247

समुदायमात्रवाद एवायमन्यः, तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवत्तु अयुग
पदवस्थावृत्तेः क्षणिकवादः वासोवत्, चतुर्ज्ञानमात्रत्वात् कल्पनाज्ञानमात्रसत्यं
न किञ्चित् तदाभासज्ञानबहिर्भूतं स्वप्नवदिति विज्ञानव्यतिरिक्तार्थशून्यवादः ।


अचिन्त्यमेवेदं चिन्त्यते । ऊर्ध्वमधस्तिर्यक् क्वचित् तत्त्वैक एव व्यवस्थितः
पुरुषः, अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वात्, वृक्षवत् ।


पन्नम् । पुरुषादि इति सामान्येनोपक्रम्य पुरुषो नाम इति पुरुषस्यैवाभाववचनं विधिविधिनयविकल्पानां
पुरुषस्य प्रथमत्वात् तद्दूषणेनातिदेक्ष्यमाणत्वात् । पुरुषवादे प्रस्तुते कथं पुरुष एवासन्नित्यापाद्यत इति
चेत्, उच्यते--यस्मात् समुदयिमात्रसमुदायाभ्युपगमाद् रूपादिस3003मुदायवत् समुदायमात्रवाद
3004वायमन्यः,
स एवायं बौद्धपरिकल्पितरूप-वेदना-विज्ञान-संस्कार-संज्ञास्कन्धसमुदा3005यः पुरुषोऽङ्गुलिमुष्टिवत्
बलाकापङ्क्तिवत् अक्षोद्धिचक्रपञ्जरा3006णीषाक्षपरयुगसमिलादिरथवदिति समुदयवाद ईषन्मषीम्रक्षितकुक्कुटवत्
पुरुषप्रत्याख्यानफलोऽन्यवदाभाति सुप्तसुषुप्तजाग्रत्तुरीयावस्थासंज्ञाभेदात् । युगपद्भाविरूपादिगुणसमुदायवाद
तुल्यो युगपदव3007स्थचतुरवस्थासमुदयवाद इति एष देशभिन्नरूपादिसमुदयवादतुल्यः । नायं देशभिन्नरूपादि- १७८-२
समुदयवादतुल्य एव, किं तर्हि ? कालभेदभिन्नायुगपद्भाविसततसंवृत्तजनननिधननामरूपवादतु3008ल्यः क्षणिक
वादोऽपि, यस्मात् तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवत्त्वयुगपदवस्थावृत्तेः क्षणिकवाद इति,
सुषुप्तसुप्तजाग्रत्परमविनिद्रावस्थाविशुद्धिक्रमान्यथावृत्त्यभ्युपगमादवस्थाक्षयोऽन्यथात्वम्, अ3009न्ते च क्षयदर्शना
दादौ क्ष3010योऽनुमेयोऽवस्थानामिति क्षणिकवादः । को दृष्टान्तः ? वासोवत्, यथा वस्त्रं क्षणे क्षणे
जीर्यज्जीर्यदन्ते विशीर्यते तथावस्था अपि । न केवलं समुदयक्षणिकवादावेव, किं तर्हि ? शून्यवादोऽपि,
तद्यथा --चतुर्णाज्ञा ?नेत्यादि, यथा पुरुषवादिना चतस्रोऽवस्थाः पृथक् परिगृह्य तास्वपि ज्ञानमेव
सुप्तत्वात् सुप्तपुरुषवत् सुषुप्तत्वाद् मदिरामत्तवदित्यादिना प्रतिपादितम्, त3011था तथा रूपाद्यमूर्तमूर्त्त्यापत्त्या
त्वयैव रूपणाद् रूपम् इति च ज्ञानात्मना चैतन्यस्वरूपादनपेता रूपरसादिघटादिसृष्टिश्चानेकधोपपा
दिता, सा च कल्पनाज्ञानम्, तन्मात्रमेव सत्यम्, न रूपादि किञ्चित् तदाभासज्ञानबहिर्भूतं स्वप्नवत्,
यथा स्वप्ने सिंहाद्याभासज्ञानमात्रम् न सिंहादिः क3012श्चित् तद्बहिर्भूतस्तथा जाग्रद्विज्ञानमपि ज्ञानमात्रमेव
ग्रामारामस्त्रीपुरुषादिरूपाद्याकारज्ञानमात्रं तद्व्यतिरिक्तार्थशू3013न्यस्वप्नविज्ञानवद्वेत्येतदापन्नम् । अतः कल्पनाज्ञान
मात्रसत्यमिति विज्ञानव्यतिरिक्तार्थशून्यवादः, विज्ञानमात्रवा3014दस्यापि ग्राह्यग्राहकविकल्पातीतनिर्विकल्पत्वाश्रयस्य
शून्यत्वापत्तेः ।


पुरुषवाद्याह --अचिन्त्यमेवेदं चिन्त्यत इत्यादि । मद्वचनापरिज्ञानादसम्बद्धं दूषणम्, मया हि
पुरुष एवेदम् इत्यवधार्योक्तम्, नोक्तम् इदमेव पुरुषः इति प्रत्यक्षाः सुप्ताद्यवस्था उद्दिश्येति । अत्र१७९-१

  1. ॰समुदायवत्य॰ प्रतिषु नास्ति ॥

  2. एव एवायमन्यः प्र॰ ॥

  3. ॰दाय पु॰ प्र॰ ॥

  4. ॰णीयाक्ष॰ भा॰॰णीयोक्ष॰ य॰ । दृश्यतां पृ॰ ७६ टि॰ ९ ॥

  5. ॰वस्यदिवस्थायि ?चतु॰भा॰

  6. ॰तुल्य क्ष॰ प्र॰ ॥

  7. अन्ते क्षय॰य॰

  8. क्षयोनुमयावस्था॰ प्र॰ ॥

  9. तथा तथा तथाभा॰

  10. कश्चिक्तद्बहि॰भा॰कश्चिद्बहि॰ य॰

  11. ॰शून्यं ?

  12. ॰वास्यापि प्र॰ ॥