5
विषयाऽवबोधनान्न दोष इति चेत् ? न । तन्मात्रस्याऽन्यत्राऽपि
तुल्यत्वात् । चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमाऽनर्थक्यात् । शब्दस्वा
तन्त्र्ये च नियोगतोऽवश्यं प्रवृत्तिः स्यात् । तथा चाऽकुर्वन् विहितं कर्मेति
निर्विषयं स्यात् । न हि तदानीं बलवदनिलसलिलौघनुद्यमानस्येवेच्छाऽपि
तन्त्रं प्रवृत्तिं प्रति पुरुषस्य । ज्ञापकश्च स्वरूपकर्मसम्बन्धविषयज्ञानम
पेक्षते । लिङादिस्वरूपं च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्ध
विषयसंविदो ऽपि पुंसः प्रवृत्तिप्रसङ्गः ।
व्यापारो बोध्यते13 इति कारकहेतोरपि विषये प्रमाजनकत्वात्प्रमाणतोप
पत्स्यते । अङ्कुरस्येव पचादिहेतोः स्वाकारणं प्रमाषयत इति शङ्कते—
विषयाऽवबोधनान्न दोष इति चेत् ? । निराकरोति—नेति । कुतः ? तन्मा
त्रस्याऽन्यत्रापि14 वर्तमानापदेशेऽपि चैत्रः पचतीत्यादौ तुल्यत्वात् । न हि
तत्र भावना यत्र नाऽबगम्यते । अस्तु तुल्यता, का नो हानिरित्यत आह—
चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमाऽऽनर्थक्यात् । प्रवर्तकत्वं चोदनात्वं
प्रवृत्तिहेतुं कञ्चनाऽर्थाऽतिशयमवगमयन्ननेन रूपेण प्रामाण्यमश्नुते, न भावना
मात्रवचनत्वेन । तस्याऽन्यत्राऽपि तुल्यत्वात् । तस्माद्येन रूपेण प्रामाण्यं
न तेन चोदना, येन चोदना न तेन प्रामाण्यम्, तस्य प्रवृत्तिं प्रति कारकत्वा
दित्यर्थः । प्रमाणत्वादिति हेतुं व्याख्याय अनियमात् प्रवृत्तेरिति व्याचष्टे,
शब्दस्वातन्त्र्ये च पुंसः प्रवृत्तौ नियोगतोऽवश्यं प्रवृत्तिः स्यात् । भवतु, को
दोष ? इत्यत आह—तथा चाऽकुर्वन् विहितं कर्मेति धर्मसूत्रकारवचनं
निर्विषयं स्यात् ।
नन्विच्छाधीनप्रवृत्तित्वात्पुंसां तस्याश्च कादाचित्कत्वात् न विहिते
ऽप्यवश्यम्भावनियमः प्रवृत्तेरिति सम्भवति विहिताकरणेन15 निर्विषयता
वचनस्य, इत्यत आह—न हि तदानीं बलवदनिलसलिलौधनुद्य
मानस्येवेच्छाऽपि तन्त्रं प्रवृत्ति प्रति पुरुषस्य । संविदाश्रयादिति व्याचष्टे—
ज्ञापकश्च स्वरूपतत्कर्मसम्बन्धविषयज्ञानमपेक्षते, न तु कारकः16 । लिङादि
स्वरूपं च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्धविषयसंविदोऽपि
पुंसः प्रवृत्तिप्रसङ्गः । एतदुक्त भवति, स्वकार्ये संविदाश्रयत्वं ज्ञापकत्वेन