स्वप्यतीतानागतादिषु
2b5 वृत्तेरिति क्रियापदं । आदिशब्देन व्योमो
त्पलादयः परिगृह्यन्ते । कथम्पुनर्विषयमन्तरेण तेषु तेषां वृत्तिर्युक्तेति चेदाह ।
कथं
चित्त
2b6 द्रूपोनुभवाहितवासनापरिपाकप्रभावादित्यर्थः । तेषाञ्च
वस्तुप्रतिबन्धाभावादिति भावः । शङ्खचक्रवर्ती 2b7 त्यादिना प्रकारेण
तदनेन वस्तुसत्तां साधयन्तीत्येतस्य कारणमाह । नानैकामर्थक्रिया 2b6
ङ्कर्तुंसी30लं येषां ते तथोक्ताः । तेष्वपि च वृत्तेः कारणात् । किमर्थं तेषु
तेषाम्वृत्तिस्तद्भावख्यापनाय । तेषान्नाऽ
नैकार्थक्रियाकारिणाम्भावस्तस्य ख्या
पनाय । नानार्थक्रियाकारित्वस्यैकार्थक्रियाकारित्वस्य च कथनार्थमिति यावत् ।
अस्त्येव तर्हि तस्य वस्तुनस्तत्वमित्यत आह
नानैकात्मताया 2b6
अभावेपि तस्य वस्तुन इत्यधा31हर्तव्यं । नानैकरूपाणाम्बुद्धिव्यपदेशानां
तदनेन न वस्तुभेदाभेदौ साधयन्तीति साधयति । इदमेव निदर्शन
18b प्रदर्शनेन सफली-
करोति । राजा महासम्मत 2b6 इदमतीतवृत्तेरुदाहरणं । यथेति चाध्याहार्यं ।
शङ्ख चक्रवर्तीत्याद्यनुत्पन्नवृत्तेः शब्दैर्विषाणमित्यादि यदोपात्तस्य रूपं सनिदर्शन
ञ्चक्षुर्विज्ञानजनकत्वात् । सप्रतिघश्च स्वदेशे परोत्पत्तिप्रतिबन्धात् । एतन्ना
नार्थक्रियाकारिषु वृत्तेरित्येतस्य निदर्शनं । यस्मात्तच्चक्षुर्विज्ञानादि
कार्य
जनकत्वादेकरूपमपि नानारूपैः सनिदर्शनादि शब्दैर्विषयीक्रियते । तस्मान्न ते
वस्तुभेदसाधनायालं । घटश्चेत्येतदेकार्थक्रियाकारिष्वित्येतस्योदा
हरणन्तथाहि
बहवो रूपगन्धरसस्पर्शा उदकधारणविशेषादिकार्यनिर्वर्त्तनसमर्थत्वादभिन्न
समैस्तै विषयत्वेनात्मसाक्त्रियन्ते । ततस्ते नाभेदं सा
धयितुं क्षमाः ।
तच्चतीतानागतशशविषाणादिषु तत्प्रतिपत्तिर्न वस्तु साधयतीत्यतिप्रतीत
मेतत् । अथ कथमिदङ्गम्यते सनिदर्शनादिबुद्धिशब्दा
न वस्तुभेदं साधयन्तीत्यतः
प्राह । नहीत्या 2b7 दि । कस्मादेवात्र वस्तुनि रूपादावुपसंहारात्सनिदर्शनं
सप्रतिघं रूपमित्येव समानाधिकरणत्वादिति
यावत् । अन्यथा भिन्नाधिकरण
त्वाद्वकुलोत्पलकमलमालतीमल्लिकादिशब्दानामेव सामानाधिकरण्यमेव न
26 भवेदिति भावः । कणभक्षाक्षपाद मतानुसारिण
स्तु मिथ्यादर्शनानुरागजनिता
सद्विकल्पमलोपलिप्तान्तर्लोचनाः सञ्चक्षते नानाविषयत्वेप्यभ्युपगम्यमाने
तेषामेकत्रोपसंहारोऽविरुद्ध एव । तन्निमित्तानां
सनिदर्शनादीनान्तत्र रूपादौ
समवायादिति ।


तदेतत्सर्वमेषामविचारितरमणीयतया विचारविमर्दीक्षमत्वात् पण्डितजन
हासकारि दर्शनमित्यभिप्रायवा
19a नाह । आयासे वताय मित्या 2b8दि
वतशब्दोऽनुकंपायाङ् कासावित्याह । अनेकं सम्बन्धिनं सनिदर्शनत्वादिकमुप
कृत्यानुपकारे तेन तेषान्तत्र सम्बन्धित्वायोगादित्यभि
प्रायः । अनेकं सनिदर्शनादि
शब्दं 2b9 तेभ्यः सम्बन्धिभ्यःशकासा32दात्मनि संमार्गयन्निद
मायासपतने कारणं ।


ननु सरूपादिभावो यैः शक्तिभेदैरनेकसम्बन्धिन
मुपकरोति । तैरेव शक्ति
भेदैरनेकं बुद्ध्यादिशब्दं किन्नोत्थापयति । यदि पुनरेवं भवेत्तदाको गुणो लभ्यत
इत्याह । एवं हयनेन परम्परानुसारश्रमः परिहृ
तो भवती
2b9 ति । शक्ति
भेदैः सम्बन्धिनमुपकरोति तेभ्यश्च शब्दाः प्रवर्तन्त इत्ययम्परम्परानुसरणाया
सोऽनेनतपश्विना33रूपादिना त्यक्तो भवतीत्यर्थः ।


ननु च प्रतिनियतोपि कार्यशक्तिमन्तः सर्व्व एव भावास्त्वयाप्येतदवस्य34मेवाभ्युपेयमन्यथा कस्माच्छालिबीजंसा35ल्यङ्कुरमेवोत्पादयति न
यवाङ्कुरमिति
परेणाभियुक्तेन किमभिधानीयं भावप्रकृतिं मुक्त्वा तस्मात्तव
पदार्थप्रकृतिसमाश्रयणमेव शरणमन्यथास्य दोषस्य परिहर्त्तुमशक्यत्वात्

एतच्च न ममापि राजकुलनिवारितं । तथाहि शक्यमेत्मयाप्यभिधातुमनेक
सम्बन्ध्युपकार एव तस्य सामर्थ्यं नानैकशब्दोत्थापनमिति चेत् । सत्यमेवमेत
त् ।
एवन्तु मन्यते । न तावत् सनिदर्शनत्वादयः सन्ति । क्रमयौगपद्याभ्यामर्थक्रिया त्वनु
प्रयोगात् । उपलब्धिलक्षणप्राप्तानाञ्चानुपलम्भात् न चोपलब्धिलक्ष
णप्राप्तं
सदनुपलभ्यमानमस्तीति शक्यते वक्तुमतिप्रसङ्गात् । अनुपलब्धिलक्षणप्राप्ततायां
27 वा कथं तन्निबन्धनाः प्रत्ययव्यपदेशाः प्रवर्त्तन्ते गोगवयादिषु
19b एतेनोपलब्धा-
नामपि क्षणिकत्वादिवत् व्यक्तिव्यतिरिक्तेणा36नुपलक्षणं प्रत्यक्षं यस्मात्सा
मान्यं यदि दृष्टमप्यविकलं भिन्नं न संलक्षते । भावे तद्बलभाविनी भवति
सा
या शब्दवृत्तिः कथं । दण्ड्यादौ न निबन्धनस्य न गतौ धीशब्दयोरस्ति सा
तस्मादस्य कथञ्चिदेव तदपि ते युक्त्या न सङ्गच्छते


किञ्च ॥


भावानामैकदेश्यं प्रसजति भवतो
दर्शने सर्वथैषां

सत्तादेसा37दभेदात्सकृदिदमथवा भिन्नदेशे निवृत्तं ।

वृत्तौ वानेकमेतन्नहि भवति सकृत्सर्व्वथा वृत्तिभाजां

तालादीनां फलानां बहुषु बहुवि
धेष्वाश्रयेष्वेकभावः ॥

सत्वे वा तेषान्न बुद्धिशब्दोत्थापनसामर्थ्यमन्वयव्यतिरेकाभ्यामवधार्यते ।
अत एवानुपलभ्यमानत्वात्पाचकादिष्वपि च
तद्व्यतिरेकेणापि तेषाम्भावात् ।
उपपादितञ्चैतद् प्रमाण–वर्तिके १।१६०


पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः ।

भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्र
या ॥ ७

इत्यादिनेति नेहोच्यते । न च तेषामुपकार्यत्वमस्ति नित्यतयाऽनाधेयातिशयत्वात् ।
न च पुरुषाभिप्रायानपेक्षो व्यक्त्युपकृतसप्रतिघत्वा
दिसामान्यसामर्थ्यभावे
नोपनेयो विवक्षायान्तु संमुखीभावेपि प्रवृत्तिप्राप्तः । पुरुषाभिप्रायानुरूपे वा स ए
वास्तु नियामकः किमन्तर्गंतृभिः सामान्यैः
तथाहि तद्गतान्वयव्यतिरेकानुविधान
मेव लक्ष्यते सामान्यानां न नित्यानामव्यतिरेकत्वात् ।


तस्मात् । सर्व्वमेतत् कुदर्शनसमाश्रयेण कल्पनामात्रं । कल्पना च
सैव
कर्तव्या या पुनर्न्न पर्यनुयोगमर्हति तत्रत्यां कल्पनायां वरमेव कल्पनादोषाभावात् ।
गुणसद्भावाच्चेति ।सात्मत38युक्तैवेयं कल्पना । नहि एकस्य नाना
सु39
20a शब्दोत्थापने सामर्थ्यमस्तीति । यद्येवमत्रापि ब्रूम इत्याह । नानाशब्दो-
त्थापनासामर्थ्ये नानासम्बन्ध्युपकारोपि माभूदि 2b10 ति । एकस्यानेकोपकार
कत्वविरोधाभ्युपगमादित्यभिसन्धिः । नित्यत्वात्सम्बन्धिनामनुपकारोऽभ्युपेत एवेति
चेदाह । अनुपकारे हि तेषां 2b10 सनिदर्शन
त्वादीनान्तेनाङ्गी क्रियमाणे
तत्सम्बन्धिता न सिध्यति
। नहि यो येन नोपक्रियते हेदुः स तस्य सम्वन्धियुक्तो
28 हिमवा निव मलयगिरेरिति भावः । एवन्तावत्पर
पक्षनिराकरणेन सनिदर्शनादि
शब्दानामभिन्नविषयत्वं साधितं । त एव जडिम्नः पदमुद्वहन्तः पुनरपि पर्य
नुयुञ्जते ।


ननु भवतु नाम
सनिदर्शनादिशब्दानामभिन्नविषयत्वं । अथ कथमवसीयते ।
घटपटादिशब्दानामनेकार्थविषयत्वमिति यावता रूपादिव्यतिरिक्त
मन्यदे
वावयवि द्रव्यमस्ति । तदेव च घटपटादिशब्दैर्विषयीक्रियते । तथाहि विचार
विषयापन्नः पटस्तन्तुभ्यो व्यतिरिच्यते भिन्नकर्तृकत्वात्
घटादिवत् । तथा
समस्तव्यस्तप्रत्ययाविषयत्वाद् गवादिवत् । नहि तन्तवः तन्तुसमुदाय इति वा पटे
प्रत्ययो दुष्टः । उपायान्तरसाध्यत्त्वाच्च घटादिवत् । भिन्नदेशावस्थितैश्च क्रिय
माणत्त्वात् । घटादिवदेव भिन्नपरिमाणत्त्वाच्च । वकुलामलकबिम्बादिवत् । अतश्च
20b पूर्व्वोत्तर कालभावित्त्वाद् बीजाङ्कुरादिवत् । अथवा पटादन्ये तन्तवस्तत्कारणत्त्वात्
तुर्यादिवत् । तन्तुपटयोर्वाऽन्यत्त्वं भिन्नशक्तिमत्त्वात् जलानलादिवत् । तथेदम
परम्विचारविषयापन्नमिन्दीवरङ्गन्धादि
भ्योऽत्यन्तभिन्नन्तेषाम्व्यवच्छेदकत्वात् ।
चैत्रादिवत् । इह यद्यस्य व्यवच्छेदकन्तत्तस्मादन्यत्तद्यथा गोपिण्डाच्चैत्र
इत्येतानि तद्व्यतिरेकसाधनप्रमाणानि सन्ति । तत्क
थन्तेषाम्भिन्नविषयत्वम्भवि
ष्यतीति ॥ ० ॥


तदेतदप्येषामसद्दर्शनाभिनिवेशपटलप्रच्छादितान्तःकरणानां नाल्पीयसस्तमसो
दुर्विलसितमित्यागूर्या
ह । घट इत्यपि च रूपादय एवैकार्थक्रियाकारिण
एकशब्दवाच्या भवन्तु किमर्थान्तरकल्पनये
2b10 ति कार्यमित्युपस्क्रियते । नैव
किञ्चित्तस्य तादृशस्य नीलादि
व्यतिरेकेणानुपलक्षणादित्याकूतमस्य । यानि त्वे
तानि तत्प्रतिपादनाय प्रमाणान्युक्तानि तान्यसिद्धतादिदोषदुष्टत्वान्नालं तद्भेद
साधनायेति भो
ता 40 नामेव पुरतः छायान्दधतीति मन्यते । तथाहि नेदं ताव
दाद्यं प्रमाणं परीक्ष्यमाणं पूर्व्वामपि परीक्षां क्षमते । यतोत्र विकल्पद्वयमाविर्भवति ।

न्यावस्थावस्थितेभ्यो वा तन्तुभ्यः पटस्यान्यत्वं साध्यते विशिष्टसंस्थानावस्थिते
भ्यो वेति । तत्र न तावदयमाद्यः प्रकारः सहते विचारभारगौ
रवं । सिद्धसाधनता
दोषानुषङ्गात् । यस्मात्समधिगतसमस्तवस्तुयाथातथ्यसुगतसमयनयसमाश्रय
प्रवृत्तिबलासादितावदातमतयः प्रसवानन्तरनि
रोधभाजः सर्व्वभावाइति प्रकल्प
यन्ति । ततश्च तेभ्योन्यत्त्वमिष्टमेवेति सिद्धसाध्यताप्रसङ्गोपनिपातपिशाचः
कथमिव भवन्तं न गृहणाति । द्वितीयोपि विक
ल्पः तीव्रानलोपतप्त इवोपलतले
तलानि पादानां न प्रतिष्ठां समासादप41ति । हेतोः परं प्रत्यसिद्धत्वात् ।
नहि विशिष्टस्थानावस्थितेभ्यः पटस्य भिन्नकर्तृकत्वं परं
21a प्रति सिद्धपद्धतिमवतरति
29 योहि तादृक्प्रकारेभ्योन्यत्वमभावादेव नाभ्युपैति स कथमिव भिन्नकर्तृकत्व
मभ्युपगमिष्यतीति । तदनन्तराभिहितमपि प्रमा
णेन समभिलसित42
मनोरथपरिपूरणायालं हेत्वसिद्धेः । यतः पट इति तन्तुष्वेव सन्निवेशविशेषेणा
वस्थितेषु प्रत्ययो वर्तते । तद्विविक्तरूपस्यात्यन्तमु
न्मिषितचक्षुषाप्यदर्शनात्स्फ
टिकादौ दृष्टमिति चेत् । एतदुत्तरत्र निषेत्स्यामः । यत्त्विदमुपायान्तरसाध्यत्वाद्
भिन्नदेशावस्थितैः क्रियमाणत्वात् भिन्नपरिमा
णत्वात्पूर्वोत्तरकालभावित्त्वाद्
भिन्नशक्तिमत्वाच्चेति ॥


अत्र प्रथमसाधनाभिहितविकल्पदोषस्तीव्रामर्शविरक्तलोचन इवारातिस्त
त्सम्पदन्न स
हते ॥


प्रथमे सिद्धसाध्यत्वं द्वितीये हेत्वसिद्धता ।

क्षणिकत्वाद्विशिष्टानामुत्पादोभिमतो यत ः ॥ ८

इति सङ्ग्रहश्लोकः ।
यच्चेदमुक्तं विचारविषया पं
43मिन्दीवरमित्यादि । तदपि न सङ्ग
च्छते । यस्मादिन्दीवरस्य गन्धादयइतीन्दिवर44स्वभावा गन्धादयो
मधुभावनाविशेषादिकार्यनिवर्त्तन45
मर्था इति यावत् । अवि
शिष्टकार्यसाधनात्मना सामान्यभूतगन्धादिशब्दैः प्रसिद्धाविशिष्टकार्यसाधना
ख्येन विशेषेण ये विशिष्टास्त एवमुच्यन्ते । न पुनरत्रान्यत्
किञ्चिदित्यर्था
वर्णितलक्षणं द्रव्यमस्ति तस्य तादृशोऽनुपलब्धेरित्युक्तप्रायं । तथा चानेन प्रकारेण
तेषान्तद्व्यवच्छेदकं भवतीति । तेषान्तद्व्यच्छेदकं च न चात्यन्तं
भिन्नमिति
कोऽनयोर्विरोध इति । सन्दिग्धविपक्षव्यावृत्तिको हेतुः प्रतिबन्धासिद्धः । नहि दृष्टान्त
मात्रास्तिद्धिरस्ति । सर्व्वसिद्धिप्रसङ्गात् । अपि च शिलापु
21b त्रकस्य शरीरं ।
रूपस्य स्वभाव इत्यत्रापि शिलापुत्रकरूपयोः शरीरस्वभावव्यवच्छेदकत्वमस्तीति
भेदस्तयोरपि ततः प्रसजते न च भवति । नैःस्वाभाव्यप्रस
ङ्गात् । तस्मा
दयमेतेनानैकान्तिकः स्फुटमेव भवद्भिरभिधानीयः । किञ्चेदमतिविकलैर्मि
थ्यादर्शनसंरागपिशाचाविष्टबुद्धिभिः किमिन्दीवरस्य गन्धादय इत्येते श
ब्दा
पुरुषाभिप्रायव्यापारनिरपेक्षा एव वस्तुतत्वनिबन्धनाः प्रवर्त्तन्ते । किम्वा यथैव तैः
प्रयुज्यन्ते तथैव वस्तुतत्वमनपेक्ष्य तमर्थमसत्कारेण प्रतिपादयन्तीति
द्याद्यः
पक्षस्तदा सदाध्वननप्रसङ्गोऽतीतादिष्वन्यत्र च पुरुषे च्छावसा46न्नियो
जनन्नभवेत् । न च प्रवचनान्तरभेदेष्वर्थेषु प्रवृत्तिः प्राप्नोति । न च क
स्याश्चि
द्वाचोऽसत्यार्थता स्यात् । अथोत्तरस्तदा ।

येषाम्वस्तुवसा47वाचो न विवक्षापराश्रया

30
षष्ठिवचनभेदादि चोद्यन्तान्प्रति युक्तिमत् ॥

यदाहुः ॥


यद्य
था वाचकत्वेन वक्तृभिर्विनियम्यते ।

अनपेक्षितवाहयार्थन्तत्तथावाचकम्वचः । १०

तदा न पुरुषेच्छाबलप्रवृत्तशब्दवसा48दर्थतत्वं व्यवतिष्ठत इति तद
वस्थं
सन्दिग्धविपक्षव्यतिरेकत्वं हेतोरिति । एतेनैतदपि प्रत्युक्तं विप्रतिपत्ति
विषयापन्नाच्चन्दनादन्ये रूपरसगन्धस्पर्शा हेयत्वादयश्च49ति प्रतिजानी
महे न
व्यपदिश्यमाण50त्वात् । शिलातुलाढकप्रसेविकावदिति । तस्मात्तद्भाव
प्रतिपादनाय न किञ्चित्प्रमाणमस्तीति स्थितमेतत् । अस्माकन्तु तदभावप्रमाण
साधकं प्रमा
22a णमेतत् । ये परस्परव्यावर्त्तमानस्वभावावस्थितिसमालिङ्गित
सरीरा51स्ते व्यतिरिक्तावयविद्रव्यानुगतमूर्त्तिमात्मातिशयं नात्म
सात्52कुर्वन्ति । यथा बहवो भस्माधा
रन 53 लालाथूकादयस्तथा
च यथोपदिष्टधर्मवन्तस्तन्त्वादय इति स्वभावहेतुः । वैधर्म्येण नभःपङ्कजादयस्ते
षान्निस्वभावत्वात् । परस्परव्यावर्त्तमानानामपि
यद्येकस्वभावानभ्युपगमे तस्य
तेषु सर्व्वात्मनाऽन्यथा वा वृत्त्ययोगो बाधकम्प्रमाणं । कुतस्तद्धि युगपदनेकत्र
सर्व्वात्मना वर्त्तमानमनेकाधारस्थिताधेयव
दनेकत्त्वमात्मनोऽनुमापयतीति
कथमस्याभिन्नस्वभावता योज्यते । एकावयवोपलम्भवेलायाञ्च सकलस्य तत्र
परिसमाप्तत्वादुपलब्धिप्रसङ्गः । अनेकाव
यवोपलब्धिद्वारेणोपलम्भकति
पयावयवदर्शनेपि स्यात् समस्तावयवोपलम्भद्वारेण उपलब्धौ सर्व्वकालमदर्शन
प्रसङ्गः । तस्याम्भास्वरमध्य
भागानां सकृदनुपलम्भात् । एकावयवकम्पे च
सर्व्वकम्पादिप्रसङ्गश्च वाच्यः । नाप्येकदेशेन सावयवत्वप्रसङ्गात् । एकदेशा
नाञ्चानवस्थाप्रसङ्
गात् । तेपि हि तस्यावयवा इति पाण्यवयववृत्तेष्वपि अन्येन
वर्त्तितव्यमित्यादिना तदन्यैकदेशाभाववानेकः कश्चिदवयवी विद्यते । तथा चा

