854

नो+आगमतो अ । से किं तं आगमतो भावक्खंधे आगमतो भावक्खंधे जाण+ए उव+उत्ते । से त्तं आगमतो
भावक्खंधे अनुयोगद्वारसू॰ ५४--५५ इत्यादि ।


अयं नियमस्यापि क्षणिकवादस्य नियमः--तदपि वस्तु विज्ञानमेव


इति नियमनियमभङ्गो नाम द्वादशो भङ्गो द्वादशारनयचक्रस्य ।


त्तं आगमतो भावक्खंधे इति व्याकरणोपसंहारः, आगमभावस्कन्धस्योपयोगलक्षणस्य विज्ञानस्वरूप
मात्रत्वा8723त्, आदिग्रहणाच्छ्रुतमावश्यकं सामायिकमन्यद्वा नामादिनिक्षेपानुक्रमेणाधिगमनीयं यत्
किञ्चित् तत् सर्वमागमत उपयोग एव ज्ञानमेवेत्यर्थः ।


अयं नियमस्यापि क्षणिकवादस्यक्षणिकमेव वस्तु इत्यस्यापि दर्शनस्य नियमः--तदपि
क्षणिकं वस्तु विज्ञानमेव, न रूपादि तद्व्यतिरिक्तं बाह्यमस्ति, किं तर्हि ? विज्ञानान्तर्विपरिणाम- ५४८-२
विजृम्भितमात्रमेवेति नियमनियमभङ्गो नामाऽऽदितो विधिभङ्गादारभ्य ग8724म्यमाने द्वादशो भङ्गो
द्वादशारनयचक्रस्य
श्रीमन्मल्लवादिकृतस्य टीकायां श्रीमत्सिंहसूरिगणिरचितायां समाप्तः ॥


  1. ॰त्वादिग्र॰य॰

  2. गण्यमाने ?