855

ओँ अर्हँ


सद्गुरुभ्यो नमः


अथ द्वाद्वशारान्तरम् ।


एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्, सम्भविविकल्पानुपपत्तेः ।


एवं ब्रुवत एवं विज्ञानवचसी निःस्वभावे ।


अथा मा भूदयं दोष इति सस्वभावे विज्ञान-वचसी अभ्युपगच्छसि, सर्वं निःस्वभाव
मित्यभ्युपगमविरोधः । वचसोऽपि सस्वभावत्वे न तर्हि सर्वं निःस्वभावमिति स्ववचन
विरोधश्च दोषः ।


विध्यादिसर्वभङ्गात्मकैकवृत्तिसम्यग्दर्शनाधिकारे प्रत्येकवृत्तिमिथ्यादर्शनत्वापादनार्थं प्रवृत्तत्वा
दाह --एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्, यथा क्षणिकमेव रूपादिसमुदा8725यमेव वक्तव्यमेव
सामान्य8726-विशेषैका-ऽन्यत्वादीनीती ?त्येकान्तवादानामयुक्तत्वमेकान्तत्वात्, युक्तत्वे वा जैनेन्द्रत्व
मनेकान्तप्रतिष्ठगतित्वाद्वेत्युक्तं तथैतदपि सर्वं निःस्वभावम् इति मतम् । कस्मात् ? सम्भवि
विकल्पानुपपत्तेः,
अस्मिन्नपि मते ये विकल्पाः सम्भवन्ति सङ्ग्रहेण विज्ञान-वचसोर्नैःस्वाभाव्यं
स्वाभाव्यं वा
इत्यनयोरेव भेदा वक्ष्यमाणास्ते सर्वथा नोपपद्यन्ते, तदनुपपत्तेरस्यापि मतस्यायुक्तिः ।
अतो जैनकल्पितानेकान्तरूपत्वं वस्तुनः श्रेय इत्युपसंहारो भविष्यति ।


तद्यथा --एवं सर्वं निःस्वभावमिति ब्रुवतोऽतीतासिद्ध्यादियुक्तिप्रकारेण तव इति प्रत्युच्चारणं
प्रथमैवंशब्दात् । द्वितीयैवंशब्दाद् विज्ञान-वचसोरपि त्वयोक्तयोः सर्वान्तःपातित्वादविशेष्य सर्वं
५४९-१ निःस्वभावम्
इत्युक्तत्वाद् विज्ञानतत्त्वाच्चातिप्रसक्तं विज्ञान-वचसी निःस्वभावे इत्येतद् व8727चः,
अनिष्टं च तद् विज्ञान-वचसोरप्रत्यायनप्रसङ्गात् । यदा हि विज्ञानमसत् तदा निःस्वभावमिदं सर्वम्
इत्यनिश्चितम् स्वयमनिश्चित्यास्मान् प्रतिपिपादयिषतस्ते पक्षादिसाधनवचनासत्त्वं च । तस्मात्
परप्रत्यायनमयुक्तम् विज्ञानवचसोर्निश्चितपक्षादित्वेनाभूतत्वात् उन्मत्तविज्ञान-प्रलापवदिति निः
स्वभावविकल्पो ज्ञान-वचसोः सर्ववस्तुनैःस्वाभाव्यं व्यावर्तयतीति दोषः ।


अथ मा भूदित्यादि । एतद्दोषभयात् सस्वभावे विज्ञानवचसी त्वदीये 8728चेदभ्युपगच्छसि सर्वं
निःस्वभावम्
इत्यस्याभ्युपगमस्य विरोधः, केन ? ज्ञान-वचनस्वभावत्वाभ्युपगमेनेत्यभ्युपगमविरोधः

  1. ॰दायमेव वक्तव्यमेव सामान्यविशेषैकान्यत्वा॰भा॰॰दायमेव सामान्यविशेषैन्यत्वा॰ य॰॰दाय एव वक्तव्यमेवावक्तव्यमेव इत्यपि पाठोऽत्र सम्भाव्यते ॥

  2. ॰विशेषैन्यत्वा॰य॰

  3. वरोनिष्टं प्र॰ ॥

  4. चेवभ्युप॰ प्र॰ ॥