ण्वादिसमुदाय एवास्तु कोनुरोधः स्वात्मभूतेष्ववयवेष्विति । न वा क्वचिदप्यसौ
वृत्तो न ह्येकदेशाः प्रत्येकमवयवीत्यलं प्रतिष्ठितमिथ्याप्रलापैरिति विरम्य
ते ।


तदेवमेतत् परमतमलमालोच्यमानतीव्रतरार्क्करश्मिसंपातयोगिहिमशैलशिला
शकलवद्विलयमुपयातीति मन्यमानः प्राह । किमर्थान्तरकल्पन 3a1
येति ।
स्यादियत्तराशापरस्य नैवानेकस्यैकार्थक्रियाकारित्वमस्तीत्यत आह । बहवो पि ही
3a1 त्यादि । किंवत् । चक्षुरादिवत् । यथा रूपालोकमनस्कारचक्षुराद

22b 31 यश्चक्षुरादिविज्ञानमेकंर्व कुव्न्ति तथा रूपायोप्युदकधारणविशेषादिकामे-
कामर्थक्रियाङ्करिष्यन्तीत्यर्थः । यतश्चैतदेवं तस्मात्तस्यैकार्थक्रियासामर्थ्यस्य
ख्यापनाय
तत्र रूपादावेकस्य पटादिशब्दस्य नियोगोपि स्यादिति एतद्युक्तं पश्यामः ।
न केवलमेकार्थक्रियाकारित्वं तेषामित्यपिशब्देनाह । कथं युक्तमिति चेत् । एवं
मन्यते
केनचित्प्रयोजनेन केचिच्छब्दाः क्वचिन्निवेश्यन्ते तत्र यदनेकमेकत्रोप
युज्यते तदवश्यन्तत्र चोदनीयं । तस्य च पृथक्कथञ्चोदनेऽतिगौरवं स्यात् । न चा
स्यानन्यसाधार
णं रूपं शक्यं चोदयितुं । नाप्यस्यायासस्य किञ्चित्साफल्यं
केवलमनेन योग्यास्तत्र तेर्थाश्चोदनीयास्त एकेन वा शब्देन चोद्येरन् बहुभिर्वेति
स्वातन्त्र्यमत्र
वक्तुः । तदियमेका श्रुतिर्बहुषु वक्त्रभिप्रायवसा54त्प्रवर्त्त
माना नोपालम्भमर्हति । न चेयमशक्यप्रवर्त्तमाना इच्छाधीनत्वात् । यदि हि न
प्रयोक्तु
रिच्छा कथमियमेकत्रापि वर्त्तेत । इच्छायाम्वा क एनां बहुष्वपि
प्रतिबद्धुं समर्थः । प्रयोजनाभावादप्रवर्त्तनमित्यपि नाशङ्कनीयं । भिन्नेष्व
प्ये
कस्माच्छब्दात्प्रतीतिरतत्प्रयोजनभेदेन यथा स्यादित्युक्तत्वात् प्रयोजनस्य तस्मा
त्सूक्तमस्माभिर्युक्तं पश्याम इति । यथा कथञ्चिद्विनैव प्रयोजनेन लोकः शब्दं

प्रयुंक्ते । ततो न युक्तमेतदिति चेदाह । न च निःप्रयोजना लोकस्यार्थेषु शब्दयोजने
3a1 ति । न हि व्यसनमेवैतल्लोकस्य यदयमसङ्गतं यन्न प्रयुज्जानो वा शब्दान्तः
खल्वा
सीत् । किन्तर्हि सर्व्व एवास्यारम्भः प्रयोजनसापेक्षः प्रयोजनञ्चेतदुक्त
मिति मन्यते तत्र प्रयोजनवत्वेनेति । यथा रूपगन्धरसादयः सहैकप्रयोजनाः
सङ्कलि
23a ता एककार्यकारिण इत्यर्थः । समवहितानामपि कदाचित्कस्यचिदेव
कार्ये व्यापारोन्यस्य त्वौदासीन्यमिति
स्यादाशङ्कासंभवस्तत आह । पृथग्वेति
3a2 वा शब्दश्चार्थे । सर्व्व एव व्यापारवन्त इत्यर्थः । अन्ये त्वन्यथा
व्याख्यानयन्ति । व्याख्यानञ्चादो दूषयन्ति । तत्रैतस्मिन् शब्दैर
र्थ प्रत्यायन
क्रमे येर्था रूपादयः सह पृथग्वैकप्रयोजनास्तेषां रूपादीनां संहितानां पृथुबुध्नोद
राकारसंस्थापितानामेकं प्रयोजनं । यदुत मधूदकाद्याहरणं पृथग्वा
तेषामेव
प्रत्येकं स्वाकारज्ञानजननं ॥ एकञ्च तत्प्रयोजनमेकत्र दृष्टं यत्तदन्यत्र नास्तीति
सहभूतानामपि कदाचिदौदासीन्यदर्शनात्सर्वेषां सव्यापा
रतामादर्शयितुं पृथ
ग्वेत्यभिहितं वा शब्दश्च समुच्चय इत्यन्ये । केवलमत्रैकप्रयोजना इत्यभिधाना
32 त्सर्वेषान्तथाभावप्रतीतिरस्त्येवेति व्यर्थम्पृ
थग्वेति स्यात् न चायं शब्दार्थ इति
यक्तिञ्चिदेतत् । तैः प्रकरणं न लक्षितं तथा ह्यत्र समुदायशब्दस्यैकवचनप्रवृ
त्यविरोधः कथयितुमारब्धः । तत्र कः प्रस्तावः पृथग्वेत्यभिधानस्य ॥


केवलं रूपादिशब्दश्चायञ्जातिशब्दः । तत्र चान्यादृश्येव प्रक्रिया भविष्यति ।
यत्त्विदमुक्तं केवलमत्रैकप्रयोजना इत्यभिधानात्सर्व्वे
षां तथाभावप्रतीतिरस्त्येवेति
तदपि न युक्तिसङ्गतं । तथाहि परबलपराजयोद्यतानामेकप्रयोजनवत्वेपि न तत्र सर्व्वे
व्यापारवन्तो भवन्ति । तद्वदत्रापि भ
वेत् । अत एव च स्यादाशङ्कासम्भव इति
व्याख्यातं । यदा तु सर्व्वेषामेव सव्यापारताख्यापनाय पृथग्वेत्येतदुच्यते तदाऽपह्नु
55तमुत्सार्यते । तदेतेनैवाशब्दार्थ
23b त्वमपि प्रत्युक्तमिति यक्तिञ्चिदेतदेव ।


अस्तु वैतदपि व्याख्यानं यदि कथञ्चिद्व्यवस्थापितुं पार्यते । तेषा मेवं विधा
नामर्थानान्तस्यैकार्थक्रियाकारिणो भावस्य ख्यापना
यैकोघटादिशब्दो यदि
नियुज्येत तदा किं स्यान्न कश्चिद्दोषः स्यात् । गुण एव तु केवलो लभ्यत इत्याह
तदर्थक्रियास56 क्ते रभिन्नाया ख्यापनाय नियुक्तस्य समुदायश
ब्दस्यैकवचन
विरोधोपि नास्त्येव
3a2 । कुतः यस्मात्स हितानां सा शक्तिरेका 3a3
ऽभिन्ना न प्रत्येकं न तु पृथग्भूतानामित्यर्थः । इति तस्मात्समुदायशब्दे तस्मिन्नै
कस्मिन्घटादौ
समुदाये वाच्ये एकवचनं घट इति भवतीति शेषः । स्यादिति वा
वक्ष्यमाणं क्रियापदं । नन्वयङ्घटादिशब्दो गवादिशब्दवज्जातिशब्दस्तत्कथमे
तदु
क्तमिति चेत् । सत्यं समुदायान्तरवृत्यपेक्षया जातिशब्दोयं रूपादिसमु
दाय्यपेक्षया तु समुदायशब्दोपीत्यभिसन्धेरदोषः । तथाहि त्रय्येवगतिः श
ब्दा
नाङ्केचिज्जातिशब्दा एव । यथा सुखादिशब्दाः सुखादेरनवयवत्वात् । केचित्तु
समुदायशब्दा एव यथा विन्ध्यहिमवत्सुमेर्वादि शब्दाः । तज्जातीयस
मुदाया
न्तराभावात् । अपरे पुनर्जातिसमुदायशब्दाः । यथैत एव घटादिशब्दाः समुदाया
न्तरसमुदाय्यपेक्षयेति । एवन्तावत्समुदायशब्देषु वचनप्रवत्यवि
रोध उक्तः ।
अथ कथञ्जातिशब्देष्वित्याह । जातिशब्देष्वित्यादि 3a3 । अर्थानां घटा
वीनां प्रत्येकं सहितानाञ्च शक्तेः कारणात् नानाशक्तिरेका च । एतदुक्तं भवति
यस्मादेको
24a पि वृक्षो गृहकरणाद्यर्थक्रियानिवर्त्तने57पि योग्यो बह
33 वोपि वृक्षाः । ततश्च तेषाङ्केवलानामपि योग्यत्वादनेका शक्तिः समवहिता
नामपि योग्यत्वादेका शक्तिरेकप्रत्यवमर्शप्रत्ययनिबन्धनत्वेनैकत्वोपचारात् ।
यतश्चैव
मिति तस्माद्यथाक्रमं नानाशक्तिविवक्षायां सत्यां बहुवचनमनेक
त्वाच्छक्तेर्वृक्षा इति भवति । एकशक्तिविवक्षायान्तु एकत्वाच्छब्द एकवचन
मुक्त इति स्यात् । त
दा यद्येष नियमो भवद्भिरसद्ग्रहग्रहावेशव्याकुलितचेतोभि
रिष्यते । बहुष्वेव वाच्येषु बहुवचनं भवति । एकस्मिन्नेव चैकवचनमिति । तदनेन
यदाप्येतद्द
र्शनमाश्रीयते बहुषु वहुवचनम्भवति । द्व्येकयोर्द्विवचनैकवचने
पाणिनिः १।४।२२ इति तदापि न कश्चिद्दोष इति दर्शयति । भवतान्तु कथ
मित्याह । अस्माकमि 3a4 त्यादि ।
संकेतबसा58च्छब्दानाम्बहुवच
नान्तानान्दाराः सिकताः पादाः । गुरव इत्यादिनाऽसत्यपि बहुत्वेऽभिधेयस्य वृत्तिः ॥


तथासत्यप्यनेकत्वेषण्णगरी
षट्पू59लीवनमित्यादिनैकवचनान्तानाम्वृत्तिरि
त्यनभिनिवेश एव । को हि नाम सचेतनः पुरुषाभिप्रायमात्राधीनवृत्तिषु शब्देष्वभिनि
वेशं कर्त्तुमु
त्सहत इति भावः । परपक्षं पूर्वपक्षयति । नानेको रूपादिरेकशब्दो
त्थापने समर्थ इति चे
3a5 दिति । नहि अनेकस्यैकेन सम्बन्धो युज्यत इति ।
किमि 3a5 त्यादिना परि
हारः । पुरुषाणाम्वृत्तिरिच्छा तत्रानपेक्षाः सन्तोऽर्थाः
किं स्वयं शब्दानुत्थापयन्ति । आहोस्वित्पुरुषैस्ते व्यवहारार्थमर्थेषु यथा कथञ्चि
न्नियुज्यन्त इति विकल्पद्व
यं । तत्र पुरुषैरेव ते यथेष्टं नियुज्यन्तेऽन्यथाऽतीता
जातयोर्दर्शनान्तरभेदिष्वन्यत्र वा नियोजनन्न भ
24b वेदिति भावः । ततश्च स्वयं
3a6 पुरुषेच्छाऽनपेक्षाणामर्थानां शब्दोत्थापने सति भावस्य शक्तिरसक्ति60
र्वा चिन्त्येत नामैक इत्यादिना । अस्त्येव तर्हि स्वयमुत्त्थापनमिति चेदा
ह । न च
तद्युक्तं
3a6 । अनन्तरोक्तात् कारणत्रयादित्यभिप्रायः । तस्मात्पुरुषैस्तेषां
शब्दानां नियोगोर्थेषु विनाप्येकत्वादिना ते पुरुषाः यथेष्टमेकत्रापि वहुवचनान्तम

नेकत्राप्येकवचनान्तं शब्दं नियुञ्जीरन्निति कस्तत्र तेषु शब्देषूपालम्भो नानेको
34 रूपादिरेकशब्दोत्थापने समर्थ इत्ययं नैव कश्चित् केवलमतिबहुलव्यामोहविजृ
म्भितमिति मन्यते । स्यान्मतङ्किमित्येकं शब्दमनेकत्र नियुञ्जत इत्याह । निमि
तञ्च नियोगस्योक्तमेवेति
3a6 तत्सामर्थ्यख्यापनाय तत्रैक
शब्दनियोगोऽपि
स्यादित्यत्रावसरे । उपचयमाह । अपि चे 3a7 त्यादिना । आश्रयाभिमतेने
त्यवयविद्रव्येण । तेषान्तत्र समवायसम्बन्धेन सम्बन्धात् । क
थं सम्बन्धो नैवाने
कस्य एकेन सह सम्बन्धो विरोधाभ्युपगमात् । अन्यथैकेन शब्देनापि सह प्राप्नो
तीत्यभिसन्धिः । परः प्राह । न चे 3a7 दयमेकेन स
सम्बन्धविरोधात्
कारणा देकशब्दं रूपादिषु नेच्छामः । किन्त्वभिन्नानामविशिष्टानां रूपादीनां
घटकम्बलपर्यङ्कादिषु । नानाविधा येयमर्थक्रिया जलधा
रणप्रावरणादिस्तस्या
विरोधः । तथा च तत्सामर्थ्यख्यापनाय शब्दस्य विरोधात् । तेषाञ्चाभेदस्तदाश्रय
द्रव्यभेदाभावात् । एतदेव स्फुटयति । ते रूपादय ए
25a कस्वभावाः सन्तः
समुदायान्तरे कम्वलादौ येयमसम्भाविनी उदक धारण विशेषाद्यर्थक्रिया
तामेव कुर्युस्तेन कारणेन तस्या अर्थक्रियायाः प्रकाशना
येमामेतेऽर्थक्रियां न ते
तदसम्भाविनीमर्थक्रियाङ्कुर्वन्ति यथा त एव कम्बलग
ता रूपादयः
सजातीयेभ्यः । तथा च घटगता अपि रूपादयः कम्बलगतेभ्यो रूपादि
भ्योऽविशिष्टस्वभावा इति व्यापकानुपलब्धिः । एवमन्यत्रापि
योज्यमितीयं पूर्व्व
पक्षरचना । अत्रोत्तरमाह । भवतु नामेत्यादिना 3a9 । तदनेन हेतोरसिद्धि
मुद्भावयति । अयमत्रार्थो नहि रूपादीनाङ् कम्बला
दिष्वभेदोस्ति । परस्पर
रूपविविक्तानामेव प्रत्यक्षप्रमाणपरिच्छेद्यत्त्वात् । एवञ्च सतीदं प्रत्यक्षं किमे
नाम्वाञ्छामुपेक्षते । किम्प्रश्ने क्षेपे वा
नैव क्षन्तुमर्हत्यपाकरोतीति ।
किंञ्चानिष्टञ्चेद 3a10 मस्माभिर्घटकम्बलादिष्वभिन्ना रूपादय इति कुतो
35 रूपादीनाम्प्रतिसमुदायत्त्वे हेतुबलादनपेक्षितद्रव्याणां स्वभेदाभ्युपगमात् । तद
नेनाभ्युपगमद्वारेणाप्यसिद्धताञ्चोदयति । पूर्व्वेण प्रत्यक्षद्वारेणेति विशेषः ।
पुनरपीर्ष्यालुः परः प्रा
ह । यद्यन्य एव रूपादिभ्यो घटः स्यात् किं
स्यादिति न कश्चिद्दोषः स्यादित्याकूतं । न वयं मात्सर्यात्तं नेच्छामः ।
किन्तु भवत्येतावत्त्वत्र वक्तव्यस्तीत्याह । तस्यावय
विनः प्रत्यक्षस्य सतः
3a10 चक्षुः स्पर्शनेन्द्रियग्राह्यतयाभ्युपगतत्त्वात् । अरूपादिरूपस्य
3a10 रूपगन्धादिस्वभावरहितस्येत्यर्थः । गुणद्रव्ययोर्भेदाभ्युपगमात् ॥
25b
तद्विवेकेन रूपादिविवेकेन बुद्धौ चक्षुः स्पर्शनेन्द्रियजायां प्रतिभासने किमा
वरणन्न कश्चित्प्रतिबन्ध इत्यर्थः । न च कश्चिदत्यादरेणाप्रतिहतकरणोपि नि

