4

स खलु शब्दभेदो वा, तद्व्यापाराऽतिशयो वाऽर्थभेदो वा ? यद
भिधानाच्छब्दोऽपि तथा व्यपदेश्यः ।


प्रमाणत्वादनियमात्प्रवृत्तेः संविदाश्रयात् ।

समभिव्याहृतेः शब्दो न विधिः कार्यकल्पनात् ॥

प्रमाणं हि शब्दः प्रतिज्ञायते । बोधकं च प्रमाणम् । तत्र प्रवृत्तिहेतुं
कञ्चनाऽर्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणतामश्नुते । स्वयमेव
तु प्रवृत्तेः कारकस्तां प्रमाणतामपजह्यात् । न हि कारको हेतुः प्रमाणम् ।
अपि तु ज्ञापकः ।


निष्कृष्याऽभिधानात् तस्य च व्युत्पादनात्प्रकर्षोपपत्तेरर्थवदेतत्प्रकरणमिति8
तत्र प्रथमं तावद्विप्रतिपत्तिनिमित्तं विमर्शमाह—स खलु शब्दभेदो वा ।
लिङादिः शब्दान्तराद्भिद्यते इति भेदः । तस्य खलु लिङादेरयस्कान्त
मणेरिव वस्तुस्वभावजोऽतिशयो येन लोहमिव चेतनं प्रवर्तयति ?,
तद्व्यापाराऽतिशयो वा, प्रवृत्तिहेतुरुपेयते अर्थभेदो वा वक्ष्यमाणभेदः । ?
यद्यर्थभेदः, कथं तर्हि चोदनेति क्रियायाः प्रवर्तकं वचनमिति विधिना त्वेक
वाक्यत्वादिति चेत्यत आह—यदभिधानाच्छब्दोऽपि तथा व्यपदेश्यः ।


तत्र शब्दस्वरूपस्य तावद्विधिभावं निषेधति—


प्रामाणत्वादनियमात् प्रवृत्तेः संविदाश्रयात् ।

समभिव्याहृतेः शब्दो न विधिः कार्यकल्पनात् ॥

कारिकां व्याचष्टे—प्रमाणं हि शब्दः प्रतिज्ञायते चोदनालक्षणोऽर्थो
धर्म इति । बोधकं च प्रमाणम् । अबाधिताऽनधिगताऽसन्दिग्धाऽर्थप्रमाजनकम् ।
तत्र च प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणता
मश्नुते शब्दस्वरूपविधिवादिनां मते । स्वयमेव तु प्रवृत्तेरप्रमायाः कारकस्तां
प्रमाणतामपजह्यात् । नन्वप्रमाया9 अपि प्रवृत्तेः कारकः कस्मान्न प्रमाणमत
आह—न हि कारको हेतुः प्रमाणम् । मा भूद् वीजादीनामङ्कुरादिकारकाणां
प्रामाण्यम् । किं तर्हि प्रमाणकमित्यत आह—अपि तु ज्ञापकः । इन्द्रियादौ
तथाभावात्10


ननु मा नामवादीत्प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयम्, अस्तु शब्दः
स्वयमेव प्रवृत्तिहेतुः । तथापि यत्र प्रवृत्तिरनेन जनयितव्या तद्विषयः11 पुरुषस्य

  1. इति सिद्धम्॰ २ पु॰ पा॰

  2. नन्वयमप्रमायाः २ पु॰ पा॰

  3. तथा भावात् प्रवृत्तिहेतुभूतमर्थं प्रमापयत एव प्रामाण्यात् २ पु॰ पा॰

  4. स विषयः २ पु॰ पा॰

  5. प्रभेदः २ पु॰ पा॰