793

तद्यथा--भू8186मनि गोमान् यवमान् । निन्दायां ककुदावर्ती व्यादाय हासी । प्रशंसायां रूपवान् शीलवान् ।
नित्ययोगे क्षीरिणो वृक्षाः कण्टकिनो वृक्षाः । अ8187तिशायने क्रोधी मानी । संसङ्गे दण्डी छत्री ।
अस्तित्वमात्रे यवमतीभिः 8188प्रोक्षतीति । तत्रायम् वर्णवन्तः इत्यादिनिर्देशे म8189तुप्प्रत्ययः संसङ्गेऽ
स्मिन्नयदर्शने । स्याद्वाददर्शने तु द्रव्यपरमाण्वपेक्षो वा, यथा--


दव्वं पज्जव8190वियुतं दव्वविजुत्ता य पज्जवा णत्थि ।

उप्पाद-ट्ठिति-भंगा हंदि दवियलक्खणं एयं ॥ सम्मति॰ १ । १२

५१२-२
इति परमार्थो जिनमते । किन्तु प्रत्येकनयव्याख्यानाद् भावमात्रं त्वनेन गृहीतम् ।

इति दशमो भङ्गो नियमविधिनयः समाप्तः ॥

  1. भूमिति गोमान् यवमान्भा॰भूमान् गोमान् य॰

  2. अतिशायिनोय॰

  3. प्रेक्ष॰ प्र॰ ॥

  4. मत्प्रत्ययःय॰मत्तप्रत्ययः भा॰

  5. ॰वि+उतं दव्ववि+उत्ता य पज्जवा णत्थि उप्पाय॰य॰परस्परनिरपेक्षं चोभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न संभवतीत्याह --दव्वं पज्जववि+उयं दव्ववि+उत्ता य पज्जवा णत्थि । उप्पायट्ठि+इभंगा हंदि दवियलक्खणं एयं ॥ १ । १२ ॥ द्रव्यं पर्यायवियुक्तं नास्ति मृत्पिण्ड-स्थास-कोश-कुसूलाद्यनुगतमृत्सामान्यप्रतीतेः । द्रव्यविरहिताश्च पर्याया न सन्ति अनुगतैकाकारमृत्सामान्यानुविद्धतया मृत्पिण्ड-स्थास-कोशकुशूलादीनां विशेषाणां प्रतिपत्तेः । अतो द्रव्यार्थिकाभिमतं वस्तु पर्यायाक्रान्तमेव, न तद्विविक्तम्, पर्यायाभिमतमपि द्रव्यार्थानुषक्तं न तद्विकलम् परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् । किंभूतं पुनर्द्रव्यमस्तीत्याह --उत्पादस्थितिभङ्गा यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, हंदि इत्युपप्रदर्शने, द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्मः, एतद् दृश्यताम्, यतः पूर्वोत्तरपर्यायपरित्यागोपादानात्मकैकान्वयप्रतिपत्तिस्तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पाद-व्ययध्रौव्यलक्षणं वस्त्वभ्युपगन्तव्यम् । एतच्च त्रितयं परस्परानुविद्धम्, अन्यतमाभावे तदितरयोरप्यभावात् । इति अभयदेवसूरिरचितायां सन्मतिवृत्तौ पृ॰ ४१० ॥