रूपयन्नीलमधुरसुरभिकर्क्कशादिव्यतिरेकेण तद्रूपम्विविक्तरूपं घटादिद्रव्य
मुपलब्धुमीश इति मन्यते । अबिद्धकर्ण्णस्त्वाह रूपाद्यग्रहेपि द्रव्यग्र
हणमस्त्येव
यतो मन्दमन्दप्रकाशेऽनुपलभ्यमानरूपादिकं द्रव्यमुपलभ्यतेऽनिश्चितरूपं गौरश्वो
वेति । ननु च तत्रापि संस्थानमात्रमुपलभ्यते । सत्यमुप
लभ्यते न तु तद्रूपा
द्यात्मकं । रूपाद्यात्मकत्वे वा नीलपीतादिविशेषग्रहणप्रसङ्गः । तथायस्कञ्चु
कान्तर्गते पुरुषे पुरुषरूपाद्यग्रहे
पि पुरुषप्रत्ययो दृष्टः । रात्रौ च वलाकाव्यामुक्त
रूपाद्यग्रहेपि पक्षिप्रत्ययो दृष्टः । तथानीलाद्युपधानभेदानुविधायिनः स्फटिकम
णेः
स्फटिकरूपाद्यग्रहेपि स्फटिकप्रत्ययः । तथा कषायरूपेण पटरूपाभिभवे पटरूपाद्य
ग्रहेऽपि पटप्रत्ययो दृष्ट इति । तदेतत्स
र्व्वमस्यानल्पकालोपचितकुदर्शनाभ्या
सोपजातबुद्धिमान्द्यविजृम्भितमेव प्रकटयति वचः । तथाहि यत्तावदिदमुक्तं मन्द
मन्दालोके रात्रौ च नीलाद्युपधान
सद्भावे च तद्रूपाद्यग्रहेपि द्रव्यमुपलभ्यत इति
तत्र वक्तव्यं कीदृशं तत्र द्रव्यमुपलभ्यत इति । दृश्यत एव तद्यादृशमुपलभ्यत इति
चेत् । ननु श्यामरूपं
मन्दमन्दालोके रात्रौ च तत्र तदपुलभ्यते उपधानं रूपञ्च ।
न च तद्रूपन्तत् । ताद्रूप्येऽनन्तरोदितपक्षक्षयप्रसङ्गात् । तत्समीपपार्श्ववर्त्तिभिश्च
तथानुप
26a लम्भात् । न चाप्यण्या61कारेण बोधेन वस्तुनोऽवगतिः यस्य कस्य-
चिज्ज्ञानस्य सर्व्ववस्तुपरिच्छेदकत्त्वप्रसङ्गात् । तस्माद् भ्रान्तमेतत् ज्ञानम्भ्रान्ति
वीजात्स्वोपादानादनादि
कालीनान्निर्विषयमेव तथा प्रतिभासि द्विचन्द्रादिप्रत्यय
वदुपजायते निर्विषयत्त्वेपि प्रतिनियतदेशकालभावि भवति । स्वोपादान
वासनाप्रबोधकबाह्या
धिपतिप्रत्ययापेक्षना62त् । द्विचन्द्रादिज्ञानवदेव ।
भ्रान्तत्त्वेप्यर्थाविष63म्वादो विशिष्टाधिपतिप्रत्ययसद्भावात् । मणि
36 प्रभायां मणिभ्रान्तिरिव । न चार्थाविसम्वाद
नादेवास्य सविषयत्वं युक्तमनु
मानेन व्यभिचारात् । मणिभ्रान्त्या च । तदेव द्रव्यन्तथा गृहणाति ततोन्यस्य निर्वि
षयत्त्वमिति चेत् । ननु न तद् द्रव्यन्त
द्रूपन्न वान्याकारानुस्यूतः प्रत्ययोऽन्य
स्य परिच्छेदक इत्युक्तं । एवञ्च सति सद्विषयत्त्वे सत्यपेक्षेपि सद्विषयत्त्वमस्त्येव ।
तथा हि समाप्येतच्छक्यम्वक्तुं
त एव नीलादयस्तथा प्रतिभासन्त इति । असति
भ्रांतिसन्देहकारणे सालोकावस्थायां योग्यदेशावस्थाने च निरुपधानावस्थायाञ्च
नोपलभ्यते
तत् द्रव्यमनात्मरूपप्रतिभासि विवेकेनान्यदा तु सति भ्रान्ति
सन्देहकारणे निशान्धकारावच्छादितलोचनावस्थायां दूरदेशावस्थाने सोपधा
नावस्थायाञ्च तद
न्याकारविवेकेन प्रतिभासत इति कोन्यो भौतिकाद्वक्तु
मर्हति । अयस्कञ्चुकान्तर्गते पुरुषप्रत्ययो न प्रत्यक्षः । किन्तर्हि लैगिकः ।
तथा हि पुरुषश
रीरावयवसमाश्रयबलोद्भूतविशिष्टसंस्थानावस्थितकञ्चुक
दर्शनात्कार्यलिंगज्ञानात् सम्बन्धस्मरणापेक्षिणः कारणभूते तथाविधे पुंसि
पुरुषोयमित्यनन्तर
26b मेव प्रत्ययः समुद्भूतिमासादयति । अत एव चास्पष्टाकारा सा
प्रतीतिः कश्चायमिति संशयश्च भवति । तथाविधसंस्थानस्य च कञ्चुकस्योत्त्पत्तेः
पुरुषरूपादय ए
व हेतवो भवन्ति नत्वन्यदवयवि द्रव्यं । तस्यासिद्धेरसिद्धस्य च
कारणत्वाभ्युपगमायोगात् । रूपादिभिस्तु प्रत्यक्षानुपलम्भाभ्याङ्कार्यकारणभाव
सिद्धेः । तेषा
मेव केवलानान्तथा सन्निविष्टानामुपलम्भात् । पटे तु कषायमञ्जिष्ठा
दिसम्पर्कादर्थान्तरमेव केवलन्तत्तथा जातमीक्ष्यते । नतु नानारूपयोर्द्रव्ययोः सं
सर्गा
दविभागात् तथोपलम्भः । पुनस्तद्द्रव्यसंस्थानस्थितिकारणविच्छेदात्तन्निवृत्तिः ।
तदुपादानकारणापेक्षिणश्च जलपावकादेरपरोत्त्पत्तिरिति
। एतेनायोगोलक
तद्रूपग्रहणेपि तत्प्रत्ययो दृष्ट इत्येतदपि प्रतिस्फुटं । तदेवं द्रव्यस्य प्रत्य
क्षत्वासिद्धेर्यदुक्तङ्गवाश्वमहिषवराहमातङ्गा
विमत्यधिकरणभावापन्ना रूपादि
व्यतिरिक्ता इत्येव घोषणा । ऐन्द्रियकत्वे सति समस्तरूपादिग्राहकवाक्येन्द्रियान
वच्छेद्यत्वात्प्रीत्यादिवदिति त
दपहस्तितं । प्रयोगाः पुनः । यद् दृश्यं सत्सद्व्यतिरेकेण
नोपलभ्यते तत्ततो भिन्नन्नाभ्युपेयन्नास्तीति वाभ्युपगन्तव्यं । यथा नरशिरसि
विषाणन्नोपलभ्यते च दृश्यं
सन्नीलादिषु तद्व्यतिरेकेण सामान्यविशेषसंयोग
विभागपरत्वापरत्वादिकमिति स्वभावानुपलब्धिः । नास्य सिद्धिः । दृश्यत्वेन
स्वयमभ्युपगमात् । तथा
रूपाद्यर्थपञ्चकव्यतिरिक्तत्वेनोपगतं द्रव्यन्नचक्षुःप्रत्यया
वसेयमुपलब्धिलक्षणप्राप्तत्वेनोपगतत्वे सति नीलादिवस्तुरूपविरहात् । शब्द
37 गन्धरसवत् । न च
27a तस्मादव्यतिरिक्त एवायं तत्र चायन्दोष इत्यागूर्याह । सोतिशयो
व्यवच्छेदलक्षणस्तस्यातिशयवतोऽवस्थातुरात्मभूतोऽनन्वय इत्येकान्तेन निवर्त्त्त
मानः । व्या
पकत्वाभावात्प्रवर्तमानोऽसन्नेव कथन्न स्वभावनानात्वं सुखदुःख
धीरिवाकर्षति । अन्वाकर्षत्येवेत्यर्थः ।प्रयोगो64पुनर्यो यस्यात्मभूतः
स तन्निवृ
त्तावेकान्तेन निवर्त्तते प्रवृत्तौ चासन्नेव प्रवर्त्तते यथा तस्यैवातिशयस्यात्मा ।
आत्मभूतश्चातिशयस्यातिशयवानिति स्वभावहेतुः । ततश्च तयोरवस्थ
योरवस्था
तुर्न्नानात्वम्परस्परविरोधिपर्य्याध्यासितत्वात् सुखदुःखवदितिस्वभावहेतुरेव । न वा
सावतिशयोऽनन्वयः प्रवर्त्तते निव
र्त्तते वाऽतः पुर्वस्मिन् प्रमाणे साध्यविकल
त्वन्दृष्टान्तस्य । उत्तरत्र त्वसिद्धिर्हेतोरिति चेदाह । सान्वयत्वे चातिशयस्य
निवृत्तिप्रवृत्योरं
गीक्रियमाणे का कस्य निवृत्तिः प्रवृत्तिर्वेति 4b4 । नैव
काचित् कस्यचिन्निवृत्तिः प्रवृत्तिर्वा । सर्वस्य सर्वदा सत्वात् । तथा च सर्वं सर्वत्र
समुपयु
ज्येतेत्यादिना पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः । उपचयमाह ।
यदि च कस्यचित् स्वभावस्यातिशयाख्यस्य प्रवृत्तिर्निवृत्तिर्वेति स्वयमभ्यनुज्ञा

यते त्वया । एकातिशयनिवृत्याऽपरातिशयोत्त्पत्या व्यवहारभेदोपगमादित्यभि
धानात् तदेतदेव परस्तथागतवचोऽभ्यासोपजातावदातमति
र्ब्रुवाणः । नानु
मन्यते भद्रमुखेण65भवेदेवं यदि यथामया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायेते तथा
तेनापि । यावतास्य निरन्वयोपजननविनाशोपगमसम
27b त्वाद् द्रव्यस्यालोकनीलादि-
वत्तद्व्यतिरेकेणाप्रतिभासनमभिन्नेंद्रियग्राह्यत्वाद्वा तद्वदेवेत्यतआह । प्रतिभास
मानाश्च विवेकेने
3b1 दं नीलमिदं सुरभि मधुरं कर्कशमिद
मिति चेति प्रत्यक्षा
अर्था दृश्यन्तेऽपृथग्देशत्वेपि सति के ते रूपादयः । लोकप्रसिद्ध्या चेदमुक्तन्न तु
तेषामभिन्नदेशत्वमस्ति । सप्रतिघा दश रूपिण अभिधर्मकोशे १।२९ इति वचनात् ।

था ऽभिन्नेन्द्रिय ग्राहयत्वेपि वातातपस्पर्शादय 3ba इति यथाक्रमं चैतदुत्तरं ।
अनेनैकान्तिकत्वं हेतोरुद्भावयति । उपेत्य च धर्मिसम्बन्धं अभिन्नेन्द्रियग्राह्यत्वस्य
व्यभि
चार उक्तो नत्वसावस्यास्त्येकदेशासिद्धेः । कथं । यतो न सुरभिमधुरादयो
द्रव्यग्राहकेन्द्रियग्राह्याः । सार्वेन्द्रियत्वप्रसङ्गाद् द्रव्यस्य । आलोकनीलादीनां
त्वभेद
एव यतः प्रदीपादिसन्निधानात् प्रकाशरूपा एव तथाविधस्वभावाध्यासित
वपुषस्ते समुद्भवन्ति न तु तेषां भेदोऽस्तीति साधनविकल्पताऽपि दृ
ष्टान्तस्येति
मन्यते । तस्मादस्य प्रत्यक्षत्वमभ्युपगच्छद्भिर्न बहिरवश्यं रूपादिविवेकेन प्रति
38 भासनमभ्युपगन्तव्यमन्यथा प्रत्यक्षत्वासिद्धेः । कुतो य
स्मादिदमेवेत्यादि सुबोधं ।
अयम्पुनर्घटादिर्भवद्भीरूपादिव्यतिरेकेणाभ्युपगतः । को सावमूल्यदानक्रयीयः ।
तदेतेन नायमीदृशो लोकव्यवहारपद्धति
मवतरतीत्याचष्टे । स स्वरूपञ्च
नोत्कर्षेण दर्शयत्यप्रतिभासमानत्वाप्रत्यक्षताञ्च स्वीकर्त्तुमिच्छति दार्शनं स्पार्श
नञ्च द्रव्यमिति सिद्धान्ते पाठात् । इत्येतदात्मनि
रन्तरप्रेमाणः सुहृदः प्रत्येष्यन्ती
त्त्यध्याहर्त्तव्यं । मूल्यदानक्रया विद्यन्तेस्येति मूल्यदानक्रयी न तथेति वृत्तिः । अथवा
क्रेतुं शीलं यस्यासौ क्रयी मूल्यदानेन क्र
28a यी न तथा । कथमेतदित्याह । यः प्रत्यक्षता
3b2 मित्यादि । मूल्यदानञ्चात्र स्वरूपार्पणमित्युपहसति ।


ननु चैको घट इति प्रत्ययव्यपदेशसद्भावाद्रूपादिवत् तदस्त्येव । तत्कथ
मस्यासत्वमिति चेदाह बुद्धिशब्दादयोपि व्याख्या ता न च सर्व्व इत्यादिना । आदि
शब्देन तद्भेदाभेदोपादानं । यदि तैर्वुद्धिव्यपदेशादिभिस्तस्य साधनसिद्धि

रिष्यते । स्यादेतत्प्रतिभासमानमपि द्रव्यं लवणरसाभिभवे खण्डरसवन्नोपलक्ष्यते ।
ततस्तत्प्रसाधनाय लिङ्गमुच्यत इत्यत आह । न च प्रत्यक्षस्यार्थस्य रूपानुप

क्षणं
3b3 युक्तं । द्रव्यान्तरेणानभिभवे सति । अभिभवे तु युक्तमेव । यथा
खण्डादिरसस्य । न चात्र केनचिदभिभवोस्ति । नीलादिभिरस्तीति चेति । न
महत्यने
कद्रव्यवत्ताद्रूपाच्चोपलद्धिः । तथा रूपसंस्काराभावाद्या वानुपलब्धि
रित्युक्तं । तस्य चानुपलक्षणे तेषामप्यनुलक्षणप्रसङ्गः । ततश्च स
र्व्व
पदार्थानामनुपलक्षणाल्लोकव्यवहारोच्छेद एव भवेदिति मन्यते । येनानुपलक्षणेन
तस्यावयविनः साधनाय लिङ्गमुच्यते । तद्भावसाध
नञ्च लिङ्गमभ्युपगम्येत
तद्भाष्यते न तु तद्गमकं लिङ्गं किञ्चिदप्यस्ति । यथोक्तम्प्राक् । तत्प्रतिपादक
प्रमाणाभावेपि तदस्त्येवेति चेदाह अप्रत्यक्षत्वेप्यप्रमाण
स्य सत्वोपगमो
ऽयुक्त
3b3 इति । अप्रमाणस्येत्यनेन प्रत्यक्षव्यतिरिक्ततत्प्रसाधकप्रमाणा
भावमाह । यस्य सद्भावसाधकं प्रमाणं नास्ति न तदस्ती त्यङ्गीकर्त्त
व्यं । यथा
नभस्तले कमलं नास्ति चावयविनोऽस्तित्वसाधकं प्रमाणमिति सद्व्यवहारप्रति
षेधफलामनुपलब्धिं मन्यते । एवं विस्तरेणैकद्रव्याभावं प्र
28b तिपाद्य प्रकृतमुप
39 संहरति । तदि त्यादिना । मूलप्रकरणमपि निगमयति । एवन्ताव दि 3b3
त्यादिना । अत एव न तेषाम्बुद्ध्यादीनाम्विपर्ययात्तेषां सत्तादीनाम्वि
पर्ययोऽभावः ।
योहि यस्य भावमेव न साधयति स कथमिव वर्त्तमानस्तदभावं साधयतीत्याकूतं ।
यदि नाम बुद्ध्यादयः सत्ताम्भेदाभेदौ वा न साधयन्त्यर्थक्रि
या तु तान्साधयिष्यतीत्यत
आह । अर्थंक्रियातस्तु सत्ताव्यवहारः स्यादि 3b4 ति तल्लक्षणत्वात् सत्त्वस्येति
भावः । अनेनावयोरत्र साम्यमेवेति दर्शयति । अन्य
त्र तु विवाद इत्याह । न सत्ता
भेदाभेदव्यवहार
3b4 इति । कुत एकस्याप्यनेकार्थक्रियादर्शनात् । तत्र नैक
प्रत्ययजनितं किञ्चिदस्ति तत्कथ
मेवमुच्यते । सत्यमेतदेकं तु बहवीषु सामग्रीषु
वर्त्तत इत्यनेकार्थकृदित्युच्यते । यदाह ॥


न किञ्चदेकमेकस्मात् सामग्र्या सर्व्वसम्भवः ।

एकं
स्यादपि सामग्र्योरित्युक्तं तदनेककृदिति ॥ ११

किम्वत् । यथा प्रदीपस्य विज्ञानस्य वर्त्तिविकारस्य ज्वालान्तरस्य च स्वपर
सन्तानसम्बन्धिक्षणान्तरस्यो
त्पादनानि तदेवं सत्ताभेदव्यवहाराभावे कारणं ।
कथमेकमनेकं कार्यमुत्पादयतीति चेति । एकस्यैव ईदृशस्यानेककार्यजननात्तुर्या
तिशयक्रोडी
कृतं रूपवतः स्वहेतुभ्यः संजातत्त्वादिति भावो न्यायतत्त्वविदः ।
तथानेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात् । अभेदव्यवहाराभावे कार

णमेतत् । कणभु ग्मतविपर्यासितधियस्त्वाहुः । न ब्रूम इत्यादि । किन्तर्ह्यदृष्टार्थ
क्रियाभेदेन सत्ताभेद इति वर्त्तते । तदेव व्यनक्ति । यार्थक्रिया 3b6 मध्वाद्या
29a
हरणादिलक्षणा तस्मिन्घटादावदृष्टा सती पुनर्दृश्यते । अन्यत्र घटादौ ।
सैवम्विधा सत्ताभेदं साधयति । तेषां घटादीनामनेन व्याप्तिः कथिता । किमिव ।

यथा पटेऽदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमाना 3b7 सत्ताभेदं साधय
तीति प्रकृतेनाभिसम्बन्धः । दृष्टान्तकथनं चैतत् । अदृष्टा च तन्तुषु प्रावरणद्य
र्थ
40 क्रिया पटे दृश्यत इति
3b7 पक्षधर्मोपदर्शनमिति । तस्मात् सत्ताभेदस्तन्तु
पटयोः सिद्ध इति शेषः । तदनेन साधनफलं सङ्कीर्तितं । स्वभावहेतुश्चायं
यस्मात्तद
दृष्टार्थक्रियाकरणमात्रानुबन्धी सत्ताभेद इति । तदेतेन तन्तुभ्यः पटस्यान्यत्वं
साधयन्नर्थान्तरभूतावयविसिद्धिं मन्यते ॥ आचार्यस्त् वाह ॥ सिध्यत्येवं तन्तु
पटयोः सत्ताभेद
इति प्रकृतं ॥ वांछितार्थसिद्धिस्तु भवतो नैवास्तीत्यभिप्रायवा
नाह । अर्थान्तरन्तथाप्यवयवी न
सिध्यतीति
3b7 कुत एतद्यतो यथाप्रत्यय
मस्यां संस्कारसंततौ स्वभावभेदोत्पत्तेः कारणादर्थक्रियाभेदः प्रावरणादिलक्षणो
भवति ।
एतदुक्तं भवति पिण्डीकृतेभ्यस्तन्तुभ्य उपादानकारणभूतेभ्यः
कुविन्दादिसहकारिप्रत्ययसन्निधानाच्च विशिष्टसन्निवेशावच्छिन्ना एव
तन्तवो जायं
ते । ये प्रावरणाद्यर्थक्रियायामुपयुज्यन्ते । तेभ्यश्च पूर्व्वेभ्यः पटस्या
न्यत्वमिष्टमेवास्माभिरपि । न तु विशिष्टसंस्थानावच्छिन्नेभ्य इति त्यज्यतामियमर्था
न्तरा
29b वयविसिद्धिप्रत्याशेति । तदेतेनैवा विद्धकर्ण्णो क्तं पूर्व्वोत्तरकालभावित्वादित्यादि
तत्साधनमपहस्तितं वेदितव्यं । अस्माभिस्तु विस्तरेण प्राक् प्रयुक्तमेवेति ।
न पुनर्योज्यते । किम्वत् प्रत्ययवसात्66स्वभावविशोषोत्पत्ते रर्थकिया
भेद
3b7 इत्याह । अरणिनिर्मथना 3b7 दित्यादि सुज्ञानं दृष्टान्तं प्रदर्श्य
दार्ष्टान्तिकमाह । तथा यथे 3b8 त्यादि
। अनेनैव यथाप्रत्ययस्वभावभेदेन
यदेके चोदयन्ति । ननु च तन्तवः पट इति बुद्धिव्यपदेशभेदात् । कथमस्यान्यत्वं
नास्तीति तत्प्रतिक्षिप्तमित्याकूतवानाह
एतेन बुद्धिव्यपदेशभेदौ व्याख्याता
विति
3b8 । तत्रैवं स्थिते यदुक्तं प्राक्त्वयाऽर्थक्रियातः सद्व्यवहारसिद्धिर्भवति
विपर्ययाच्चार्थक्रिया निवृत्ते विपर्ययोऽसद्व्यवहार
इति सत्यमेतत् । एतावत्तु
ब्रूमः । स एव विपर्ययोऽर्थक्रियाया अनुपलब्धिलक्षणप्राप्तेषु न सिध्यति । तथाहि
यद्ययमुपलब्धिलक्षणप्राप्तानुप
लम्भो नेष्यते तदास्यार्थक्रियासामर्थ्यं नास्तीति
कथमधिगतं भवता न चानुपलब्धिमात्रादिति युक्तम्वक्तुँ । तस्य व्यभिचारात् ।
41 तत्र पुनरनिच्छतो
प्यायातं तव । यस्येदमर्थक्रियासामर्थ्यमुपलब्धिलक्षणप्राप्तं
सन्नोपलभ्यते सोऽसद्व्यवहारविषय इति । कुतः सामर्थ्यलक्षणत्वात् सत्वस्य

भवत्वेवङ्को दोष इति चेदाह । तथापि कोतिशयः 3b10 पूर्व्वकादस्मादुप
वर्णितादुपलभ्यानुपलम्भात् । अस्य सामर्थ्यानुपलम्भस्य भवत्परिकल्पितस्य ।
स्यात् म
तं स स्वभावस्यैवानुपलम्भोऽयं तु पुनः सामर्थ्यस्येत्यत आह । न ही3b10
त्यादि । तथा च तस्य सामर्थ्यस्य योनुपलम्भः स स्वभावस्यैव इति तस्मात्
पूर्वकैव स्वभावा
नुपलब्धिरेवेयं सामर्थ्यानुपलब्धिः । तस्माद् दृश्यानुपलब्धिरेवा
सद्व्यवहारसाधनेति स्थितमेतत् । यस्माच्चैवन्तस्मादनेन वादिना क्वचिच्छश
विषाणादावसद्व्यव
30a वहारमभ्युपगच्छता दृश्यानुपलम्भादभ्युपगन्तव्यो-
ऽन्यस्य तत्प्रतिपत्त्युपायस्याभावादिति भावः । ततः सोनुपलम्भोऽन्यत्रापि सामान्य
विशेषसंयोगावय
विद्रव्यादौ तथाविधे उपलब्धिलक्षणप्राप्ते अविशेष इति
सोपि सामान्यविशेषादिस्तथास्त्वसद्व्यवहारविषयत्त्वेनास्तीत्यर्थः । स्यादेतन्नैव
सामान्यविशे
षादिस्तथाविधोनुपलब्धोस्य सद्व्यवहारविषय इत्यत आह । न वा
क्वचिच्छशविषाणादावसद्व्यवहारो ऽभ्युपगन्तव्यः । कुतो विशेषाभावादनुप
लम्भस्य
। अयमत्रार्थो द्व्योरनुपलम्भे तन्निमित्ते तुल्येपि यद्यसद्व्यवहारः
सामान्यादौ नोत्पद्यते । अन्यत्रापि तर्हि स नाभ्युपेयो विशेषहेत्वभावादि
त्यनेन च
पूर्व्वोक्तमेव कस्य चिदसतोभ्युपगमे तल्लक्षणाविशेषादिति स्मारयति । तस्मा
त्सर्व्व एवंविधो दृश्यानुपलम्भोऽसद्व्यवहारस्य वि
षय
4a2 इति व्याप्तिः ।
अनुपलब्धौ सिद्धेतिशेषः ॥ ० ॥


