334
सङ्ग्रहदेशत्वाद् द्रव्यार्थः । द्रव्यमपि गुणसन्द्रावः, गुणानामेकीभावेन द्रवणं उपनिबन्धनमस्य दु3820विहा पण्णवणा पण्णत्ता--जीवपण्णवणा अजीवपण्णवणा च प्रज्ञा
तेनापि तद्वशित्वात् ।
पनासू॰ १ । ९ । किमिदं भंते ! लो+एत्ति पवुच्चति ? गोयमा । जीवा चेव अजीवा चेव, एवं रयणप्पभा
जाव ईसीपब्भारा समयावलियादि ।
वाक्यम्, किं कारणम् ? तस्मात् सर्वसर्वात्मकत्वादेव, यस्माद्देवदत्तोऽपि गवात्मकोऽभ्याजात्मकश्च तथा
प्रवर्तनात् तत्तदापत्तेः, तान्यपि तथेति तस्मात् सर्वसर्वात्मकत्वात् पृथक् पृथक् सर्वं पदं वाक्यमिति ।
एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः पूर्वविरुद्धत्वान्नयानामविकल्पार्थाद् विधिविधिनयाद् विकल्पार्थ
द्रव्यार्थतया भिद्यते ।
२३९-२ आ3821र्षोक्तानां नयानां कस्मिन्नन्तर्भावः ? इत्यत आह --सङ्ग्रहदेशत्वाद् द्रव्यार्थः, सङ्ग्रहनयस्यापि
शतधा भेदात् तद्देशस्तदेकदेशो द्रव्यशब्दार्थः । कतमस्मिन् विग्रहे इति चेत्, उच्यते --द्रव्यमपि
गुणसन्द्रावः । तद्व्याख्या--सम् एकीभावे, द्रु गतौ पा॰ धा॰ ९४५, तस्माद् गुणानामेकीभावेन
द्रवणम्, कारणे कार्यस्य सत्त्वात् सतामेव सुखादीनां रूपादीनां पृथक् पृथक् सन्निहितानामैक्यगमना
ज्जीवपुद्गलपरिणामः सङ्गमनम् । आह--विध्युभयनयत्वात् सन्निहिततद्विधशक्तीश्वरपृथक्त्वादण्वादीनां
त3822देकैकसर्वात्मकत्वाच्च तेषां भवतु एकीभावः, मा भूदीश्वरस्येति । नेत्युच्यते, तेनापि तद्वशित्वात्
सन्निहिततच्छक्तिनापि सहेश्वरेणैकीभावे तच्छक्तिव्य3823क्तेर्नान्यथेति । अत ए3824व चास्य नयस्याद्वैतवादाद् भेदः ।
आह--किं स्वमनीषिकयैतदुच्यते ? आहोस्विदस्त्यस्य किञ्चिदुपनिबन्धनमार्षमपि ? इति । अस्ति
इत्युच्यते, उपनिबन्धनमस्य--दु3825विहा पण्णवणा प3826ण्णत्ता जीवपण्णवणा अजीवपण्णवणा चेति ।
अथवा 3827किमिदं भंते ! लो+एत्ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा
जाव 3828ईसीपब्भारा समयावलियादि ।