86

विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादध्यवस्यन्ति422 ।
तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र
प्रत्यक्षं केवलमेव प्रमाणमिति ॥


423आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः ॥


यस्मादिति । दृश्यत्वेन दर्शनविशिष्टत्वेन । प्रकारान्तरं निरस्यति नेति । उत्प्रेक्षितत्वं
साक्षात्करणाभिमानशून्यज्ञातृत्वम् ।


ननु विकल्पव्यापारो दर्शनम् । ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का
क्षतिरित्याशङ्क्याह--दर्शनञ्चेति । चो यस्मादर्थे । यद्येवं कस्तर्हि विकल्पव्यापार इत्याह—
उत्प्रेक्षणमिति ।


एतदेव तथाहीत्यादिनाऽवस्यन्तीत्यनेन424 ग्रन्थेन समर्थयति ।


भवत्वेवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्याशङ्क्यो
पसंहारापदेशेनाह--तस्मादिति । एतच्च सुबोधम् ।


एवमभिधाने चायमस्याशयो बोद्धव्यः । स्यात्खलु विकल्पस्यापि प्रामाण्यं यद्यसौ
स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते । न चायं तथा व्याप्रियते । स्वीकृतप्रत्यक्ष
व्यापारस्यैव प्रवृत्तिदर्शनात् । स च दर्शनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति
कथमयमपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत ।


अथ प्रत्यक्षं तावत्स्वप्रामाण्यव्यव37a हाराय तमपेक्षते । ततः सोऽपि प्रमाणमेवेति
मतिस्तर्हि पिता पितृव्यवहारायावश्यं पुत्रमपेक्षत इति पुत्रोऽपि पिता प्रसज्यत इति
कृतमतार्किकवचनविचारणयेति सर्वमवदातम् ॥


॥ पण्डितदुर्वेकविरचितधर्मोत्तरनिबन्धस्य धर्मोत्तरप्रदीपसंज्ञितस्य प्रथमः परिच्छेदः ॥



  1. भवादवस्यन्ति A. C. P. H. E. N.

  2. प्रमाणमिति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः ॥ मङ्गलमस्तु ॥ A.
    प्रमाणमिति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः । C.

  3. त्यन्तेन