42

कापिला स्त्वाहुः । सर्व्वमेव सर्व्वात्मकं अन्यथा यदि मृत्पिण्डदुग्धबीजादिषु
घटदध्यङ्कुराद
यो न विद्यन्त एव शक्त्यात्मना तदा कथं पुनस्तेभ्यस्तेषामुत्पत्तिः ।
नहि शशविषाणमविद्यमानन्तत्रोदेति । एवञ्च सति दृश्यः सन्ननुपलब्धोपि कश्चिद्
घटा
दिः क्वचिद्देशादौ कथञ्चिच्च संस्थानविशेषादिना नैवाभावव्यवहारविषयो
भवतीति तेषां मतमासङ्क67ते । नैवे 4a3 त्यादिना ।


एतत् साङ्ख्यपशोः कोन्यः सलज्जो वक्तुमीहते ।

अदृष्टपूर्व्वमस्तीति तृणाग्रे करिणां शतम् । १२ प्रमाणवार्त्तिके २ परि०

इत्यभिप्रायवानाह । सर्व्वस्ये 4a3 त्यादि । यद्यदृष्टमपि तत्रास्ति तदा
सर्व्व एव क्षीरादयः सर्व्वे र्घटादिरूपै
30b रनुमतत्वात् तत्साध्यामर्थक्रियाङ्कुर्युरित्यर्थः ।
किञ्चेदमपरं न स्यादिदन्दध्यादिकार्यमतः क्षीरादेर्भवति नान्यतो जलादेः ।
यदि वा नातः क्षीरादेरिदं मध्वादि
कं तथेदङ्कुङ्कुमादिकमिह कस्मीरा68 दिदेशे नेदमिह मालवकादि देशे यदि वा नेदं चन्दनादिकमिह । तथेदङ्कु
न्दादिकमिदानीं शिशिरसमये नत्विदमि
दानीन्निदाघकाले । अथवा नेदं कमलादिक
मिदानीन्तथेदं खण्डादिकमेवं माधुर्यादिगुणविशिष्टं । नेदमेवङ्कटुकादिरूपं ।
यद्वा नेदं निम्वादिकमे
वमिति व्याख्यातव्यं किङ्कारणमेवमेतदित्यत आह ।
कस्यचिदपी 4a4 त्यादि । इदमेवम्बिधमधुनास्य रूपन्नास्तीति योयम्विवेको
ऽभावस्त
स्य हेतोरभावात् । सर्व्वस्य सर्व्वरूपाणां सर्व्वदानुवृत्तेरिति मतिः । नन्विद
मनन्तरमेव वस्तुतोऽभिहितमेव सर्व्व सर्व्वत्र सर्व्वदा समुप
युज्येतेत्यत्र तक्तिमिदं
पुनश्चर्वितचर्व्वणमास्थीयत इति चेत् । सत्यं पूर्वं कारणगतो व्यापारः कथितो
ऽधुना तु कार्यगत इति विशेषा
ददोषः । इदञ्चान्यतरमुखेण69दूषण
वचनं शिष्यव्युत्पादनाय । ततश्च भेदाभावान्न विद्येते अन्वयव्यतिरेकौ यस्मिं
निति विग्रहः । इदमत्रास्तीत्या
द्यन्वयो नास्तीति व्यतिरेकः । परः प्राह
अवस्थेत्या दिना । एतदुक्तम्भवति । यत्र यद् व्यक्तन्तत्तत्रास्तीत्यादि व्यवहिरयते
43 यत्र तु यन्नैव व्यक्तन्तत्र तन्नास्तीत्यतो
ऽयमदोष इति । नत्वि 4a5 त्याद्याचार्यः ।
‘त एवावस्थानिवृत्तिप्रवृत्तिभेदा न सम्भवन्ति तावकीने दर्शने । कुतः सर्व्वविषयस्या
सद्व्यवहारस्याभावात् । अथापि क्वचि
31a द्विषयेऽसदव्यवहार इष्यते तदा तस्य कारणं
भवद्भिर्वक्तव्यमित्याह । क् वचिदि 4a5 त्यादि । यदि वावश्यमनेन क्वचित्परि
कल्पिते व्यतिरिक्तावयव्यादावसद्व्यवहारों
गीकर्त्तव्यः । स चास्य न युक्तो
हेत्वभावादित्याह । क्वचिदि त्यादि । कुतः । यस्मान्नहि अनुपलम्भादन्यो व्यवच्छे
दस्याभावस्य हेतुरस्ति प्रसाधक इति शेषः । स च त्वया
नेष्टक इति भावः । कस्मा
देवं यतो विधिना स्वभावविरुद्धोपलम्भादौ प्रतिषेधेन व्यापकानुपलम्भादौ व्यवच्छेदे
साध्येऽनुपलम्भस्यैव सर्व्वदा साधकत्वात् । अथा
हमप्यस्मादेवानुपलम्भाद् व्यव
च्छेदं साधयामीति ब्रूषे तदत्रापि ब्रूम इत्याह । सोनुपलम्भो यत्रैवास्ति स सर्व्वो
ऽसद्व्यवहारविषय
4a6 इति वक्तव्यं ॥
किमिति विशेषाभावात् । तथा
चघटादि70रपि क्वचित्प्रदेशविशेषादावसद्व्यवहारविषयत्वं सिद्धं ।
तथाविधस्यानुपलम्भस्यात्रापि भावात् तत्किं
ब्रूषे । नैव क्वचित् कश्चिद् दृष्टो
प्यसद्व्यवहारविषय इति अभिप्रायः । अन्यथा अत्रापि व्यतिरिक्तावयव्यादौ
मा भूदसद्व्यवहार इति यावत् ।


सर्व्व
प्रमाणनिवृत्तिरि
4a7 त्यादि परः । तथा चायुक्तं उक्तं । नहि
अनुपलम्भादन्यो व्यवच्छेदहेतुरस्तीति । एवञ्च सति न घटस्यापि क्वचिदसद्व्यव
हारविषयत्वमा
गमानुमानभावेन सर्व्वप्रमाणनिवृत्तेरेवाभावादिति मन्यते ।
कुतः पुनरिदमतिप्रज्ञाकौशलमासादितं भवतेत्यागूर्योपहसति । सुकुमारप्रज्ञ 4a7
इत्या
दिना । न प्रसहते प्रमाणचिन्तापरिक्लेश 4a7 मिति सुकुमारप्रज्ञत्वे
कारणं ।


ननु च किमत्रायुक्तमुक्तमस्माभिर्येनोपहससीत्याह । नही 4a8 त्यादि ।
अदिश
31b ब्देनागमपरिग्रहः । व्यभिचारश्च पूर्वमेव प्रतिपादितः । सर्व्वप्राणि
प्रत्यक्षनिवृत्तिस्तर्हि गमयिष्यतीत्याह । न सर्व्वप्रत्यक्षनिवृत्तिरि 4a8 ति ।
44 कुतोऽसिद्धेः । आत्मपर
योरप्रतिपत्तेरित्यर्थः । न ह्यत्र सर्वेषाम्प्रत्यक्षन्निवृत्तमिति
निश्चये प्रमाणमस्ति किञ्चित् । आत्मप्रत्यक्षनिवृत्तिरेव तर्हि गमयतीति चेदाह ।
नात्मप्रत्यक्षा विशे
षनिवृत्तिरपी
4a8 ति न केवलं पूर्वोक्तेत्यपि शब्दः ।
अविशेषेण निवृत्तिरविशेषनिवृत्तिः । आत्मप्रत्यक्षस्याविशेषनिवृत्तिरात्मप्रत्यक्षा
विशेषनिवृत्तरिति
व्युत्पत्तिक्रमः । सन्निहितसकलतदन्यकारणस्य त्वात्म
प्रत्यक्षस्य निवृत्तिस्त्रिविधविप्रकर्षाविप्रकृष्टेऽभावङ्गमयत्येवेति कथनीयाविशेष
वि
प्रकृष्टवचनं । यस्मात् सर्व्वप्रमाणनिवृत्तिर्न्नासद्व्यवहारहेतुस्तस्मात् स
स्वभावविशेषस्त्रिविधविप्रकर्षाविप्रकृष्टरूपो भावो यतः प्रमाणात्सं
निहित
समस्ततदन्यत्क्रियादिकारणात् प्रत्यक्षान्नियमेन सद्व्यवहारम्प्रतिपद्यते समासाद
यति । तस्यैव यथोक्तस्य प्रमाणस्य निवृत्तिस्तस्य स्व
भावविशेषस्यासद्व्यवहारं
प्रसाधयति । अवधारणमनुमानावगमादिनिवृत्तेर्व्यवच्छेदाय । किङ्कारणन्तस्य
स्वभावविशेषस्य स्वभावसत्तायास्तस्य यथो
क्तस्य प्रमाणस्य येयं सत्ता तया व्याप्तः
कारणात् । तथाहि यत्र स तादृग्विधः पदार्थस्तत्रावश्यं तेनापि प्रमाणेन भवितव्यं ।
समर्थस्य कारणस्य कार्या
व्यभिचारात् । एवञ्चैतत्प्रमाणं तद्व्यापकत्वान्निवर्त्त
मानं तामपि वृक्षवच्छिंशपां निवर्त्तयति । अनेन च यथोक्तादनुपलम्भादित्याद्युक्त
मुपसंहरति स्यादेत
32a दुपलब्धिलक्षणप्राप्तमपि क्षीरादिषु दध्यादिकं न प्रत्यक्षे

णोपलभ्यतेऽपि त्वनुमानेनाशक्तादनुत्पत्तिरिति । अतो न तन्निवृत्याप्यसद्व्यवहार
विषयत्वन्तस्येत्यत आह । न चे 4a9 त्यादि । येनान्योपलब्धित्वेनानुमाना
दस्यो
पलब्धिः स्यात् । किम्पुनरन्योपलब्धिर्न युज्यत इत्याह । न चेत्या दि । यस्मादर्थे
चकारः । तस्य रूपस्योपलब्धिलक्षणप्राप्तस्यान्यथाभावप्रच्युतिर्न्न तमन्त
रेणा
प्रत्यक्षः स भावो युक्त इति शेषः । तदेतेन प्रत्यक्षमेव तस्योपलब्धिरपेक्षणीयस्य
कस्यचिद्धेतोरभावादिति प्रसाधयति । प्रयो
गः पुनः । यद्यदासन्निहितसकला
प्रतिबद्धसामर्थ्यकारणन्तत्तदा भवत्येव न चाक्षेपकारि । यथा समग्राप्रतिहत
सामर्थ्यकारणसा
मग्रीकोङ्कुरः । तथा च क्षीराद्यवस्थासु यथोपदिष्टपक्षधर्मवद्
दध्यादिविषयं ज्ञानमिति स्वभावहेतुः । द्वितीयसाध्यापेक्षया व्यापकवि
रुद्धोप
45 लब्धिः । अन्यथा त्वन्तस्य भवत्येवातोयं हेतुरसिद्ध इति चेदाह अन्यथा भावे
चेष्यमाणे तदेवो पलब्धिलक्षणप्राप्तं दध्यादि न स्यात् 4b1 प्राच्यरूपात् प्रच्यु
तेः ।
तथा च तद्रूपतायां निरन्वयविनास71प्रसङ्ग इति भावः । अपि चे
4b1त्यादिनोपचयमाह । यदयम्भावः । अजातोऽनष्टश्च रूपातिशयो
स्येति विग्रहः
नित्यमेकत्वरूपत्वाद् द्रव्यान्तरेण व्यवधाने दूरदेशस्थितौ च भवे
युरपि प्रत्यक्षाप्रत्यक्षत्वादय इत्यत आह । अव्यवधानदूरस्थान 4b1 इति ।
न विद्यते व्यवधानदू
32b रस्थाने चास्येति विग्रहः । क्वचिदव्यवधानादूरस्थान
इति पठ्यते । तत्र व्यवधानदूरस्थानशब्दयोः प्रत्येकं नञा समासं कृत्वा पश्चाद्
विशेषणसमासः कार्यः । कञ्चित्पुरुषमपेक्ष्य कोपि प्रत्यक्षोऽन्यञ्चापेक्ष्य प्रत्यक्ष
इति न विरोध इत्याह । तस्यैव 4b2 । तस्याप्युन्मीलितलोचनाद्यवस्थायां
प्रत्यक्षोऽन्यदा चाप्रत्यक्ष इति न
काचित् क्षतिरित्याह । तदवस्थेन्द्रियादेरेव
4b2 तदवस्थमविकृतमिन्द्रियमस्येति विग्रहः । आदिग्रहणं मनस्काराद्याक्षेपाय ।
कदाचिदभिव्यक्तवेलायां
प्रत्यक्षो भवति कदाचिच्चानभिव्यक्तक्षीरादिवेला
यामप्रत्यक्षश्चेति येन प्रत्यक्षाप्रत्यक्षत्वेन कदाचिदनुमानस्योपलब्धिरशक्तादनुत्प
त्ते
रिति । कदाचित्तु व्यक्तावस्थायां प्रत्यक्षं । किं पुनरत्रायुक्तं । येनैवं ब्रूष
इति चेदाह । एकस्मिन्नेवानतिशये दध्यादावमीषां प्रकाराणाम्प्र
त्यक्षाप्रत्यक्षत्त्वा
दीनां विरोधादिति 4b2 । ये परस्परविरुद्धरूपा न तेषामेकत्रानतिशये सम्भवः ।
तद्यथा शीतोष्णस्पर्शादीनां । परस्परविरु
द्धाश्च प्रत्यक्षाप्रत्यक्षत्वादयः । इति
व्यापकविरुद्धोपलब्धिम्मन्यते ॥


परः प्राह ॥ नानतिशय 4b3 इति । एकस्याव्यक्तावस्थालक्षणस्या
तिशयस्य निवृत्याऽपर
स्य व्यक्तावस्थालक्षणस्योत्पत्या च क्षीरं दधीति
व्यवहारस्योपगमात् । अनेनाजातानष्टरूपातिशय इत्यादेरसिद्धत्वमाह । न
तावदयमतिशयो भवद्भिरति
शयवद् भावव्यतिरिक्तोऽभ्युपगतोऽभ्युपगमे
वा तदवस्थोऽनन्तराभिहितो दोषः स्यात्
33a तस्मादव्यतिरिक्त एवायं
तत्र चायन्दोष इत्यागूर्याह । सोतिशयो व्यवस्थालक्षणस्तस्यातिशयवतोऽवस्थातु
46 रात्मभूतोऽनन्वय इत्येकान्तेन निवर्त्तमानः । व्या
पकस्वभावात्प्रवर्त्तमानोऽसन्नेव
कथन्न स्वभावनानात्वं । सुखदुःखयोरिवाकर्षति । अन्वाकर्षत्येवेत्यर्थः ।प्रयोगो72पुनर्यो यस्या त्मभूतः 4b3 स तन्निवृ
त्तावेकान्तेन निवर्त्तते प्रवृ
त्तौ चासन्नेव प्रवर्त्तते यथा तस्यैवातिशयस्यात्मा । आत्मभूतश्चातिशयस्यातिशय
वानिति स्वभावहेतुः । ततश्च तयोरवस्थ
योरवस्थातुर्न्नानात्वं परस्परविरोधि
धर्माध्यासितत्वात् सुखदुःखवदिति स्वभावहेतुरेव । नैवासावतिशयोऽनन्वयः
प्रवर्त्तते निव
र्त्तते वाऽतः पूर्वस्मिन्प्रमाणे साध्यविकलत्वन्दृष्टान्तस्य । उत्तरत्र त्व
सिद्धिर्हेतोरिति चेदाह । सान्वयत्वेचा तिशयस्य निवृत्तिप्रवृत्योरं
गीक्रियमाणे
का कस्य निवृत्तिः प्रवृत्तिर्वेति 4b3 । नैव काचित्कस्यचिन्निवृत्तिः प्रवृतिर्वा ।
सर्व्वस्य सर्व्वदा सत्त्वात् । तथा च सर्व्वं सर्व्वत्र समुपयु
जे73तेत्यादिना
पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः । उपचयमाह । यदि च कस्यचित्
स्वभावस्यातिशयाख्यस्य प्रवृत्तिर्निवृत्तिर्वेति स्वयमभ्यनुज्ञायते
त्वया । एकाति
शयनिवृत्याऽपरातिशयोत्पत्या व्यवहारभेदोपगमादित्यविधानात् । तदेतदेव
परस्तथागतवचोऽभ्यासोपजातावदातमति
र्ब्रुवाणः । नानुमन्यते भद्रमुखेण74भवेदेवं यदि यथा मया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायेते तथा तेनापि ।
यावतास्य निरन्वयोपजननविनाशोपगमो मम
33b त्वाविर्भावतिरोभावमात्रन्तत्कथमिवा
नुमन्यत इति कदाचिद् ब्रूयात्पर इति तन्मतमाशङ्कते । तस्ये 4b4 त्यादिना ।

सदैव भवद्भिः शून्यहृदयैरयमन्वयो घोष्यते । तत्र वक्तव्यङ्कोयमन्वयो नाम
भावस्य जन्मविनाशयोरिति सत्त्यं एषा । परः प्राह किमत्राभिधानीयं याव
ता शक्तिरन्वयो भावस्य जन्मविनाशयोरिति व
र्त्तते । कथम्पुनः सान्वय इत्याह ।
यतोस्त्येव प्रागपि जन्मनो निरोधादप्यूर्ध्वं 4b5 सा शक्तिरवस्थातृलक्षणा
येनैतदेवन्तेनायम्भावो नापूर्वः सन् सर्वथा जायते
अपि तु शक्तिरूपेण पूर्व्वं व्यवस्थित
एव केवलमाविर्भवतीति सर्व्वथाग्रहणेन ज्ञापयति । तथा न पूर्व्वो विनश्यत्येकान्ते
नापि तु तिरोभवति ।
असतो नास्त्युदयः सतश्च नास्ति विनाश इति यावत् ।
47 आचार्य आह । यदि सा शक्तिः सर्व्वदा 4b6 तिरोभावाविर्भावकालेऽ नतिशयाति
शय
रहिता एकरूपे
ति यावत् । तदा किमिदानीं अतिशयवद्विद्यते । यत
कुतोयं व्यवहारविभागः क्षीरन्दधितक्रमित्यादि । साङ्ख्य आह ।
अवस्था अति
शयवत्य
4b6 इति । ता 4b6 इत्याद्या चार्यः । विकल्पद्वयञ्च प्रकारान्तरा
सम्भवात्कृतं । न वाहरीकवादो युज्यते तत्स्वान्यत्वयोः परस्परपरिहारस्थि
ति
लक्षणतया तृतीयराशिव्यतिरेचकत्वात् । एकत्वे को दोष इति चेदाह एकश्चे
त्तदा कथमिदमेकत्राविभक्ता
त्मन्यविभक्तस्वरूपे योक्ष्यते 4b7 । व्यपेक्षया

वेदपीत्याह । निष्पर्यायं किम्पुनस्तत्परस्परव्याहत इत्याह जन्म अवस्थानाम
जन्मशक्तेः
। तथार्थक्रियायामुपयोगोऽवस्थानां शक्तस्त्वनुपयोग 4b7
34a ति ।
प्रयोगाः पुनः शक्तेरपि जन्मास्ति । अवस्थाभ्योऽव्यतिरेकात् । अवस्था
स्वरूपवत् । अवस्थानाम्वा न जन्म शक्तेरव्यतिरेकात् । शक्तिस्वरूपवत् ।
स्वभावहेतुविरुद्धव्याप्तो
पलब्धि । एतेनैव प्रकारेणार्थक्रियोपयोगानुपयोगनिवृत्य
निवृत्यादिषु स्वभावहेतुविरुद्धव्याप्तोपलब्धयो योज्याः । आदिग्रहणेन पतनापतन
पोरपि परिग्रहः ।


पु
नरपि साङ्खीय म्मतमाशङ्कते । अस्ती त्या 4b8 दिना । केनचित्पर्या
येण अवस्थाशक्त्योरनन्यत्वम्परमार्थतस्तु भेद एव तेन जन्मादीनामविरोध इति ।
नूनम्भवतः स्वपक्षरक्षणा
कुलबुद्धेरात्मापि विस्मृतः । इत्याकूतवानाह । विस्मरण
शील
4b8 इत्यादि । यतोऽनन्यत्वपक्षेऽयन्दोषोस्माभिरुक्तोऽन्यत्वपक्षेत्वन्य
एव भविष्यति । कः पुनरसावन्य
इति तमेवदर्शयितुमुपक्रमते । अथाप्यनयोः
शक्त्यवस्थयोर्विभागोऽन्यत्वन्तदा न कश्चिद्विरोधः । केवलं सान्वयो भावस्य जन्म
विनासा75दिति न स्यात् । किं
कारणं । यस्मात् यस्यान्वयः शक्ति
त्वेनाभिमतस्य न तस्य जन्मविनाशौ नित्यमेकस्मिन्नेव स्वभावे व्यवस्थानात् । यस्य
48 वा ता उत्त्पादविनाशाववस्थात्वेनाभी
ष्टस्य न तस्यान्वयः । अपरापरावस्थो
दयास्तमयेनावस्थितरूपाभावात् । तयोः शक्तिव्यक्तयोरभेदाददोष इति कापिलः ।
अनुत्तर
4b10 मित्याद्याचार्यः । किमत्रायुज्यमा
नकं येनैवं वदसीत्याह । अभे
दो हि नामैक्यमुच्यते
4b10 । तौ शक्तिव्यक्तिभेदा वित्ययञ्च भेदाधिष्ठानो
न्यत्वनिबन्धनो व्यवहारो भाविक इति कल्पनाविरचितस्याप्रतिक्षे
पात् । किञ्च
निवृत्तिप्रादुर्भावयोः सतोरनिवृत्तिप्रादुर्भावौ तथा स्थितौ सत्यामस्थितिः । आदि
ग्रहणाद् गतावगतिरित्यादि योज्यं । एतद् भेदलक्षणङ्कथं योज्यते भ
34b वता । तथा
ह्यवस्थानिवृत्तिप्रादुर्भावाभ्यामनिवृत्तिप्रादुर्भाववत्याः शक्तेरभेदो नेष्यते त्वया ।
तथा शक्तेरवस्थानेपि नावस्थानामवस्थानं । न च शक्तेस्तासामन्यत्वमिष्टं

