3
विधिरिति सिद्धा व्यापकविरुद्धोपलब्धिः2, अतो नाऽऽरम्भणीयमेतत्प्रकरण
मिति । तान् प्रत्याह—साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः । बोधं विधौ
समायत्तमिति । मा भूवन्नन्यानि प्रयोजनानि विधेः । पुरुषार्थसाधनता
ऽवबोधस्तु विधिनिबन्धनः । न हि स्वर्गकामो यजेते-ति विधौ असति स्वर्गो
भावनाया भाव्यः सम्भवति । सा हि भाव्यमात्राऽपेक्षिणी । भविता च
भाव्यो यागादयश्च भवितार इति समानपदोपादानतया प्रकृत्यर्थतया च
तदनुरक्ताया एव भावनायाः प्रतीतेः स्वर्गस्य च पदान्तरोपादानतया
पुरुषविशेषणतया च व्यवस्थानात्तमपहाय यागादीनेव3 भाव्यतया भावना
गृह्णीयात् । कर्त्रपेक्षितोपायतारूपविध्युपहितमर्यादा पुनरियं भावना समान
पदोपादानमपि प्रथमाऽवगतमपि दुःखाकरतया कर्त्रनपेक्षितमपहाय
धात्वर्थमसमानपदोपादानमपि पुरुषविशेषणमप्यपेक्षिततया स्वर्गमेव
भाव्यमवलम्बते । समासादिततयाविधभाव्या च यागादीन् करणतया
स्वीकरोतीति पुरुषार्थसाधनता तेषां सिद्धा भवति । कथं तर्हि वर्तमानाऽप
देशेभ्यो लोके4 पुरुषार्थसाधनताऽवगतिः ? प्रमाणान्तरवशान्न शब्दसामर्थ्यात् ।
यथा चैतत्तथा द्रव्यसंस्कारकर्मस्विति चाऽसाधकं तु तादर्थ्यादिति च
व्याचक्षाण उपपादयिष्यति स्वयमेवाऽऽचार्यः ।
नन्वेष विधिः शब्दात्प्रसिद्धो वा स्यादप्रसिद्धो वा ? स चेत्प्रसिद्धो,
नाऽनेन प्रकरणेन प्रतिपादनीयः । शब्दप्रतिपन्नस्याऽप्रतिपित्सितत्वात् ।
निष्पादितक्रिये कर्मणि साधनस्य तत्राऽनुपपत्तेः । अप्रसिद्धश्चेन्नितरां वेदार्थ
तया प्रतिपाद्यः । तस्मादनर्थकमेतद्विषयं प्रकरणमिति । अत आह—अतः स
प्रविविच्यते इति । सत्यं शब्दाऽवगम्योऽपि विधिर्विप्रतिपत्तेः साधकबाधक
प्रमाणविरहे सति संशयमापन्नः सन्5 प्रतिपित्सित उपपत्त्यनुपपत्तिभ्यां
परीक्ष्य शङ्कितसमारोपितरूपव्यवच्छेदेन यथावत्प्रतिपाद्यते । तदुच्यते6—
विविच्यते इति ।
नन्वस्य विवेकोऽपि वार्तिककृत्प्रभृतिभिरकारीति सोऽपि व्यर्थ
एवेत्यत आह—प्रेति । कृतोऽपि तैर्विवेकोऽकृतकल्प एव । अभिधाभावना
माहु7 रित्यादिसङ्कीर्णशब्दप्रयोगात् । इह तु कर्तुरिष्टाऽभ्युपाय इति