तस्मादेवं रूपं नानात्वमित्याह । एष हि निवृत्तिप्रादुर्भावयोरनिवृत्तिप्रादुर्भाव 5a1
इत्यादिभेदः । तथा हि यन्निवृत्यादिना न यस्य निवृत्यादयस्तत्तस्माद् भिन्नं यथा
ता
लतरुस्तमालादित्यतिप्रतीतमेतत् । एतद्विरहश्चाभेद इति यन्निवृत्या यस्य
निवृत्तिरित्यादि । ननु च भूतभौतिकचित्तचैत्तादीनाम्प्रतिनियतसहोत्पादनिरो

स्थितीनामेतद्विद्यते । न च तेषामभेदस्तत् कथमुक्तमेतद्विरहश्चाभेद इति चेत् ।
न तेषाम्भिन्नोत्पादादिमत्वात् । यथाक्रममुदाहरणद्वयमाह । यथे
त्यादि । अन्य
थे 5a1 ति । यद्यनन्तरोक्तम्भेदाभेदलक्षणन्नाश्रीयते तदा भेदयोर्लक्षणा
भावात्कारणाद् भेदाभेदयोरव्यवस्था स्यात् । सर्व्वत्रेति सुखादीनाम्परस्परं
चैतन्या
नाञ्च । सुखादिभ्यश्चैतन्यानां अभेदः । सुखादीनाम्प्रत्येकम्भेदो न भवेदिति
यावत् । तदात्मनीत्यादिना परः स्वसमयप्रतीतम्भेदाभेदयोर्लक्षण
माह । तेना
49 विरोध
5a3 इति जन्माजन्मादीनां । अनन्तरोक्तस्य वा । न वै मृदात्मनीत्या
दिना मृप्तिण्डघटयोराधाराधेयभावं प्रतिक्षिपति’ । किन्तर्हि मृदात्मैव कश्चित्

विशिष्टग्रीवादिसन्निवेशावच्छिन्नो घट इत्यभीधीयते नन्वेकमेव मृद्द्रव्यं सर्व्वत्र
तत्कथमिदमभिहितमित्यत आह । नहि एकस्त्रैलोक्यमृदात्मे 5a3 ति । कुतः
प्रतिविज्ञ
प्तिप्रतिभासभेदन्द्रव्यस्वभावभेदादिति सम्बन्धः । अन्योन्यभिन्नानामेव
द्रव्याणाम्विज्ञाने प्रतिभासनादित्यर्थः । तथा प्रत्यवस्थाभेदभिन्नावस्थत्वात् ।
प्रत्यर्थ
35a क्रियाभेदं चाश्रित्य द्रव्यस्वभावभेदात् । परस्परासम्भविकार्यकारणा-
दिति यावत् । परस्यापि सत्वरजस्तमश्चैतन्येषु भेदाभ्युपगम इदमेव कारणं
युक्तमिति कथय
न् नाह । एवं हीति 5a4 । यदि प्रतिविज्ञप्तिप्रतिभास
भेदादिना भेद इष्यते । चैतन्येषु चेति बहुवचनं बहवः पुमांस इति सिद्धान्तात् । यद्येव
मिति प्रतिविज्ञप्ति प्र
तिभासभेदादिना । पुनरप्याह । सत्यप्येतस्मिन् प्रतिविज्ञप्ति
प्रतिभासभेदादौ कस्यचि दात्मन 5a4 इति शक्तेरनुगमादैक्यमवस्थानामिति ।
आचार्य आह । यद्ये
वं सुखादिष्वप्ययमेवाभेदप्रसङ्
गश्चैतन्येषु च । सुखादिष्वपि
हि गुणत्वाद् भोक्तृत्वकर्त्तृत्वादीनामनुगमाच्चैतन्येषु च भोक्तृत्वाकर्त्तृत्वागुण
त्वादी
नान्तथा सुखादि चैतन्येषु सत्वज्ञेयत्वादीनामन्वयादित्यभिप्रायः । प्रयोगो76
पुनरभिन्नाः पुरुषसुखादयः परस्परमन्वयान्वयभाक्त्वात् । श
क्तिव्यक्तिवत् । शक्ति
व्यक्ती वा भिन्नेऽन्वयोनन्वयभाक्त्वादेव । सुखादिचैतन्यवदिति स्वभावहेतु
अथापि स्याद्यत्र सर्व्वात्मनैवान्वयस्तत्राभेदो न
तु यत्र केनचिद्रूपेण । घटादिषु च
सर्व्वात्मनान्वयस्ततोयमदोष इत्यत आह । न च घटादिष्वपि सर्व्वात्मनान्वयो
5a5 पि तु केनचिद्रूपेणेति
न केवलं सुखादि
ष्वित्यपि शब्दः । कुतोऽवैश्वरूप्य
सहोत्पादादिप्रसङ्गात् । तथाहि सर्व्वासामवस्थानां सर्व्वप्रकारेणान्वये सत्यैक्य
म्प्राप्नोति । ततश्च विशिष्टरूपरसगन्धश
वीर्यविपाकाभावात् ।
वैचित्र्यन्न भवेत् । एवञ्च पञ्चभूताभावप्रसङ्गोऽध्यक्षादिवाधाप्रसं
35b गश्चेति
भावः । सहोत्पत्तिश्च सर्व्वासामवस्थानाम्प्रसज्यते । आदिशब्देन ह्यनिरो
धार्थक्रियाव्यापारविकारादय
उपादीयन्ते । प्रयोगाः पुनर्यद्विशिष्टरूपरसगन्ध
50 शब्दादिभिरनेकप्रकारं न भवति । न तस्य वैश्वरूप्यमस्ति । यथैकस्य सुखाद्या
त्मनः । तथा सति 77 मताना
मप्यवस्थानामनन्तरोक्तो धर्मो नास्ति न चासिद्धो
हेतुर्यतो यद्यस्मान्न व्यतिरिच्यते न तद्विशिष्टरूपादिभिरनेकप्रकारं यथा तस्यै
वात्मा । न व्यतिरिच्यन्ते चा
वस्था अभीष्टा इति व्यापकविरुद्धोपलब्धी । तथा
यद्यस्मादपृथग्भूतं तत्तदुत्पादादिभिरुत्पादादिमत् । यथा तस्यैव स्वरूपं । अपृथग्भू
ताश्चा
भिमता अवस्थास्ताभ्योऽन्यस्या इति स्वभावहेतुः । अन्यथा घटोयमित्यन
न्यत्वमेवायुक्तं । नामान्तरम्वा अर्थभेदमभ्युपगम्य तथाभिधाना
त् । उपचयमाह ।
न च घटं मृदात्मानञ्च कश्चिद 5a5 त्यर्थ मुन्मीलितलोचनोप्ययं घटोयं च
मृदात्मेति विवेकेनोपलक्षयति । येनैवं स्यादिदमि
ह प्रादुर्भूतमिति तदनेनाभेदलक्षण
मत्यन्तासम्बद्धमेवेत्याह । ननु च पिण्डरूपात्मृदात्मनो घटस्य विवेकेनोपलक्षणमस्त्येव
तक्तिमेवमुक्तमिति चे
त् । सत्यमस्ति । न तु घटाद् भिन्नन्तं परोभिमन्यत इत्यभि
प्रायाददोषः । यदि नाम भेदेनानुपलक्षणन्तयोस्तथापि कस्मादेवं न स्यादिति चेदाह ॥
नह्यधि
ष्ठानाधिष्ठानिनोराधाराधेययोः कुण्डेवदरयोर्विवेकेनानुनपलक्षणे सत्ये
वम्भवतीदमिह प्रादूर्भूतमिति
4a6 । तदनेन घटमृदात्मनोराधाराधेयभावो

36a नास्ति विवेकेनानुपलक्षणात्सत्वादितत्स्वभावयोरेवेति व्यापकानुपलब्धिं मन्यते ।
अधुना यद्यस्मिन्प्रादुर्भवति तत्ततोऽभिन्नमित्यस्याभेदलक्षणस्याव्या
पितासा78
चिख्यासुराह । न च शक्त्यात्मनि प्रादुर्भावस्तस्या नित्यमवस्थानाभ्युपगमात् ॥
अन्यथावस्थैव सा स्यात् । तथा च तस्याः स्वात्मनःसकासा79दभ्यु
पेतो
ऽभेदो न स्यात् । अभेदलक्षणाभावात् उपलक्षणञ्चैतद्व्यक्तौ सुखादिषु पुरुषेषु च
तुल्यदोषत्वात् । अन्ये तु स्वदर्शनापराधमलीमसधिय
केचित् सांख्या एवमाहुः ।
यो यस्य परिणामस्स तस्मादभिन्नः । तद्यथा हेम्नः कुण्डलाद्यवस्थाविशेष इति
तेप्यनेनैव पूर्व्वस्याभेदलक्षण
स्याव्यापिताप्रदर्शनेनापहस्तिता इति चेतस्या
रोप्याह । एतेनैवे 5a6 त्यादि । युष्मद्दर्शनपरिणामोपि न युक्त इत्यभिप्रायवा
नपक्षेप
ङ्करोति । किञ्चेद 5a7 मित्यादिना । परेणापि किमत्र वक्तव्यं यावता
51 भगवता कपिलेन स्पष्टमिदमुक्तमित्यभिसन्धायाह । अवस्थितस्य
द्रव्यस्य यथा
काञ्चनस्य धर्मान्तरस्य केयूरस्य निवृत्तिः । धर्मान्तरस्य च कुण्डलादेः प्रादुर्भावः
परिणाम इति । आचार्यस्तस्यैव तावदिदमीदृशं
प्रज्ञास्खलितङ्कथं वृत्तमिति सवि
स्मयानुकंपन्नश्चेतः । तदपरेप्यनुवदन्तीति निर्दयाक्रान्तभुवनं दिग्व्यापकन्तमः । कः
प्राणिनो हितेच्छा विपुलत्व
स्यापराध इति मन्यमान प्राह ।


ननु यदि नाम तेनैवमुक्तं । भवद्भिस्तु निभालनीयमेतत् यत्तद्धर्मान्तरं
कुण्डादिकं निवर्त्तते प्रादुर्भवति च किं त
36b देवावस्थितं काञ्चनद्रव्यं स्यात्ततोर्था-
न्तरम्वेति । कस्माद्विकल्पद्वयमेव कृतमितिचेदाह अन्यविकल्पाभावात्
5a8निर्ग्रन्थवाद स्यायोगादित्यभिसन्धिः । यद्याद्यो
विकल्पस्तदा को
दोष इति चेदाह । यदि तद्धर्मान्तरन्तदेवावस्थितं द्रव्यं 5a8 । तदा तस्याव
स्थानान्न निवृत्तिप्रादुर्भावावाविर्भावतिरोभावलक्षणाविति त
स्मात्कस्य
ताविति वक्तव्यम्भवद्भिः । प्रयोगो80 पुनः यस्यावस्थानं न तस्य
निवृत्तिप्रादुर्भावौ । यथावस्थातुर्द्रव्यस्य । तथा चावस्थानन्तस्य धर्मा
न्तर
स्येति व्यापकविरुद्धोपलब्धिः । न चासिद्धो हेतुर्यतो यदवस्थातुरनन्यत्तस्या
वस्थानं यथा तत्स्वरूपस्यैव । अनन्यच्चैतद्धर्मान्तरं तस्मा
दिति स्वभावहेतुः
किञ्च यद्यवस्थितमेव द्रव्यं तद्धर्मान्तरं तदावस्थितस्य द्रव्यस्य धर्मान्तरमिति ।
वचनं सिध्यति ॥ किङ्कारणमित्याह ।
हि तदेव तस्य धर्मान्तरम्भवती
5a9
ति भवत्येव तदेव तस्य धर्मान्तरं यथा कृतकत्वं शब्दस्याव्यतिरिक्तमपि तस्मादिति
चेदाह । अनपाश्रितव्य
पेक्षाभेदं
5a9 । एतदुक्तम्भवति । अत्र हि स एव
सब्दो81ऽकृतकादिभ्योव्यावृत्तत्त्वात् तद्व्यावृत्त्यपेक्षया तन्मात्रजिज्ञासायां
प्रतिक्षिप्तभेदान्तरेण शब्देन धर्मत्वे
न व्यपदिस्यते82इह तु पुनर्व्य
पेक्षाभेदोपि नास्ति तत्कथन्तदेव तस्य धर्मान्तरम्भविष्यतीति ।


धर्मस्य द्रव्यादर्थान्तरपक्षे तर्हि को दोष इत्याह ॥ अथेत्या 5a9
दि ॥ कस्मा
द्धर्मनिवृत्तिप्रादुर्भावाभ्यां न द्रव्यस्य परिणामो यस्मान् न ह्यर्थान्तरगताभ्यां निवृ
52 त्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिर्भवति । तदेव कुतश्चैत
37a न्येपि परिणतेः प्रसङ्
गात् । न च चैतन्यस्य परिणतिरिष्यते । प्रधानपुरुषयोरैक्यापत्तेरकर्तृता चेति वच
नात् । प्रयोगः पुनः । यद्यतोर्थान्तरन्न तद्गताभ्यां निवृ
त्तिप्रादुर्भावाभ्यां तस्य परि
णतिः । तद्यथा चैतन्यभिन्नस्वभावस्याङ्कुरस्य निवृत्तिप्रादुर्भावाभ्यां चैतन्यस्य धर्मान्त
रञ्च द्रव्यादिति व्यापकविरुद्धोपलब्धिः । भवे
देतन्न यस्य कस्यचिदर्थान्तरस्या
सम्बद्धस्यापि निवृत्तिप्रादुर्भावाभ्यामन्यस्य परिणतिरपि कुत चासम्बद्धस्यैव ।
यथा तस्यैवाङ्कुरस्य बीजसम्बद्धस्य निवृत्तिप्रादुर्भावाभ्याम्बी
जस्य तेन सामान्येन
साधने सिद्धसाधनं । धर्मस्य द्रव्यसम्बन्धात् द्विशेषेण तु साधनविकलता
निदर्शनस्य । अङ्कुरस्य चैतन्येन सह सम्बन्धाभावादिति
चेदाह । द्रव्यस्य धर्म
इति 5a10 व्यपदेशो न सिध्यति
5a10 । कुतः सम्बन्धाभावात् । एवं
मन्यते द्रव्यसम्बन्धोयं धर्म इत्येतदेव न विद्यते । तत् कुतो व्यावृत्ति
प्रसङ्गस्येति ।
अस्त्येव तर्हि द्रव्यधर्मयोराधाराधेयभावलक्षणस्सम्बन्धस्ततश्च सविशेषणेपि हेतौ
असिद्धिरित्यत आह । नहि कार्यकारणभा
वादन्यो वस्तुभूतः सम्बन्धोस्ती
5b1
ति । आधाराधेयभावोऽपि कार्यकारणभावविशेषादेव व्यवस्थाप्यते । यथा निर्णीतमा
धारतोभिनिवृत्तेरात्मनस्तादृ
शो नु83...यः कार्यन्तस्येत्यत्र प्रकरणे प्रमाणविनिश्चय
इत्यभिप्रायः । अस्तु तर्हि कार्यकारणभावस्तयोरिति चेदाह । न चानयोर्द्रव्यधर्मयोः
कार्यकारणभाव
5b1 इति । कुतः स्वयमतदात्मनोऽतत्कारणत्वात् । यद्धि यत्स्व
भावं न भवति न तत्तत्कारणतया भवद्भिरभ्युपेयं यथा रजस्तमसः । तथा चेदमपि
द्रव्यधर्मस्स्वभावो
37b भवति तत्कथमिव तस्य कारणत्वमुपेयादिति व्यापकानुपलब्धि
प्रसङ्गं मन्यते । न चायमसिद्धो हेतुरिति मन्तव्यं । अर्थाभावपक्षं समाश्रित्य दोषा
भिधानस्य प्रकृत
त्त्वात् । यदाह । धर्मस्य द्रव्यादर्थान्तरत्वं 5b1 स्यादिति । अथा
प्यस्मद्वैल्ये स्यात् पूर्व्वकान् कापिलानतिपत्य साङ्ख्यानां शकमाधववत् ।
द्रव्यस्य व्यतिरेकेपि धर्मकार
णत्वमिष्यते तदापि ब्रूम इत्याह । अर्थान्तरत्त्वेपि द्रव्यस्य
धर्मकारणत्वे
ऽङ्गीक्रिय माणेऽर्थान्तरस्य कार्यस्योत्पादनात् 5b2 कारणात् । द्रव्यस्य
53 परिणाम इतीष्टं स्या 5b2 द् भवता ततः किं स्यात् इत्याह तद्विरुद्धस्यापि तथा
गता
नुसारिणः किङ्कारणन्तेनापि हेतुफलसंतानं मृद्द्रव्याख्ये पूर्व्वकात् मृप्तिण्डा
त्कारणभूता
दुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ सत्यां मृद्द्रव्यं परिणतमिति व्यवहार
भेदस्योपगमात्
5b3 कारणात् । स्यात् मतं । यदि नाम प्रकारद्वयेनापि परि
णामो
न युज्यते प्रकारान्तरेण तु भविष्यतीत्येतदाह । न चे 5b3 त्यादि ।
तस्मादुभथापि न परिणाम इत्युपसंहारः । न निर्विवेकं निर्विशेषं द्रव्यमेव
5b3 परो ना
पि द्रव्यादर्थान्तर मेकान्तेनैव किन्तर्हि द्रव्यसन्निवेशोऽवस्था
न्त
रन्नान्यः यथाङ्गुलीनां सन्निवेशोऽवस्थान्तरम्मुष्टिः । यथाङ्गुलीनां सन्निवेशो
ऽवस्थान्तरन्तत्वान्यत्वाभ्यामनिर्वचनीयम्मुष्टिः कस्माद्धेतोर्न ह्यङ्गुल्य
एव
निर्विवेका मुष्टिः । कुतः प्रसारितानाममुष्टित्वात् 5b4 । अन्यथा प्रसारिता
नामपि विशेषाभावात् मुष्ट्यवस्थायामिव मुष्टित्त्वप्रसङ्ग इति । अभावहेतुकाले
रूप
कः । नाप्यर्थान्तरं मुष्टिरङ्गुलिव्यतिरेकेणाप्रतिहतकारणेन प्रयत्नवतापि
मुष्टेरनुपलब्धेरिति । कदाचि त्कापिला एवं ब्रूयुरिति तन्मतं शङ्कते न निर्वि
वेक

38a मित्यादिना । गतार्थमेतद् । नहि मुष्टेरङ्गुलिविशेषत्वादि 5b5 ति परिह-
रति । असक्ताङ्गुल्य एव च निर्विवेका मुष्टिरिति कथयन् दृष्टान्तायोगमाह । अतोपि
यदुत ।
प्रसारितानाममुष्टित्वादिति
तदप्ययुक्तमेव । किङ्कारणं यतोङ्गु ल्य
एव हि
विशिष्टहेतुप्रत्ययबलेन तथोत्पन्ना काश्चन मुष्टिर्न्न तु सर्वाः । तदेव कुत
इत्याह
न प्रसारिता अङ्गुल्यो निर्विवेकस्वभावा मुष्ट्यङ्गुल्यश्चेति च शब्दोत्र
लुप्तनिर्दिष्टो ज्ञेयः । अथवा मुष्ट्यात्मिका अङ्गुल्यः प्रसारिताः सत्यो नहि निर्विशिष्ट
रूपा इ
ति व्याख्येयं । कस्मात् । अवस्थादूयेपि प्रसारिताप्रसारितरूपे । उभयोर
प्रसारितप्रसारितावस्थयोर्यथाक्रमं प्रतिपत्तिप्रसङ्गात् 5b5 । प्रयोगः पुनः ।
प्रसारितावस्थायामप्रसारितावस्थायाः प्रतिपत्तिर्भवेत् अङ्गुलीनां विवेकाभा
54 वात् । अप्रसारितावस्थायामिव स्वभावहे
तुः । एवमप्रसारितावस्थायां प्रसारिता
वस्थायां तत्प्रति
पत्तिः स्यादित्यपरो योज्यः । यत्तूभयस्येति व्यापकानुपलब्धिः
योज्या । अथाऽ
पि कथञ्चित्कश्चिद्विवेको स्थितयोरस्थयोस्तदा स विवेकश्चा
सामङ्गुलीनां स्वभावभूतो वा भवेन्नवेति विकल्पद्वयं प्रथमे तावद् दोषमाह ।
एव
खलु विवेकः स्व
भावभूतः । स एव स्वभेदलक्षणं सुखदुःखवदिति
5b6
द्वितीयेप्याह । परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन् 5b6
मुष्ट्यवस्थायामपीति शेषः
किमिति । यतो नहि स्वभावादप्रच्युतस्यार्थान्तरो
त्पादे सत्यन्यथोपलब्धिर्भवत्यतिप्रसङ्गात् । उष्ट्रस्याप्यर्थान्तरस्य कलभस्योत्पादे
ऽत्यथोपलब्धिः स्या
38b दित्यतिप्रसङ्गो वक्तव्यः । प्रयोगः पुनः । यत्रस्वस्यात्म
भावादप्रच्युतं न तस्यार्थान्तरोत्पादेपि अन्यथोपलब्धिः । यथोष्ट्रस्य कलभ
प्रादुर्भावे । अप्रच्युताश्च स्व
स्मात्स्वभावादङ्गुल्यो विवेकोत्पादेपीति विधि
प्रतिषेधाभ्यां हेत्ववकल्पनायां कारणविरुद्धकारणानुपलब्धी । नन्वित्यादि
परः । तत्वान्यत्वाभ्यामनिर्वचनीयं तदुक्तमिति वाक्यार्थः । उक्तमेतन्न पुनर्युक्त
मित्या चार्यः । कथमयुक्तमित्याह । नहि सतो वस्तुनस्तत्त्वान्यत्वे मुक्त्वान्यप्रकारः
सम्भवती
5b7 ति सद्वस्तुग्रहणं कल्प
नाशिल्पोपरिचतस्यान्यापोहादेः सम्भव
तीति प्रतिपादनाय । कुत इत्याह । तयोरि 5b8 त्यादि । प्रयोगः पुनः । यौ परस्पर
परिहारस्थितलक्षणौ
तयोरेकत्यागोऽपरोपादाननान्तरीयकः । एकोपादानञ्चा
परत्यागनान्तरीयकं तद्यथा भावाभावौ । यथोक्तधर्मवन्तौ च तत्वान्यत्व
प्रकारावि
ति स्वभावहेतुः । नन्वङ्गुलीभ्यो मुष्टेस्तत्वान्यत्वप्रकारौ मुक्त्त्वाप्य
न्यः प्रकारः संभवत्येव । न ह्यङ्गुल्य एव मुष्टिः प्रसारितानाममुष्टित्वात् । नाप्य

र्थान्तरं पृथक्स्वभावानुपलब्धेरिति चेदाह । अङ्गुलीषु पुनरि 5b8
त्यादि । प्रतिक्षणं विनाशो विद्यते यासां इति विग्रहः । ता एव क्षणिकत्वात्
तथाविधा जाय
न्ते येन मुष्ट्यादिवाच्या भवन्तीत्यर्थः ॥ तदेतच्च वस्तुतो न
55 मुष्टेरङ्गुलिविशेषादित्यत्रोक्तमपि प्रसङ्गात् युक्तमुक्तमित्यवसेयं । अन्यथा कि
मनेन यद्ये
वं कथन्तर्हि मुष्टिरङ्गुलीति च व्यपदेशभेद इत्यत आह । तत्र मुष्ट्यादि
शब्दा विशिष्टविषया
5b9 विशिष्टावस्थानामेवाङ्गुलीनां वाचकत्वात् ।
अङ्गुलीशब्दस्तु सामा
39a न्यशब्दः सर्व्वावस्थानां तासामभिधायकत्वात् । यथाक्रम-
मुदाहरणद्वयमाह । वीजाङ्कुरादिशब्दवद् ब्रीह्यादिशब्दवच्चे 5b9 ति । एवं
शकलीकृतसकलपरपक्षः कु
चोद्यशेषं परोपन्यस्तं परिजिहीषुः । परमुखेन चोद्य
मुपस्थापयति तद्यदीत्या 5b9 दिना । इदमस्याकूतं यथा हि तिलेष्वविद्यमानं
घृतं । तथा तैलमपि
। तद्यदि प्रागसदेव कारणे कार्यमुत्पद्यते तथा घृतस्यापि तिलेभ्य
उत्पत्तिः स्यात् । असत्वात् तैलवत् । न वा तैलस्यापि तत एव घृतवत् । नहि असत्ये
कश्चिद् वि
शेष इति स्वभावहेतुव्यापकानुपलब्धित्वेनाभिमतयोर्व्याप्यव्यापकभाव
प्रसाधनप्रकार एषः ।


तदेतत् सर्वंभ्यवधाय कृत्योत्थापनम्भवत इ
ति मन्यमानः प्राह । ननु सर्व्वत्र
सर्व्वस्यासत्वेप्ययन्तुल्यो दोषः
5b10 । नहि सत्वे कश्चिद्विशेष इतिप्रयोगो84पुनस्तावेव सत्वादिति हेतुविपर्ययं
कृत्वा कार्यौ । अथापि कश्चिद्वि
शेषोस्ति तेन सत्वेपि न सर्व्वं सर्वस्मात् जायते तेन संदिग्धविपक्षव्यावृत्तिकत्वं
प्रमाणयोरिति चेदाह । विशेषे चाऽ
भ्युपगम्य माने सविशेषस्त्रैगुण्यात् सत्वर
जस्तमोरूपाद् भिन्नः स्यात् । कस्मात्तस्य त्रैगुण्यस्य भावेपि विशेषस्याननुवृत्तेः
कारणात् । प्रयोगः पुनः । यद्भावेपि
यन्नानुवर्त्तते तत्तस्मादत्यन्तं भिन्नं । यथा
शब्दस्पर्शरूपरसगन्धेभ्यश्चैतन्यन्नानुवर्त्तते च विशेषस्त्रैगुण्यभावेपीति स्वभावहेतुः ।
एतच्चाभ्युपगम्योद्ग्राहितं
। अधुना सत्कार्यवादे जन्मार्थ एव न युक्त इत्याह ।
सतश्चे 5b10 त्यादि । नैव तस्य चासत्वेनाभिमतस्य जन्मास्ति । सत्वात् ।
निष्पन्नावस्थायामिवेति विरुद्धव्याप्तोपलब्धिरस्य
39b मनसि वर्त्तते । अन्यथा
पुनर्जातस्यापि पुनर्जातिः प्रसज्यत इत्यनवस्था स्यात् । यदाह ।

सतो यदि भवेज्जन्म जातस्यापि भवेद् भव १३
इति ।


56

किञ्च साधनानां कारणानाम्बीजतेजोजलादी
नां वैफल्यं प्रसज्येत साध्यस्य
कर्त्तव्यस्य कस्यचिद्रूपस्याभावादिति प्रयोगः । यत्र साध्यन्न किञ्चिदप्यस्ति तत्र
साधनसाफल्यं विद्यते यथा नभस्यनाधेयातिशये । न च साध्यङ्कि
ञ्चि
दप्यस्ति कारणे व्यवस्थिते सति कार्यं इति व्यापकानुपलब्धिः । न चायमसिद्धो
हेतुरिति मन्तव्यं । यस्माद् यस्य कस्यचिदतिशयस्य तत्र कारणे स्थिते कार्ये कथञ्चि
दुत्पत्ता
विष्यमाणायां सोतिशयस्तत्रासन् कथञ्जायेत नैव जायेतासत्वात् ।
व्योमोत्पलमिव दुग्ध इति व्यापकानुपलब्धिरस्य चेतसि स्थिता । अथासन्नप्यति
शयो जा
यते । तदा जातौ वा तस्यासतोपि सर्व्वोतिशयः सर्व्वस्माज्जायेतेति तुल्यः
पर्यनुयोग इति । भवतोपि घृतातिशयोपि तिलेभ्य उत्पद्येतासत्वात् । तेनाति

शयवदित्यर्थः । स्वभावहेतुप्रसङ्गः । परमतमाशङ्कते । नातिशयस्तत्रे 6a2
त्यादिना । यथा नास्ति स कथन्तत्रासन् प्रकारो जायेतेति प्रक्षिपति । जातो
वा
सर्व्वः सर्व्वस्माज्जायेतेति तुल्यः पर्यनुयोग इति पूर्वोक्तो दोषो न युज्यत
इत्यभिप्रायः । सर्वप्रकारेणैव तर्हि निष्पन्नरूपातिशयोस्तीति चेदाह ।
न चेत्यादि
एवन्तावत्सदसत्कार्यवादिनोः सर्व्वस्मात्सर्व्वस्योत्पत्तिदोषस्तुल्य इति प्रतिपादितं ।


न च तयोरपि तुल्यञ्चोद्यन्न तदेको वक्तुमर्हति । सत्कार्यवादे च न
कश्चिज्ज
न्मार्थ इति प्रसाधितं तेनायमस्तीत्यधिको दोषः । तदेवङ्कदाचित्परोऽभिदध्यान्ननु भो
यदि नाम मयैतन्न परिहृतं भवता त्ववस्यं85स्थितेः किञ्चित् स्वपक्षस्य रक्षणाय
40a
वाच्यं । नहि परस्य पक्षं दूषयता स्वपक्षस्थितिरनवद्या लभ्यते । न भवति नित्यः
शब्दो मूर्त्तत्वात् । सुखादिभिर्व्यभिचारेणेत्यादावनित्यत्वा
सिद्धवदित्यत आह ।
असतोपि कार्यस्य कारणादुत्पादे यो यज्जननस्वभावस्तत एव तस्य जन्म जन्म नान्य
स्मादिति नियम
6a3 इति । अपि शब्दः सम्भावनायां । इदं अत्रा
र्थतत्व
मविद्यमानमपि तैलं तिलेभ्य एवोत्पद्यते । तदुत्पादनशक्तियुक्तत्वात् तिलानां
नान्यस्मात् तज्जननशक्तिविकलत्वात्तस्य । शक्तिप्रतिनियम एव च कथमि
ति च
पर्यनुयोगे वस्तुस्वभावैरुत्तरं वाच्यं । य एवम्भवन्ति यथा वा तथैव प्रधाना
57 न्महान् एव जायते नाहङ्कारो महतो ऽहङ्कारो न पञ्चतन्मात्राणीत्या
दि प्रक्रिया ।
तत्र च भवतः शक्तिप्रतिनियमावलम्बनमेवसरणं86। अन्यस्य
परिहारोपायस्याभावात् तदेतच्च न ममापि काकेन भक्षितं । तेन
यदुक्तन्न
ह्यसत्वे कश्चिद् विशेष इति तदयुक्तिमत् । कारणसामर्थ्यासामर्थ्यकृतत्वात्
कार्योत्पत्यनुत्पत्योः । तस्मात् पुरोनुक्रान्तयोः प्रमाणयोः सन्दिग्धवि
पक्षव्यावृत्ति
कत्वसाधनकलङ्काङ्कितो हेतुरिति । भवेदेतत्तस्यापि हेतो तज्जनन
स्वभावनियमः । कुतो जात इत्यत आह । तस्यापि स स्वभावनियमः । स्वहेतो

रिति 6a4 । तस्यापि स कुत इति चेदाह । इत्येवमनादिभावस्वभावनियम
इति । न विद्यते आदिरस्येति विग्रहः अनादित्वाभ्युपगमाद्धेतुफलप्रकृति
परं
पराया नानवस्थादोषो लघीयसीमपि क्षतिमावहत्यन्यथाऽदौ कल्प्यमाने
तस्याहेतुकत्वप्रसङ्गस्तेनास्थान एवेयमाशङ्का भवत इति भावः । अथवान्यथा

40b यङ्ग्रन्थो व्याख्यायते निष्पर्यायेणासन्नेव तर्ह्यतिशयो जायते । न च
सर्व्वं सर्व्वस्माज्जायेतेति पर्यनुयोज्यं । यो यज्जननस्वभावस्तत एव तस्यातिशयो
त्पत्तिरिति शक्तिनियमसमाश्रयादिति कदाचित्स्वसिद्धान्तमनादृत्यापि परोभि
दधात्याशङ्कायां न ममाप्येतच्छक्तिप्रतिनियमावलम्वनङ्केनचिद्दण्डेन निवारित
मित्यागूर्याह । असतोपी 6a3 त्यादि । पदवि
भागस्तु पूर्ववत् ।प्रयोगो87पुनर्यस्य यज्जननाय समर्थं कारणमस्ति सोसन्नपि जायत एव यथातिशय
विशेषः । तज्जननाय समर्थङ्कारणमस्ति च कार्यविशेषस्येति
स्वभावहेतुः ।
तथा यो यत्राविद्यमानतज्जननसमर्थकारणः स तत्रासत्वेपि नोदेति । यथा
तिलेषु घृतातिशयस्तथा चाविद्यमानतज्जननसमर्थकारणः
कार्यविशेषः कारण
विशेष इति व्यापकानुपलब्धिः । अपरः पर्य्यायः । साधनस्य लिङ्गस्य ।


सदकारणादुपादानग्रहणात् सर्व्वसम्भवाभावात् ।

शक्यस्य श
क्यकरणात् कारणभावाच्च सत्का88 र्यं ॥ १४

इत्येवमादेर्वैफल्यं । साध्यस्य कर्तव्यस्य कस्यचित्संशयविपर्यासव्यवच्छेदस्य
निश्चयप्रत्ययजन्मनश्चाभावात् । सर्व्वं हि
साधनं विवादपदे वस्तुनि संशय
विपर्यासावपनयन्तद्विषयन्निश्चयप्रत्ययमुत्पादयद्विभर्त्ति नामानुरूपं न द्वयमप्येतत्
कापिलमते सम्भवति । सदावस्थितस्य का
र्यस्य हान्युपजननायोगात् । अथ
58 सन्नप्ययं निश्चयः साधनवचनादनभिव्यक्तं । पूर्व्वमभिव्यक्तिमुपयात्यतो न
वैफल्यमिति मतमत आह । यस्य कस्यचिदतिसय89
स्या 6a1 भि
व्यक्तिलक्षणस्य तत्र साध्ये निश्चयरूपे कथञ्चिदसत उत्पत्तौ प्राप्तात्साधनात्
सोऽतिशयस्तत्रासन्
41a कथञ्जायते । जातो वा सर्व्वातिशयः । समस्तसाध्य
निश्चयाभिव्यक्तिलक्षणः सर्व्वस्मादन्यसाधनात् साधनाभासात् वोत्पद्येतेति तुल्यः
प्रसङ्गः । पावकादिप्रतिपत्तिहेतवो
धूमादयः सत्कार्यविनिश्चयाद्यभिव्यक्तिङ्कुर्यु
रित्यर्थः । उत्पत्त्य चाभिव्यक्तिमेतदुच्यते । नत्वियमविकृतरूपेषु कृतास्पदा सा
हि तत्स्वरूपलक्षणा तद्विषयज्ञानलक्ष
णा । रूपान्तरप्रादुर्भावलक्षणाभावा भवेत्स्वरूपं
तावत् अविकार्यमिति न साधनैरन्यैर्वा कर्तुं शक्यते । विकारे वा पूर्व्वस्वभाववानिव
पूर्व्वरूपप्रादुर्भावश्चेत्यसत्कार्य
वाद एव समर्थितः पूर्वापररूपत्यागावाप्तिलक्षण
त्वात् विकारस्य । चैतन्यस्यैकत्वादपरस्तद्विषयः प्रत्ययो न भवति परस्येति
तद्रूपाभि
व्यक्तिरनुपपन्ना । रूपान्तरप्रादुर्भावे च नान्यस्य किंचिदप्युपजायते
विलक्षणत्वादिति तृतीयापि व्यक्तिरसम्भविनी द्वितीयायामप्ययमनिवारितो
दोषः ।
तद्विषयप्रत्ययोदयेप्यर्थान्तरस्याभूतभाववैपरीत्यस्य व्यक्तेरयोगात् । न चानुप
कारकः प्रत्ययस्य विषयः सम्भवी । तदुपकारकत्वे वा त
स्मादेवास्योत्पत्तिरिति
लिङ्गानपेक्षा । स्वत एव साध्यनिश्चयोस्याभिव्यक्तिरिति प्राप्तं । साधनापेक्षादेव
साध्यनिश्चयात् स्वविषयज्ञानोत्पादेनैवापेक्षातिश
योत्पत्तिलक्षणास्थिरेषु लब्धा
स्पदेति प्रतिपादितं सर्व्वदा वा भवेत् । लिङ्गस्यापि सदा सन्निहितरूपत्वात् ।
लिङ्गज्ञानापेक्षायामपि तुल्यः । तस्यापि सत्वे वादिनः स
र्व्वकालास्तित्वादिति ।


अपि चेत्यादिना सत्कार्यवादनिराकरणे कारणान्तरमाह । तदवस्थाया मिति
6a4 मृत्पिण्डावस्थायां पश्चाद्वदभिव्यक्तावस्थायामिव तदर्थक्रियेति
41b घट
साध्योदकधारणविशेषाद्यर्थक्रिया । व्यक्तेरविशिष्टसंस्थानाया अप्रादुर्भावादिति
चेत् । परमतासङ्का90तस्या एवेत्यादि प्रतिविधानं । एतदुक्तम्भवति ।
ग्रीवादिसन्निवे
शविशेषावच्छिन्न एषोर्थक्रियाविशेषकारी कश्चित् मृद्विकारो
घट इत्युच्यते नान्यः । स चेत् प्रागपि मृप्तिण्डावस्थायामपि तदाव्यक्तावस्थायामिव
तदर्थक्रियोपल्ब्धौ स्या
तां । न च भवतस्तस्मान्नास्त्येवासाविति निश्चयः समाधी
59 यतां किमलीकनिर्बन्धेनेति । अवस्थातुर्भावादसावप्यस्तीति चेदाह । नहि रूपान्त
रस्य भावे रूपान्तरमस्ति
6a5
पीत इव नीलमिति विरुद्धव्याप्तोपलब्धिरा
कूता । न चावस्थावस्थात्रोरभेदादसिद्धो हेतुरिति गर्जितव्यं । यस्मान्न च रूपप्रति
भासभेदेपि वस्तुभेदो युक्त
ः, अतिप्रसङ्गात् । रूपप्रतिभासभेदग्रहणमुपलक्षणार्थं ।
तेनार्थक्रियाभेदोप्यभ्युपगन्तव्यः । एवं मन्यते । यदि भिन्नप्रतिभासि ज्ञानं भेदं
साधयति तदा
सुखदुःखमोहानां असङ्कीर्णा भेदव्यवस्था भवेत् । नान्यथा तथा
च मृप्तिण्डघटयोरपि परस्परमत्यंतम्भेद इति प्रतिजानीमहे । भिन्नाकारज्ञानपरि

च्छेद्यत्वात् । परस्परासम्भविकार्यकारित्वाच्चसुखादिवदिति स्वभावहेतू । अन्यथा
सुखादीनामपि परस्परमभेदप्रसङ्गः शक्तिव्यक्तिवत् । विशेषो वा वाच्य इति ।

तस्मादित्युपसंहारः । नहि तस्य घटादेस्तस्मिन्नुपलब्धिलक्षणप्राप्ते स्वभावे स्थितौ
सत्यामनुपलब्धिर्युज्यते । अथापि भवति तदाऽस्थितिश्च तस्मिन्स्वभावेऽतत्वमत

त्स्वभावत्वमुपलब्धिलक्षणप्राप्तात्स्वभावादेकान्तेन भेद इति यावत् ।


एवं स्वभावनुपलब्धौ साधनाङ्गसमर्थनं प्रपञ्चेनाभिधाय परिशिष्टास्वनुपल
ब्धिष्वाचिख्यासुराह
42a व्यापकानुपलब्धावि 6a8 त्यादि । धर्मयोर्यथा शिंशपा-
त्ववृक्षत्वयोर्व्याप्यव्यापकभावं केनचित्प्रमाणेन प्रसाध्य व्यापकस्य वृक्षत्वादेर्न्निवृत्ति
प्रसाधनं समर्थनं साधनाङ्गस्येत्यध्याहारः । यथा नास्त्यत्र शिंशपा वृक्षाभावादिति ।
ननु तत्र स्वभावानुपलब्ध्यैव तदभावः सिध्यति तक्तिमनया । नहि निष्पादितक्रिये
कर्मणां
विशेषाधायि साधु साधनम्भवति । साधकतमङ्करणमिति पाणिनिः १।४।
४२
वचनात् अनधिगतार्थाधिगमरूपञ्च प्रमाणमुक्तमज्ञातार्थप्रकाशो वेति ।
सत्यमेत
त् । तथाहि नेयं सर्व्वत्र प्रयुज्यते । किन्तर्हि व्योमगतत्रपादिमात्रे यत्र
सालसरलपलार्शाशंशपादिपादपभेदावधारणन्नास्ति तत्र । सर्व्वथा यत्रैव
व्याप्या
60 भावो न निश्चीयते क्वचित् कुतश्चिद् भ्रान्तिनिमित्तात् तत्रैवेयं प्रयुज्यते । कारणा
नुपलब्धिरपि यत्र कार्याभावो न निश्चीयते तत्रैव प्रयोक्तव्या ना
न्यत्र वैयर्थ्यात् ।
यथा सन्तमसे धूमाभावानिश्चये नास्त्यत्र धूमोऽग्न्यभावादिति । कार्याभावे संशयात् ।
कारणाभावे च निश्चयात् । स्वभावविरुद्धोपलब्धिरपि सं
गविषयभावावस्थित
गात्रस्पर्शवालाकलापाकुलानलालीढ एव व्योमादिमात्रवर्तिनिर्देशे प्रयोक्तव्या ।
कारणविरुद्धोपलब्धिश्चाप्यदृश्यमानकमारोमोद्ग
42b मदन्तवीणादिभेदभावाभा वाक्य
शक्यगानुसमीपावस्थितपुरुषसमाक्रान्तभूतल एव प्रकृतेनान्यत्र वैफल्यात् । अनया
दिसा91ऽन्यासामप्यनुपलब्धीनाम्प्रयो
गविषयोऽनुसर्त्तव्य इति । तेषां स्वभाव
व्यापककारणानां । विरुद्धास्तेषामुपलब्धयस्तास्विति विग्रहः । द्वयोर्विरोधयोर्म
ध्ये एकस्योपदर्शनं । द्वौ पुनर्विरोधावविकलका
रणस्य भवतोन्यभावे भावः ।
परस्परपरिहारस्थितलक्षणश्च । अनया दिशा स्वभावविरुद्धकार्योपलब्ध्यादिष्वपि
साधनाङ्गसमर्थनं सुज्ञानमेवेति नोक्तं । तथा
पि किञ्चिन्मात्रप्रयोगभेदादेका
दशानुपलब्धिव्यतिरिक्तास्वपि कारणविरुद्धव्याप्तोपलब्धिकार्यविरुद्धव्याप्तोप
लब्धिव्यापकविरुद्धकार्योपलब्धिकार्यविरुद्धका
र्योपलब्ध्यादिषु साधनाङ्गसम
र्थनमुक्तम्वेदितव्यं । तासां पुनरुदाहरणानि यथाक्रमं । नात्र धूमस्तुषारस्पर्शात् ।
नेहाप्रतिवद्धसामर्थ्यान्यग्निकार
णानि सन्ति तुषारस्पर्शात् । न तुषारस्पर्शोऽत्र
धूमात् । नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति ।


हेतुकार्यविरुद्धाप्तभावो व्यापक
कार्ययोः ।

विरुद्धकार्ययोरन्यः प्रतिषेधस्य साधकः ॥ १५

नेह धूमो हिमस्पर्शात् समर्थन्नाग्निकारणं ।

नेह धूमाद्धिमस्पर्शो न शक्यं शीतकारण १६ मिति


सङ्ग्रहश्लोकौ ।


एवं तावदेकेन प्रकारेणासाधनाङ्गवचनत्वादिनो निग्रहस्थानमिति प्रतिपादितं ।
प्रकारान्तरेणापि तदेवोपपादयति । अथवेत्यादि
6b1 न चेति समुदायश्चायमत्रा
वृत्या पूर्वोदितार्थपरित्यागेनार्थान्तरसमुच्चये वर्त्तते ॥ नतु धवस्थित्याथवा खदिर
मित्यादाविव पूर्व्वार्थपरित्यागेन विकल्पादिवि
43a धस्याप्यर्थस्य विवक्षितत्वात् । इह
61 च पर्याये साधनशब्दः करणसाधनः । इहाङ्गशब्दोऽवयववचनः पूर्वस्मिन्कारण
वचन इति विशेषः । त्रिरूपहेतुवचन
समुदायग्रहणेन तेषु लक्षणादिवचनानां
साधनत्वं तिरयति । स्याद् बुद्धिः साधर्म्यवति प्रयोगेनासपक्षे हेतोरसत्वमुच्यते ।
वैधर्म्यवति च न सपक्षसत्वमनन्तर
मेव निषेध्यमानत्वात् । तत्कथन्तस्यैकस्याप्य
वचनमसाधनाङ्गवचनमित्येतन्न वक्ष्यमाणे व्याहतमिति । एतच्च नैवमेव हि
व्याख्यायते । त्रिरूपो हेतुरर्थात्मकः ।
परमार्थतोवस्थितस्तस्य वचने ये प्रकाशके
पक्षधर्मवचनं सपक्षसत्ववचने पक्षधर्मवचनं विपक्षसत्ववचने वा तयोस्समुदायः तस्य

चनद्वयसमुदायस्याङ्गम्पक्षधर्मादिवचनमिति पक्षधर्मवदनन्तावदविचलमितरयोः
त्वन्यतरान्यतरत् कादाचित्कं । तेन वचनद्वयसमु
दायरूपस्याङ्गिनोङ्गं द्विविधमेव
सदा तस्येदानीमङ्गस्यैकस्याप्यवचनमसाधनाङ्गम्वचनं । न केवलं द्वयोः प्रथम
व्याख्यानुसारेणेत्यपि श
ब्दात् । द्वयोर्ह्यवचनं तूष्णीम्भावः । स चोक्तोऽप्रतिभया
तूष्णींभावादिति पर्यायान्तरमप्याह ।


अथवे 6b1 त्यादि । तस्यैवेति त्रिरूपवचनसमुदायस्य यन्नाङ्गं ना
वयवः ।
कथं पुनः प्रतिज्ञादीनामसाधनाङ्गत्वमिति चेत् । उच्यते । प्रतिज्ञावचन
साधनं । साक्षात् पारंपर्येण वा तस्याः सिद्धेरनुत्पत्तेः तथाह्यर्थ ए
व प्रतिबन्धा
र्थङ्गमयति । नाभिधानमर्थप्रतिबन्धविकलत्वात् तस्मात् प्रतिज्ञावचनं हेतु
वचनं वा न साक्षात्साधनमर्थसिद्धौ । संशयश्च पक्षवचनादर्यें दृष्टो
43b
निश्चयस्तदतोपि न साक्षात् साधनं । स्यान्मतं संशय एवासिद्धः पक्षवचनाद्वादि
प्रतिवादिनोर्निश्चितत्वादथान्येषां भवति । एवं सति कृतकत्वादिवचनेप्यव्युत्पं92
नानां संशयो भवतीत्यनेकान्तः । तदेतदसम्बद्धं । वादिप्रतिवादिनो
र्हि निश्चितत्वमेकस्मिन् वा धर्मेऽनित्यत्वादिके प्रत्याययितुमारब्धे भवेत् प्रत्यनीक
धर्मद्वये वा ॥
न तावदेकस्मिन् विवादाभावतः । साधनप्रयोगानर्थक्यप्रसङ्गात्
नापि प्रत्यनीकधर्मद्वये वस्तुनो विरुद्धधर्मद्वयाध्यासप्रसङ्गात् । यदाह्येकस्मिन्व
स्तुनि प्रमा
णबलेन विरुद्धौ धर्मौ वादिप्रतिवादिभ्यां निश्चितौ भवतस्तदा तद्वस्तु
62 द्व्यात्मकं प्राप्तं । अथ न प्रमाणसामर्थ्यात् तौ निश्चितावपि तु स्वस्मात्स्व
स्मादाग
मात् । एवमपि तु धर्मयोः प्रमाणेन निश्चयात् कथन्न पक्षवचनात् संशयो
भवतीति वाच्यं । तस्मात् पक्षवचनं न साक्षात् साधनं । नापि पारम्पर्य्येण सा
ध्या
भिधायकत्वेनासिद्धे हेतुदृष्टान्ताभासोक्तिवदशक्यसूचकत्वात् । हेतुवचनन्तु शक्य
सूचकत्वात् शक्तितः साधननिष्टं सदोच्यते साधनाङ्गम्प्रतिज्ञाव
चनत्वे सति
साधनोपकारकत्वाद्धेतुवचनवत् । साधनविषयप्रकाशनद्वारेण च प्रतिज्ञासाधनम
नुगृह्णाति । अन्यथाह्यविषयं तत्साधनं प्रवर्त्तते । ज्ञा
नात्ममनःसन्निकर्षादीनामपि
साधनोपकारकत्वमतो वचनत्वे सतीति विशेषणं । इतश्च साधनाङ्गसाध्यसाधन
विषयप्रकाशनात् दृष्टान्तवचनवदिति ।
इदमप्यत्यर्थमसारं । यस्मादनित्यं शब्दं
साधयेत्यभ्यर्थंना वाह्यं वचनत्वे सति साधनोपकारकं साध्यसाधकविपर्ययप्रकाश
कञ्च न च तदन्तरङ्गं साध्यसिद्धा
44a वाङ्गं । को वा विषयोपदर्शनस्योपयोगो यदि
ह्यनेन विना न साध्यसिद्धिः स्यात् । सर्व्वसोभेत93यावता विनाप्यनेन
यावत् । यः कश्चित्कृतकः स सर्वोऽनित्यो यथा कुम्भादिः
शब्दश्च कृतक इत्यनु
क्तेपि पक्षशब्दोऽनित्य इत्यर्थाङ्गमात्र एव । तस्मादस्य निर्देशो निरर्थक एव । स्यादयं
विपर्यासो यदि हेतुव्यापारविषयोपदर्शनाय पक्षवद्
वचनन्नैव प्रयुज्यते तदा कथम्पक्ष
समाश्रयलब्धव्यपदेशा । पक्षधर्मत्वादयः सम्पद्यन्ते । तेषु वा निश्रितात्मसुसम्भूत
सामर्थ्यात् पक्षगतिरसम्भाव्यैव । सामर्थ्य
लभ्यपक्षबलेन पक्षधर्मत्वादयः सम्पद्यन्त
इत्यप्ययुक्तं । तेष्वसत्सु सामर्थ्यलभ्यस्यैव पक्षस्यासम्भवात् । अन्योन्याश्रयं चेदम्पक्ष
धर्मत्वादिसामर्थ्या
यातपक्षवशेन पक्षधर्मत्वादयः सम्पद्यन्ते । पक्षधर्मत्वादिबलेन
च पक्ष इति । तदत्रोच्यते । न खलु साधनकाले पक्षधर्मत्वादिविकल्पोऽस्ति के
वलं
यत्रैव जिज्ञासितविशेषे धर्मिणि शब्दादौ तु च करीशादिस्थगिततेजसि वा कुण्डादौ
यो धर्मः कृतकत्वधूमत्वादिलक्षणोनुमानतः प्रत्यक्षतो
वा प्रतीयते । प्रत्याय्यते
वा । तद्विशेषयोगितया वा निश्चितेऽपरस्मिन्घटमहानसादावस्थितत्वेन स्मर्यते
तद्विशेषविरहिणि वा गगनसागरादौ नास्तित्वेनै
व स्मर्यते । स वस्तुधर्मतयैव
विनापि पक्षधर्मत्वादिव्यपदेशेन तत् धर्मिणं जिज्ञासितधर्मविशिष्टं सामर्थ्यादेव
प्रतिपादयति । स चास्य सामर्थ्यविषयः पक्ष
इति गीयते । ततः पश्चात् तत्समाश्रय
भाविन्यो यथेष्टपक्षधर्मत्वादिसंज्ञाः शास्त्रेषु संव्यवहारार्थम्प्रतन्यन्ते । यदि वा प्रत्या
लोचनप्रकरणबलात् साधनका
44b लेपि भवन्तु पक्षधर्मत्वादिविकल्पाः । कथं योहि
वस्तुनो धर्मो वादिना विवादास्पदीभूतधर्मिविशिष्टतया साधयितुमिष्टः स पक्षस्तस्य
योन्यो धर्मः स पक्षधर्मः ।
प्रकृतसाध्यधर्मसामान्येन च समानोर्थः सपक्षः । तद्विरही
63 वासपक्ष इति । यस्यापि हि साधनकाले पक्षप्रयोगोस्ति तस्यापि न वाद्यकाण्डमेव
पक्षं जातेऽनि
त्यः शब्द इति । कस्तु प्रस्तावान्तरेना94पि प्रकरणबलेनैव
पक्षधर्मत्वादयोपि वक्तव्या । तच्च पक्षप्रयोगदूषकस्यापि समानं । तस्मा
त्प्रतिज्ञावचनं न साधनां
गं ।


उपनयनिगमनवचनन्तु यथा न साधनाङ्गन्तथोच्यते ॥ तत्रतावदु दाहरणा
पेक्षस्तथेत्युपसंहारो न तथेति वा साधनस्योपनयः
न्या० सू० १।२।३८ । यथा

थेतिप्रतिबिम्बनार्थं । किम्पुनरत्र प्रतिबिम्बनन्दृष्टान्तगतस्य धर्मस्याव्यभिचारत्त्वे
सिद्धे । तेन साध्यगतस्य तुल्यधर्मता । एवञ्चायङ्कृतक इति सा
ध्येन सह
सम्भव उपनयार्थः । ननु च कृतकत्वादित्यनेन सम्भव उक्तः । नोक्तः । साध्यसाधन
धर्ममात्रनिर्देशात् । साध्यसाधनधर्ममात्रनिर्देशः कृ
तकत्वादनित्यः शब्दो भवति ।
तत्पुनः शब्दे कृतकत्त्वमस्ति । नास्तीत्युपनयेन सम्भवो गम्यते । अस्ति च शब्दे कृत
कत्वमिति । तथा च हेतुवचनाद् भिन्नार्थप्रतिपाद
कत्वमुपनयस्याभिन्नरूपत्वे प्रसिद्ध
पर्यायव्यतिरिक्तत्वे च सति हेतुवचनोत्तरकालमुपादीयमानत्वात् दृष्टान्तवचन
वदिति शक्येत अनुमातुं ।


हेत्वपदेशात्
प्रतिज्ञायाः पूनर्वचनन्निगमनं
न्या० सू० १।१।३९
प्रतिज्ञायाः पुनर्वचनमिति प्रतिज्ञाविषयस्यार्थस्याशेषप्रमाणोपपत्तौ विपरीत
प्रसङ्गप्रतिषेधार्थं यत्पुनरभिधानं
45a तन्निगमनं । न पुनः प्रतिज्ञाया एव
पुनर्वचनं । किङ्कारणं यस्मात्प्रतिज्ञासाध्यनिर्देशः सिद्धनिर्देशो निगमनमिति ।
पुनः शब्दश्च नानात्वे दृष्टः पुनरियमचिरप्रभा नि
श्चरति । पुनरिदङ्गन्ध
र्व्वनगरं दृश्यत इति । अत्र च सामर्थ्यादुपनयानन्तरभावी हेत्वपदेशो गृह्यते । न
प्रतिज्ञानन्तरभावी । असम्भवात् । नहि कश्चित्प्रतिज्ञा
नन्तरं हेत्वपदेशान्निगमनं
प्रयुंक्ते । अनित्यः शब्दः कृतकत्वात् । तस्मादनित्यः शब्द इति । अतश्च प्रतिज्ञार्थ
वाक्याद् भिन्नार्थं निगमनवचनं । प्रतिज्ञावाक्याद् भिन्न
रूपत्वे सति हेतुवचनोत्तर
कालमभिधीयमानत्वात् दृष्टान्तवचनवत् । न च साध्यार्थप्रतिपादकन्निगमनं ।
शब्दान्तरोपात्तस्यावधारणरूपेण प्रवृत्तत्वात् । योय
मागच्छत्ययं विषाणीति
केनचिदुक्ते तस्मादनश्व इत्यादिवचनवत् । तस्माच्छब्दसहितं वाक्यम्विचार
विषयाय प्रसाध्यार्थप्रतिपादकन्न भवति । का
रणोपदेशोत्तरकालमुपात्तत्त्वात् ।
दृष्टान्तः पूर्ववत् । तदेतत् प्रतिषिध्यते न खल्वेवं प्रयोगः क्रियते । अनित्यः शब्दः
कृतकत्वात् । प्रतिज्ञाप्रयोग
स्यानन्तरं निराकृतत्वात् । अपि तु कृतकः शब्दः ।
पश्चैवं स सर्वोऽनित्यो यथा कलशादिः । यो वा कृतकः स सर्व्वोऽनित्यो यथा घटादिः ।
64 तथा च कृतकः शब्द इ
त्येवमुभयथा यथेष्टं प्रयोग क्रियते । साध्यसिद्धेरुभ
यथापि भावात् । तत्र यदि कृतकः शब्दो यश्चैवं स सर्व्वोऽनित्यो यथा घटादि
रित्यभिधाय तथा कृत
कः शब्द इति प्रतिबिंबनार्थ
45b मुपनयवचनमुच्यते । तदे95
दमनर्थकं
विनाप्यनेन प्रतिबिंबनेनानन्तरोक्तप्रयोगमात्रात् प्रतीतिभावात् ।
साधनञ्च यदनर्थकं न तत्साधनवाक्ये विद्वद्भिरुपादेयं । तद्यथा दशदाडिमादि
वाक्यं तथा
चानर्थकं प्रतिबिंबनार्थमुपनयवचनमिति व्यापकविरुद्धोपलब्धेः ।
स्वार्थानुमितावप्ययमेव न्यायो दृष्टो नहि कश्चित्सचेतनः कृतकत्त्वस्य भावं शब्दे
गृही
त्वा तस्य चाविनाभावित्वमनुस्मृत्य तथा च कृतकः शब्द इति प्रतिबिम्बनार्थ
करोति । अथापि यः कृतकः स सर्व्वोऽनित्यो यथा घटः । तथा च कृतकः शब्द

ति सम्भवप्रदर्शनार्थमुपनयवचनमुच्यते । तदेतद् द्वयमप्यङ्गीकुर्मः । प्रतिज्ञा
नन्तरभाविनस्तु साधनमात्रनिर्देशमनित्यः शब्दः कृतकत्वादित्येव
न प्रतिपद्यामहे ।
प्रतिज्ञायाः प्रयोगाभावात् । ततश्चोपनयस्यावयवान्तरत्वप्रतिपादनायोक्तो
हेतुरसिद्धतोरगदष्टत्वाङ्गतावशक्त एव । यत्
पुनरिदं सिद्धार्थनिर्देशलक्षणं निग
मनं पौनरुक्त्यपरिहाराय वर्ण्यते तन्नैवोपपद्यते विना निगमनेनार्थसिद्धेरेव पञ्चा
वयवसाधनवादिनोऽनुपपत्तेः
अन्यथा निगमनात् प्रागेवार्थस्य सिद्धत्वात् व्यर्थतया
न साधनाङ्गन्निगमनम्प्राप्नोति । ततश्च नेदमुपादेयं साधनवाक्ये सिद्धमित्य
प्रतिज्ञा । भवेद्व्यामोहो विप्र
तिपन्नस्य प्रमाणान्तरव्यपेक्षा नास्तीति सिद्धमनित्यत्व
मुच्यते । निगमनं तु प्रतिविषयस्यार्थस्याशेषप्रमाणोपपत्तावशेषावयवपरामर्शेनाव
धारणार्थम
46a नित्य एवेति प्रवर्त्तत इति । यदि तर्हि प्रमाणान्तरव्यपेक्षा नास्ति तत्तर्हि
साध्यं सामर्थ्यादवधार्यत एव । तथाहि यदकृतकन्तदनित्यमेव । यथा कुण्डादि
शब्दश्च कृतक
इत्येवमनित्यत्वाविनाभाविनः कृतकत्वस्य शब्दे भावख्यातौ
तत्सामर्थ्यादेवानित्यः शब्द इति निश्चयो भवति तदस्य वचनं सामर्थ्यं प्रतीता
र्थप्रत्यायकत्वात् पुनरुक्तमनु
पादानार्हञ्च । न चात्र विपर्ययप्रसङ्गस्य लेशोप्या
शङ्क्यते । येन तद्व्यवच्छेदाय सफलमेतस्योपादानं स्यात् । अनित्यत्वेनैव कृतकत्वस्य
व्याप्तिप्रसाधनात् । प्रयोगस्तु
यत्सामर्थ्यात् प्रतीयते न तस्य वचनम्प्रेक्षावता
कर्त्तव्यं । तद्वचनम्पुनरुक्तम्वा तद्यथा गेहे नास्ति कुमारो जीवति चेत्येतत्सामर्थ्यात्
प्रतीयंमानस्य तद्वहि
र्भावस्य वचनं । पक्षधर्मान्वयव्यतिरेकतद्वचनसामर्थ्याच्च
प्रतीयते तस्मादनित्य एवेत्येवमादिना पुनः सिसाधयिषितोर्थः प्रथमसाध्यापेक्षया

व्यापकविरुद्धोपलब्धिर्द्वितीयसाध्यापेक्षया च स्वभावहेतुः । अत एव निगमनस्या
वयवान्तरत्वप्रतिपादनायोक्ता हेतवोऽसिद्धाः । तदप्येतेनैव प्र
त्युक्तं । यदाह ।


प्रत्ययेक्ष 96 प्रतिज्ञादीन्वाक्यार्थप्रतिपत्तये ।

65
प्रोच्यमानन्निगमनं पुनरुक्तन्न जायते ॥ १७

विप्रकीर्णौश्च वचनैर्नैकोर्थः प्रतिपाद्यते ।

तेन सम्बन्धसि
ध्यर्थम्वाच्यन्निगमनं पृथग् ॥ १८

इत्यलमतिप्रसारिण्या कथया ॥ ० ॥


अन्वयव्यतिरेकयोर्वेति पर्य्यायान्तरकथनमुपादानमिति न्या० सू० २।१।१२
वर्तते द्वितीयस्यासामर्थ्यं जातायाः
सिद्धेः पुनरजन्यत्वात् । प्रमाण- समुच्चय
टीकाकारास्त्वाहुः नन्वि 6b4 त्यादि । ने 6b4 त्याद्युत्तरः । यदि चेत्युपचय
हेतुः । साधनावयवः प्रतिज्ञां प्राप्नोति नियमेन साध्यप्रतीतिनि
46b मित्तत्वात्
पक्षधर्मादिवचनवत् । सन्दिग्धव्यतिरेको हेतुरिति चेदाह । नहि पक्षधर्मवचनस्या
पीति
6b6 । तत्तुल्यमिति विरुद्धानैकान्तिकयोः पक्षधर्मसद्भावेप्यगमकत्वात्

तत एवसंसयो97त्पत्तेः पक्षधर्मवचनन्न साधनं साधारणादिवचनवदिति
चेदाह । ऐतेन 6b7 तत्तुल्यमित्यादिना संशयोत्पत्तिः प्रत्युक्तेति । एतदेव व्यनक्ति
पक्षधर्म
वचनादपीति । तदनेनानन्तरस्य हेतोर्व्यभिचारङ्कथयति ।


ननु च पक्षधर्मस्य श्रावणत्वादेरप्रदर्शिते सम्बन्धेनैव साधनावयवत्वमतो विपक्ष
त्वाभावान्न व्यभि
चारः । प्रदर्शिते तु सम्बन्धे साधनावयवत्वं तदा च तस्मात् संशयो
नास्तीति सुतरान्नानेकान्त इति ॥ एवं मन्यते । पक्षवचनेपि तुल्यमे 6b6 तदिति
तदपि सा
धनं स्यात् । अथ प्रतिपद्येथा सत्यं स्याद्यदि साध्यं स्यान्न चास्त्यन्यतः
66 साध्यसिद्धः । न च निष्पादितक्रिये दारुणि दात्रादयः कञ्चनार्थं पुष्यन्ति । अप्रदर्शिते
तु संब
न्धे संशयोत्पत्तिहेतुत्वादिदमुक्तन्तत एवसंसयो98त्पत्तेरिति ।
यद्येवं न तर्हि तत्प्रयोगमन्तरेण साध्यसिद्धेरभाव इति व्यर्थ एव तत्प्रयोगः स्यात्

अन्यथा कः पक्षवचनं साधनादपाकर्त्तुं समर्थः । ततश्च त्रिरूपलिङ्गा ख्यानं परार्थ
मनुमानमित्याद्याचार्यवचो व्याहन्येत । कथं तर्ह्युक्तं ।


पक्षधर्मत्वसम्बन्धसाध्योक्तेरन्यवर्जनमिति नास्ति विरोधः । पक्षधर्मत्वसंबन्धा
भ्यां साध्यस्योक्तिप्रकास99नमाक्षेपस्तस्मादन्येषां पक्षोपनयवचनादीना
मुपादेयत्वेन साधनवाक्यवर्जनमि
47a ति व्याख्यानात् । विवरणेप्ययमर्थो यस्मात्
पक्षधर्मत्वसम्बन्धवचनमेवान्वयव्यतिरेकाभ्याम्विवक्षितार्थसिद्धिकारणं युक्तं नान्यत् ।
तस्मादनुमेयस्योपदर्शनार्थ
सिद्ध्यर्थं पक्षवचनमुपादेयं नान्यदित्युपस्कारः । पक्ष
उच्यते आक्षिप्यते प्रकाश्यते अनेनेति पक्षवचनन्त्रिरूपं लिङ्गं । आक्षेपो ह्यभि
धानतुल्य इति वचनमित्युक्तं वचेर
नेकार्थत्वाद्वा । अस्माकं तु


तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत १९

इत्यपि वचनं विरुध्यते । यस्मा


तत्रेति तर्कशास्त्रस्य सम्बन्धोत्राभिधीयते ।

प्रयोगस्य तु सम्बन्धे बहु स्यादसमं
जसं ॥ २०

तस्यैव प्रकृतेरुक्तमेतच्चास्यैव लक्षणे ।

परविप्रतिपत्तीनान्निषेधाय विशेषत ॥ २१

इत्यलं प्रसङ्गेन ॥ ० ॥


तद्भावरूपं साधनमङ्गन्धर्मो विषयित्वेन । यस्यार्थस्य
प्रस्तुतस्य स साध
67 नाङ्गस्तस्यैवाभिव्यक्तिरुत्तरेण पदद्वयेन ॥ अजिज्ञासितं प्रतिवादिनाऽशास्त्राश्रय
व्याजादिभिरित्यादिपदेनासम्बद्धप्रसङ्गपरिग्रहः । प्रक्षे
पो नाममात्रेण घोषणं
विस्तरेण । यथा बुद्धीन्द्रियदेहकलापव्यतिरेकात्मास्ति नास्तीत्येतावत् मात्रे
वुभुस्तिते नैयायिकाः प्रमाणयन्ति । सदाद्यविशेषवि
षया विषयज्ञेयविषया मदीयाः
प्रत्यक्षादयः प्रत्यया मदीयशरीरादिव्यतिरिक्तसम्वेदकसम्वेद्याः स्वकारणायत्त
जन्मवत्वादिभ्यः पुरुषान्तर
प्रत्ययवदिति ततः सदनित्यन्द्रव्यवत् कार्यकारणं
सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष इति महता व्यासेन सदाद्यविशेषाद्
व्याचक्षते । नह्यत्र स
दाद्यविशेषविषया विषयज्ञेयविषयत्वन्धर्मविशेषणं कथं
चिदपि प्रकृतसाध्यसिध्युपकारि । परव्यामोहनानुभाषणशक्तिविघातादिहेतो
रित्यत्रादिश
ब्देनोत्तरप्रतिपत्तिशक्तिविघातहेतोः परिग्रहः क्रियमाणः प्रसङ्गो
68 यस्येति विग्रहः । नैरात्म्यवाद्युदाहरणेन किं ज्ञापयति । यत्र नाम विहितप्रतिसिद्धो100वा
47b दिदोषगुणसौगतधर्मविनयस्याप्यहङ्कारनिमित्तसकलोद्ध
वादिमलक्षालनायोद्यतमत्रैव नात्मवादिनस्तत्साधने नृत्यगीतादेः प्रसङ्गः ।
तत्रान्येषामन्यस्य च का ग
णना । ननु च वयं बौद्धा ब्रूम इति कथं यावता
सविशेषणस्य प्रतिषेधाभिधानात् । अहम्बौद्धो ब्रवीमीति भवितव्यं । यथाहंगार्गो101ब्रवीम्यहं पटु ब्रवीमि इति न च बहु
ष्वेवेतद्वहुवचनमिति
पाणिनिः
२।४।२१
शक्यमभिधातुँ कश्चिदिति वचनात् । नैव यस्मादसावात्मनि परान्
स्वयूथ्यानप्यन्यान्बहूनपेक्ष्य तथा प्रयुक्तवान् । ईदृश्यामेव च वादिनो विवक्षा
यामिद
मुक्तमुदाहरणं नान्यस्यामिति प्रतिपत्तव्यं अथवा जडशाब्दिकाभिनिवेशनिवा
रणायेदमेवमुक्तं तथा च व्यर्थता शब्दानुसासन102स्य प्रतिपादयि
ष्यति ।
अत एवान्येन महारथेनापीदं प्रयुक्तं ॥

त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता । २२
इति ।


सभ्यः साधुसंमतानामित्युपहसति । अहो
शब्दश्चेहाध्याह्रियते । द्वादशा
नाम्प्रमाणादिलक्षणानां यः प्रपञ्चो विस्तरस्तस्य प्रकाशनाय यच्छास्त्रं मीमांसा
ख्यं तस्य प्रणेता स चासौ जैमिनिश्च तेन प्र
तिज्ञातं यत्तत्वं नित्यताभिधानं ।
69 तस्याधिकरणं यः शब्दः स च घटश्च तयोरन्यतरस्तेन स द्वितीयो घट इतीत्थं
प्रतिज्ञामुपरचय्य द्वादशलक्षणादिव्याख्यानङ्करो
ति । प्रमाणलक्षणमेव तावदेकं
महता कालेन व्याचष्टे । चोदनालक्षणो धर्म मीमांसा सू० १।१।२ श्चोद
नेति क्रियायाः प्रवर्तकम्वचनमाहुश् चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यव
हि
48a तं विप्रकृष्ट... मर्थं शक्नोत्यवगमयितुं नान्यत् किञ्चनेन्द्रियं
103 तथाहि
सत् संप्रयोगे पुरुषस्येन्द्रियाणाम्बुद्धिजन्म तत्प्रत्यक्षं । अनिमित्तं विद्यमानोप
लम्भनत्वादि
मीमांसा सू० १।१।४ त्यादिना । संस्कारदुःखतासिद्धिमन्तरेण
नानित्यतासिद्धिरप्रतीत्य समुत्पन्नस्य क्षणिकत्वायोगात् । स तर्हि तादृशो धर्मः
पृथग्वाच्यो नेत्याह । तथाविधस्त्वित्या
दि । एवंविधस्यापि प्रस्तुतसाध्यधर्म
नान्तरीयकस्य प्रतिवादिनाऽजिज्ञासितस्य तद्व्यतिरेकेण प्रतिज्ञायामन्यत्र चाहेतु
दृष्टान्तयोः कदा पुनरेतदसाधना
ङ्गवचनं यथोक्तं निग्रहस्थानमित्याह । प्रतिवादिना
तथाभावेऽसाधनाङ्गत्वे प्रतिपादिते सति । यदा तु न प्रतिपादयति तदा द्वयोरेकस्यापि
न जयपराजयौ भवत
कुतः साधनानभिधानान्न वादिनो जयः । प्रतिवादिना
तथाभावस्याप्रतिपादितत्वाच्च पराजयोपि नास्त्येव । तस्य प्रतिपन्नापेक्षत्वात् ।
अत एव प्र
तिवादिन्यपि तयोरभावः ॥ ४ ॥


सम्प्रति प्रतिवादिनो निग्रहस्थानमधिकृत्याह । अदोषोदूभावनमित्यादि 7b6
यत्र विषये जिज्ञासिते अजिज्ञासिते
पुनर्दोषस्यानुद्भावनेपि नापराध इत्यभिप्रायः ।
के पुनस्ते साधनस्य दोषा इत्याह । न्यूनत्वं षट्प्रकारमेकैकद्विद्विरूपानुक्तौ
स्यान्मतिः सपक्ष
विपक्षयोः सदसत्त्वयोर्यौगपद्येनाप्रयोगे कथञ्च प्रकारात् न्यूनतोच्यते
यदा सर्व्वोपसंहारेण व्याप्तिव्यतिरेकाभ्यान्तदाक्षेपोपि नास्ति तदेयं व्यवस्थाप्यते ।
70
थोच्यते तदाप्यप्रदर्शितान्वयव्यतिरेकादिदृष्टान्तदोषो भवति । भवत्व
यमपरोस्यापराधो न ह्येकदोषालीढान्येव साधनानि भवन्ति त्रयो हेत्वाभासा दृष्टा
न्ता
48b भासाश्चाष्टादश न्यायविन्दौ तृतीये परिच्छेदे सोदाहरणा प्रपञ्चेन
द्रष्टव्याः । तेषामनुद्भावनं पर्यायशब्दद्वयेन व्याचष्टे । तच्चानुद्भावनं त्रिभिः
कारणैरित्याह । ततः पुनः
साधनस्य निर्दोषत्वादित्यादि


ननु च युक्तो निर्दोषे साधने प्रतिवादिनो दोषानुद्भावनान्निग्रहः ।
सदोषे त्वज्ञानासामर्थ्याभ्यामनुद्भावनेपि दोषस्य दुष्टसाधनप्रयो
गाद्वादिन एव
पराजयो युक्तो न प्रतिवादिन इति । अत्राह । न हि दुष्टसाधनाभिधानेपीति 7b8
यद्येवं दुष्टेनापि साधनेन वादिना प्रतिवादिनस्तिरस्कृतत्वात् कस्माज्ज
यो
न भवति तस्येत्याह । केवलमित्यादि 7b9 । यद्येवं किन्न पराजयः । तत्वसिद्धि
भ्रंशादिति चोद्यं । नानिराकरणादित्याद्युत्तरं । दुर्जनानाम्विप्रतिपत्तिरशोभनो
व्य
वहारः तस्मान्न योगविहितो न्याय्यः कश्चिद्विजगीषुवादो नाम यच्छला
दिभिः क्रियत इत्यध्याहारः । उक्ते सति न्याये तत्वार्थी चेत् प्रतिवादी प्र
तिपद्येत
तमर्थं न्यायोपेतं । अथ स्वपक्षरागस्य वलीयस्त्वादुक्तेपि न्याये न प्रतिपद्येत । तदा
तेन प्रतिवादिना तस्य न्यायस्यार्थस्याप्रतिपत्तावन्य
समीपवर्त्त्यात्मज्ञो जनकायो न
विप्रतिपद्येतेति कृत्वा न्यायानुसरणमेव सतां वाद इति वर्त्तते । तत्वरक्षणार्थमिति
परः । यथोक्तं तत्वाध्यवसाय
संरक्षणार्थञ्जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं
कण्टकशाखावरणवदिति
न्या० सू० ४।२।५० । नेत्याद्याचार्यः । एवन्तत्वं
सुरक्षितम्भवति । एकान्तेन प्रतिद्वन्द्युन्मूलनादिति भावः ।
तदभाव इति साधन
प्रख्यापनसाधनाभासदूषणयोरभावे । अन्यथापीति मिथ्याप्रलापाद्यभावेपि ॥ ० ॥


कथमसौ न दोषः साधनस्येत्याह । तस्य दोषत्वे
नाभिमतस्य भावेपि सिद्धेर्वि
71 धाताभावात् । साधयितुमनिष्टोप्याकाशगुणत्वादिकार्यत्वेनानित्यत्वमात्रसाधने
ध्वनौ विवक्षिते सति काणादाः केचिच्चोदयन्ति
49a न्यायानभिज्ञाः । शास्त्रोपगमात्
सर्व्वस्तदिष्टः साध्यः । तत्प्रधाने च हेतुप्रतिज्ञयोर्दोष इति तच्चायुज्यमानं शास्त्रा
श्रयेप्यस्त्यपगतमात्रस्यैव साध्यत्वात् । अन्यथा गन्धे भूगुणताविपर्ययसाधनादय
मेव हेतुरस्यामेव प्रतिज्ञायां विरुद्धः प्राप्नोति तथेदमपरमदोषोद्भावनं ।
यथाह भारद्वाजो नास्त्यात्मेति प्रतिज्ञापदयोः
रस्परविरोध इति । यस्मादात्मेति
वस्त्वभिधीयते नास्तीति तस्य प्रतिषेधः । इदमप्ययुक्तमनादिवासनोद्भूतात्मविक
ल्पपरिनिष्ठितप्रतिभासभेदस्य श
ब्दार्थस्य परेष्टानित्यचित्तत्वादिविशेषणात्म
72 लक्षणभावोपादानत्वस्य निराचिकीर्षितत्वात् । अत्रैव हि धर्मिणि व्यवस्थिताः
सदसत्वञ्चिन्तयन्ति सन्त
किमयमात्मविकल्पप्रतिभास्यर्थो यथाभिमत
भावोपादानो न वेति । न तु पुनरत्रायमेव विकल्पप्रतिभास्येवार्थोऽपह्नूयते तस्यैव
बुद्धावुपस्थाप
नाय शब्दप्रयोगात् प्रत्यात्मवेद्यत्वाच्च । विकल्पप्रतिबिम्बव्यतिरिक्तं
तु बाह्यं स्वलक्षणं नैव शब्दार्थ इति न तस्य विधिर्नापि प्रतिषेधणं104
अन्यथा


परमा चै
कतानत्वे शब्दानामनिबन्धना

न स्यात् प्रवृतिरथेषु दर्शनान्तरभेदिषु ॥ २३

अतीताजातयोर्वापि न च स्याद नृतार्थता ।

वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता
२४

73

स चायम्विकल्पो भावोपादानत्वेन निराचीकीर्षितो देशकालप्रतिनियतिमन
पेक्ष्य विकल्पप्रतिबिंबविषयत्वादेव चात्मशब्दस्य न निर्विषयत्वमस्ति । ततश्च
यदु
क्तं यच्च यत्र प्रतिषिद्ध्यते तत् तस्मादन्यत्रास्ति । यथा नास्ति नासमाना
धिकरणो घटशब्दो न घटाभावं प्रतिपादयितुँ शक्नोति । अपि तु देशकालविशेषात्
प्रतिषेधाग
49b ति । नास्ति घट इति देशविशेषे प्रतिषेधो गेहे नास्ति इति । कालविशेषे
वा प्रतिषेधः । इदानीं नास्ति । प्राग्नास्ति । ऊर्ध्वं नास्ति । सर्व्वस्यायं प्रतिषेधो
नाननुभूतघटसत्व
स्य युक्तः । तथा नास्त्यात्मेति किमयन्देशविशेषः प्रतिषिध्यते ।
उत्तरकालविशेष इति । यदि तावद्देशविशेषप्रतिषेधः । स आत्मनि न युक्तोऽदेश
त्वादात्मनः । न च देशविशेषप्रतिषेधादात्मा प्रतिषिद्धो भवति । न चायम्भवता
मभिप्रायः । शरीरमात्मा न भवतीति चेत् । कस्य वा शरीरमात्मा यं प्रति प्रतिषेधः ।
शरीरे नास्त्या
त्मेत्येवं प्रतिषेध इति चेत् । कस्य शरीरे आत्मा यं प्रति प्रतिषेधः ।
क्व तर्ह्यात्मा । न क्वचिदात्मा । किमयं नास्त्येव । न नास्ति विशेषप्रतिषेधात् ।
केयं वाचो युक्ति
र्न्न शरीरे नान्यत्र । न च नास्ति । एषैवेषा वाचो युक्तिः । यद्यथा
भूतन्तत्तथा निर्दिश्यत इति न चायमात्मा क्वचिदपीति । तस्मात्तथैव निर्देशः । न च
कालविशेषे
प्रतिषेधो युक्तः । आत्मनि त्रैकाल्यस्यानभिव्यक्तेरात्मप्रतिषेधञ्च
कुर्वाणेनात्मशब्दस्य विषयो वक्तव्यः । न ह्येकं पदं निरर्थकं पश्यामः ॥ अथापि
शरी
रादिषु आत्मशब्दं प्रतिपद्येथाः । एवमप्यनिवृत्तौ व्याघातः कथमिति । नास्त्या
त्मेत्यस्य वाक्यस्य तदानीमयमर्थो भवति शरीरादयो न सन्तीति । एवमादि बह्व
सं
बद्धं तदपहस्तितम्भवति । प्रतिज्ञार्थैकदेश इत्येतदप्यसत् सामान्यविशेषस्याभा
वात् । यद्वा न प्रयत्नानन्तरीयकत्वस्य प्रतिज्ञार्थैकदेशता धर्मिणमुपलक्ष्य निवृत्त
त्वात्
50a यस्य हि यदुपलक्षकं न तस्य तदेकदेशत्वं यथा न काकस्य गृद्धैकदेश-
त्वमिति ॥

  1. ? र्म्य

  2. ? र्थ्य
  3. ? स
  4. न्यायविन्दावपि - तत्स्वभावत्त्वात्तत्स्वभावस्य च हेतुत्त्वात् तृ० परि० पृ० ६९ Kashi Sanskrit Series.


  5. ? र्थ्यं
  6. ? शि
  7. ? सा
  8. ? श्च
  9. ? षि
  10. ?
  11. ? त
  12. ? तं
  13. ? ण
  14. ? न्नि
  15. ? न
  16. न्यायविन्दौ द्वितीयपरिच्छेदे लिङ्गस्य त्रिषु भेदेष्वेकः ।

  17. ?
  18. ? मु
  19. नै ?
  20. ? शा
  21. ? सा
  22. ? शा
  23. ? र्या
  24. ? श
  25. ? न्यः
  26. ? शा
  27. ? मै
  28. ? तत्
  29. ? ष
  30. ? शी
  31. ? ध्या
  32. ? सकाशा
  33. ? तपस्विना

  34. ? श्य
  35. ? शा
  36. ? ना
  37. ? शा
  38. ? स्यान्मतं
  39. ? र्थ
  40. ?
  41. ? यं
  42. ? षित
  43. ? पन्न
  44. ? इतीन्दीवर
  45. ? निर्वर्त्तन
  46. ? वशा
  47. ? वशा
  48. ? वशा
  49. ? यश्चे
  50. ? न
  51. ? शरीरा
  52. ? शात्
  53. ?
  54. ? वशा
  55. ?
  56. ? श
  57. ? निर्वर्त्तने
  58. ? बशा
  59. ?
  60. ? शक्ति
  61. ? न्या
  62. ? णा
  63. ? स
  64. ? प्रयोगः
  65. ? मुखेन
  66. ? वशात्
  67. ? शङ्क
  68. ?
    कश्मीरा
  69. ? मुखेन
  70. ? घटादे
  71. ? विनाश

  72. ? प्रयोगः
  73. ? ज्ये

  74. ? मुखेन
  75. ? विनाशा
  76. ? गः
  77. ?
  78. ? शा
  79. ? सकाशा
  80. ? प्रयोगः
  81. ? शब्दो
  82. ? व्यपदिश्यते
  83. ?

  84. ? प्रयोगः
  85. ? श्यं
  86. ? शरणं
  87. ?
    प्रयोगः
  88. सांख्यकारिका ।

  89. ? शय
  90. ? शङ्का
  91. ? दिशा

  92. ? व्युत्पन्
  93. ? शोभेत
  94. ? रेणा
  95. ? दि
  96. ?
  97. ? संशयो
  98. ? संशयो
  99. ? प्रकाश
  100. ? प्रतिषिद्धो

  101. ? गार्ग्यो
  102. ? नुशासन
  103. मीमांसाशबरभाष्ये १।१।२

  104. ? नं